२८ सर्गः
हनुमानपि विक्रान्तः सर्वं शुश्राव तत्त्वतः।सीतायास्त्रिजटायाश्च राक्षसीनां च तर्जनम्॥ १अवेक्षमाणस्तां देवीं देवतामिव नन्दने।ततो बहुविधां चिन्तां चिन्तयामास वानरः॥ २यां कपीनां सहस्राणि सुबहून्ययुतानि च।दिक्षु सर्वासु मार्गन्ते सेयमासादिता मया॥ ३चारेण तु सुयुक्तेन शत्रोः शक्तिमवेक्षिता।गूढेन चरता तावदवेक्षितमिदं मया॥ ४राक्षसानां विशेषश्च पुरी चेयमवेक्षिता।राक्षसाधिपतेरस्य प्रभावो रावणस्य च॥ ५युक्तं तस्याप्रमेयस्य सर्वसत्त्वदयावतः।समाश्वासयितुं भार्यां पतिदर्शनकाङ्क्षिणीम्॥ ६अहमाश्वासयाम्येनां पूर्णचन्द्रनिभाननाम्।अदृष्टदुःखां दुःखस्य न ह्यन्तमधिगच्छतीम्॥ ७यदि ह्यहमिमां देवीं शोकोपहतचेतनाम्।अनाश्वास्य गमिष्यामि दोषवद्गमनं भवेत्॥ ८गते हि मयि तत्रेयं राजपुत्री यशस्विनी।परित्राणमविन्दन्ती जानकी जीवितं त्यजेत्॥ ९मया च स महाबाहुः पूर्णचन्द्रनिभाननः।समाश्वासयितुं न्याय्यः सीतादर्शनलालसः॥ १०निशाचरीणां प्रत्यक्षमक्षमं चाभिभाषणम्।कथं नु खलु कर्तव्यमिदं कृच्छ्र गतो ह्यहम्॥ ११अनेन रात्रिशेषेण यदि नाश्वास्यते मया।सर्वथा नास्ति संदेहः परित्यक्ष्यति जीवितम्॥ १२रामश्च यदि पृच्छेन्मां किं मां सीताब्रवीद्वचः।किमहं तं प्रतिब्रूयामसंभाष्य सुमध्यमाम्॥ १३सीतासंदेशरहितं मामितस्त्वरया गतम्।निर्दहेदपि काकुत्स्थः क्रुद्धस्तीव्रेण चक्षुषा॥ १४यदि चेद्योजयिष्यामि भर्तारं रामकारणात्।व्यर्थमागमनं तस्य ससैन्यस्य भविष्यति॥ १५अन्तरं त्वहमासाद्य राक्षसीनामिह स्थितः।शनैराश्वासयिष्यामि संतापबहुलामिमाम्॥ १६अहं ह्यतितनुश्चैव वनरश्च विशेषतः।वाचं चोदाहरिष्यामि मानुषीमिह संस्कृताम्॥ १७यदि वाचं प्रदास्यामि द्विजातिरिव संस्कृताम्।रावणं मन्यमाना मां सीता भीता भविष्यति॥ १८अवश्यमेव वक्तव्यं मानुषं वाक्यमर्थवत्।मया सान्त्वयितुं शक्या नान्यथेयमनिन्दिता॥ १९सेयमालोक्य मे रूपं जानकी भाषितं तथा।रक्षोभिस्त्रासिता पूर्वं भूयस्त्रासं गमिष्यति॥ २०ततो जातपरित्रासा शब्दं कुर्यान्मनस्विनी।जानमाना विशालाक्षी रावणं कामरूपिणम्॥ २१सीतया च कृते शब्दे सहसा राक्षसीगणः।नानाप्रहरणो घोरः समेयादन्तकोपमः॥ २२ततो मां संपरिक्षिप्य सर्वतो विकृताननाः।वधे च ग्रहणे चैव कुर्युर्यत्नं यथाबलम्॥ २३तं मां शाखाः प्रशाखाश्च स्कन्धांश्चोत्तमशाखिनाम्।