३० सर्गः
ततः शाखान्तरे लीनं दृष्ट्वा चलितमानसा।सा ददर्श कपिं तत्र प्रश्रितं प्रियवादिनम्॥ १सा तु दृष्ट्वा हरिश्रेष्ठं विनीतवदुपस्थितम्।मैथिली चिन्तयामास स्वप्नोऽयमिति भामिनी॥ २सा तं समीक्ष्यैव भृशं विसंज्ञागतासुकल्पेव बभूव सीता।चिरेण संज्ञां प्रतिलभ्य चैवविचिन्तयामास विशालनेत्रा॥ ३स्वप्नो मयायं विकृतोऽद्य दृष्टःशाखामृगः शास्त्रगणैर्निषिद्धः।स्वस्त्यस्तु रामाय सलक्ष्मणायतथा पितुर्मे जनकस्य राज्ञः॥ ४स्वप्नोऽपि नायं न हि मेऽस्ति निद्राशोकेन दुःखेन च पीडितायाः।सुखं हि मे नास्ति यतोऽस्मि हीनातेनेन्दुपूर्णप्रतिमाननेन॥ ५अहं हि तस्याद्य मनो भवेनसंपीडिता तद्गतसर्वभावा।विचिन्तयन्ती सततं तमेवतथैव पश्यामि तथा शृणोमि॥ ६मनोरथः स्यादिति चिन्तयामितथापि बुद्ध्या च वितर्कयामि।किं कारणं तस्य हि नास्ति रूपंसुव्यक्तरूपश्च वदत्ययं माम्॥ ७नमोऽस्तु वाचस्पतये सवज्रिणेस्वयम्भुवे चैव हुताशनाय।अनेन चोक्तं यदिदं ममाग्रतोवनौकसा तच्च तथास्तु नान्यथा॥ ८इति श्रीरामायणे सुन्दरकाण्डे त्रिंशत्तमः सर्गः ॥ ३०
वाल्मीकिरामायणम् Baroda Critical EditionCC0. No rights reserved