२७ सर्गः
तथागतां तां व्यथितामनिन्दितांव्यपेतहर्षां परिदीनमानसाम्।शुभां निमित्तानि शुभानि भेजिरेनरं श्रिया जुष्टमिवोपजीविनः॥ १तस्याः शुभं वाममरालपक्ष्मराजीवृतं कृष्णविशालशुक्लम्।प्रास्पन्दतैकं नयनं सुकेश्यामीनाहतं पद्ममिवाभिताम्रम्॥ २भुजश्च चार्वञ्चितपीनवृत्तःपरार्ध्य कालागुरुचन्दनार्हः।अनुत्तमेनाध्युषितः प्रियेणचिरेण वामः समवेपताशु॥ ३गजेन्द्रहस्तप्रतिमश्च पीनस्तयोर्द्वयोः संहतयोः सुजातः।प्रस्पन्दमानः पुनरूरुरस्यारामं पुरस्तात्स्थितमाचचक्षे॥ ४शुभं पुनर्हेमसमानवर्णमीषद्रजोध्वस्तमिवामलाक्ष्याः।वासः स्थितायाः शिखराग्रदन्त्याःकिंचित्परिस्रंसत चारुगात्र्याः॥ ५एतैर्निमित्तैरपरैश्च सुभ्रूःसंबोधिता प्रागपि साधुसिद्धैः।वातातपक्लान्तमिव प्रनष्टंवर्षेण बीजं प्रतिसंजहर्ष॥ ६तस्याः पुनर्बिम्बफलोपमौष्ठंस्वक्षिभ्रुकेशान्तमरालपक्ष्म।वक्त्रं बभासे सितशुक्लदंष्ट्रंराहोर्मुखाच्चन्द्र इव प्रमुक्तः॥ ७सा वीतशोका व्यपनीततन्द्रीशान्तज्वरा हर्षविबुद्धसत्त्वा।अशोभतार्या वदनेन शुक्लेशीतान्शुना रात्रिरिवोदितेन॥ ८इति श्रीरामायणे सुन्दरकाण्डे सप्तविंशतितमः सर्गः ॥ २७
वाल्मीकिरामायणम् Baroda Critical EditionCC0. No rights reserved