दृष्ट्वा विपरिधावन्तं भवेयुर्भयशङ्किताः॥ २४मम रूपं च संप्रेक्ष्य वनं विचरतो महत्।राक्षस्यो भयवित्रस्ता भवेयुर्विकृताननाः॥ २५ततः कुर्युः समाह्वानं राक्षस्यो रक्षसामपि।राक्षसेन्द्रनियुक्तानां राक्षसेन्द्रनिवेशने॥ २६ते शूलशरनिस्त्रिंश विविधायुधपाणयः।आपतेयुर्विमर्देऽस्मिन्वेगेनोद्विग्नकारिणः॥ २७संक्रुद्धस्तैस्तु परितो विधमन्रक्षसां बलम्।शक्नुयं न तु संप्राप्तुं परं पारं महोदधेः॥ २८मां वा गृह्णीयुराप्लुत्य बहवः शीघ्रकारिणः।स्यादियं चागृहीतार्था मम च ग्रहणं भवेत्॥ २९हिंसाभिरुचयो हिंस्युरिमां वा जनकात्मजाम्।विपन्नं स्यात्ततः कार्यं रामसुग्रीवयोरिदम्॥ ३०उद्देशे नष्टमार्गेऽस्मिन्राक्षसैः परिवारिते।सागरेण परिक्षिप्ते गुप्ते वसति जानकी॥ ३१विशस्ते वा गृहीते वा रक्षोभिर्मयि संयुगे।नान्यं पश्यामि रामस्य सहायं कार्यसाधने॥ ३२विमृशंश्च न पश्यामि यो हते मयि वानरः।शतयोजनविस्तीर्णं लङ्घयेत महोदधिम्॥ ३३कामं हन्तुं समर्थोऽस्मि सहस्राण्यपि रक्षसाम्।न तु शक्ष्यामि संप्राप्तुं परं पारं महोदधेः॥ ३४असत्यानि च युद्धानि संशयो मे न रोचते।कश्च निःसंशयं कार्यं कुर्यात्प्राज्ञः ससंशयम्॥ ३५एष दोषो महान्हि स्यान्मम सीताभिभाषणे।प्राणत्यागश्च वैदेह्या भवेदनभिभाषणे॥ ३६भूताश्चार्था विनश्यन्ति देशकालविरोधिताः।विक्लवं दूतमासाद्य तमः सूर्योदये यथा॥ ३७अर्थानर्थान्तरे बुद्धिर्निश्चितापि न शोभते।घातयन्ति हि कार्याणि दूताः पण्डितमानिनः॥ ३८न विनश्येत्कथं कार्यं वैक्लव्यं न कथं भवेत्।लङ्घनं च समुद्रस्य कथं नु न वृथा भवेत्॥ ३९कथं नु खलु वाक्यं मे शृणुयान्नोद्विजेत च।इति संचिन्त्य हनुमांश्चकार मतिमान्मतिम्॥ ४०राममक्लिष्टकर्माणं स्वबन्धुमनुकीर्तयन्।नैनामुद्वेजयिष्यामि तद्बन्धुगतमानसाम्॥ ४१इक्ष्वाकूणां वरिष्ठस्य रामस्य विदितात्मनः।शुभानि धर्मयुक्तानि वचनानि समर्पयन्॥ ४२श्रावयिष्यामि सर्वाणि मधुरां प्रब्रुवन्गिरम्।श्रद्धास्यति यथा हीयं तथा सर्वं समादधे॥ ४३इति स बहुविधं महानुभावोजगतिपतेः प्रमदामवेक्षमाणः।मधुरमवितथं जगाद वाक्यंद्रुमविटपान्तरमास्थितो हनूमान्॥ ४४इति श्रीरामायणे सुन्दरकाण्डे अष्टाविंशतितमः सर्गः ॥ २८
वाल्मीकिरामायणम् Baroda Critical EditionCC0. No rights reserved