३२ सर्गः
तस्यास्तद्वचनं श्रुत्वा हनूमान्हरियूथपः।दुःखाद्दुःखाभिभूतायाः सान्तमुत्तरमब्रवीत्॥ १अहं रामस्य संदेशाद्देवि दूतस्तवागतः।वैदेहि कुशली रामस्त्वां च कौशलमब्रवीत्॥ २यो ब्राह्ममस्त्रं वेदांश्च वेद वेदविदां वरः।स त्वां दाशरथी रामो देवि कौशलमब्रवीत्॥ ३लक्ष्मणश्च महातेजा भर्तुस्तेऽनुचरः प्रियः।कृतवाञ्शोकसंतप्तः शिरसा तेऽभिवादनम्॥ ४सा तयोः कुशलं देवी निशम्य नरसिंहयोः।प्रीतिसंहृष्टसर्वाङ्गी हनूमान्तमथाब्रवीत्॥ ५कल्याणी बत गथेयं लौकिकी प्रतिभाति मे।एहि जीवन्तमानदो नरं वर्षशतादपि॥ ६तयोः समागमे तस्मिन्प्रीतिरुत्पादिताद्भुता।परस्परेण चालापं विश्वस्तौ तौ प्रचक्रतुः॥ ७तस्यास्तद्वचनं श्रुत्वा हनूमान्हरियूथपः।सीतायाः शोकदीनायाः समीपमुपचक्रमे॥ ८यथा यथा समीपं स हनूमानुपसर्पति।तथा तथा रावणं सा तं सीता परिशङ्कते॥ ९अहो धिग्धिक्कृतमिदं कथितं हि यदस्य मे।रूपान्तरमुपागम्य स एवायं हि रावणः॥ १०तामशोकस्य शाखां सा विमुक्त्वा शोककर्शिता।तस्यामेवानवद्याङ्गी धरण्यां समुपाविशत्॥ ११अवन्दत महाबाहुस्ततस्तां जनकात्मजाम्।सा चैनं भयवित्रस्ता भूयो नैवाभ्युदैक्षत॥ १२तं दृष्ट्वा वन्दमानं तु सीता शशिनिभानना।अब्रवीद्दीर्घमुच्छ्वस्य वानरं मधुरस्वरा॥ १३मायां प्रविष्टो मायावी यदि त्वं रावणः स्वयम्।उत्पादयसि मे भूयः संतापं तन्न शोभनम्॥ १४स्वं परित्यज्य रूपं यः परिव्राजकरूपधृत्।जनस्थाने मया दृष्टस्त्वं स एवासि रावणः॥ १५उपवासकृशां दीनां कामरूप निशाचर।संतापयसि मां भूयः संतापं तन्न शोभनम्॥ १६यदि रामस्य दूतस्त्वमागतो भद्रमस्तु ते।पृच्छामि त्वां हरिश्रेष्ठ प्रिया राम कथा हि मे॥ १७गुणान्रामस्य कथय प्रियस्य मम वानर।चित्तं हरसि मे सौम्य नदीकूलं यथा रयः॥ १८अहो स्वप्नस्य सुखता याहमेवं चिराहृता।प्रेषितं नाम पश्यामि राघवेण वनौकसं॥ १९स्वप्नेऽपि यद्यहं वीरं राघवं सहलक्ष्मणम्।पश्येयं नावसीदेयं स्वप्नोऽपि मम मत्सरी॥ २०नाहं स्वप्नमिमं मन्ये स्वप्ने दृष्ट्वा हि वानरम्।न शक्योऽभ्युदयः प्राप्तुं प्राप्तश्चाभ्युदयो मम॥ २१किं नु स्याच्चित्तमोहोऽयं भवेद्वातगतिस्त्वियम्।उन्मादजो विकारो वा स्यादियं मृगतृष्णिका॥ २२अथ वा नायमुन्मादो मोहोऽप्युन्मादलक्ष्मणः।संबुध्ये चाहमात्मानमिमं चापि वनौकसं॥ २३इत्येवं बहुधा सीता संप्रधार्य बलाबलम्।रक्षसां कामरूपत्वान्मेने तं राक्षसाधिपम्॥ २४एतां बुद्धिं तदा कृत्वा सीता सा तनुमध्यमा।न प्रतिव्याजहाराथ वानरं जनकात्मजा॥ २५सीतायाश्चिन्तितं बुद्ध्वा हनूमान्मारुतात्मजः।श्रोत्रानुकूलैर्वचनैस्तदा तां संप्रहर्षयत्॥ २६आदित्य इव तेजस्वी लोककान्तः शशी यथा।राजा सर्वस्य लोकस्य देवो वैश्रवणो यथा॥ २७विक्रमेणोपपन्नश्च यथा विष्णुर्महायशाः।सत्यवादी मधुरवाग्देवो वाचस्पतिर्यथा॥ २८रूपवान्सुभगः श्रीमान्कन्दर्प इव मूर्तिमान्।स्थानक्रोधप्रहर्ता च श्रेष्ठो लोके महारथः।बाहुच्छायामवष्टब्धो यस्य लोको महात्मनः॥ २९अपकृष्याश्रमपदान्मृगरूपेण राघवम्।शून्ये येनापनीतासि तस्य द्रक्ष्यसि यत्फलम्॥ ३०नचिराद्रावणं संख्ये यो वधिष्यति वीर्यवान्।रोषप्रमुक्तैरिषुभिर्ज्वलद्भिरिव पावकैः॥ ३१तेनाहं प्रेषितो दूतस्त्वत्सकाशमिहागतः।त्वद्वियोगेन दुःखार्तः स त्वां कौशलमब्रवीत्॥ ३२लक्ष्मणश्च महातेजाः सुमित्रानन्दवर्धनः।अभिवाद्य महाबाहुः सोऽपि कौशलमब्रवीत्॥ ३३रामस्य च सखा देवि सुग्रीवो नाम वानरः।राजा वानरमुख्यानां स त्वां कौशलमब्रवीत्॥ ३४नित्यं स्मरति रामस्त्वां ससुग्रीवः सलक्ष्मणः।दिष्ट्या जीवसि वैदेहि राक्षसी वशमागता॥ ३५नचिराद्द्रक्ष्यसे रामं लक्ष्मणं च महारथम्।मध्ये वानरकोटीनां सुग्रीवं चामितौजसं॥ ३६अहं सुग्रीवसचिवो हनूमान्नाम वानरः।प्रविष्टो नगरीं लङ्कां लङ्घयित्वा महोदधिम्॥ ३७कृत्वा मूर्ध्नि पदन्यासं रावणस्य दुरात्मनः।त्वां द्रष्टुमुपयातोऽहं समाश्रित्य पराक्रमम्॥ ३८नाहमस्मि तथा देवि यथा मामवगच्छसि।विशङ्का त्यज्यतामेषा श्रद्धत्स्व वदतो मम॥ ३९इति श्रीरामायणे सुन्दरकाण्डे द्वात्रिंशत्तमः सर्गः ॥ ३२
वाल्मीकिरामायणम् Baroda Critical EditionCC0. No rights reserved