३६ सर्गः
ततः स कपिशार्दूलस्तेन वाक्येन हर्षितः।सीतामुवाच तच्छ्रुत्वा वाक्यं वाक्यविशारदः॥ १युक्तरूपं त्वया देवि भाषितं शुभदर्शने।सदृशं स्त्रीस्वभावस्य साध्वीनां विनयस्य च॥ २स्त्रीत्वं न तु समर्थं हि सागरं व्यतिवर्तितुम्।मामधिष्ठाय विस्तीर्णं शतयोजनमायतम्॥ ३द्वितीयं कारणं यच्च ब्रवीषि विनयान्विते।रामादन्यस्य नार्हामि संस्पर्शमिति जानकि॥ ४एतत्ते देवि सदृशं पत्न्यास्तस्य महात्मनः।का ह्यन्या त्वामृते देवि ब्रूयाद्वचनमीदृशम्॥ ५श्रोष्यते चैव काकुत्स्थः सर्वं निरवशेषतः।चेष्टितं यत्त्वया देवि भाषितं मम चाग्रतः॥ ६कारणैर्बहुभिर्देवि राम प्रियचिकीर्षया।स्नेहप्रस्कन्नमनसा मयैतत्समुदीरितम्॥ ७लङ्काया दुष्प्रवेशत्वाद्दुस्तरत्वान्महोदधेः।सामर्थ्यादात्मनश्चैव मयैतत्समुदाहृतम्॥ ८इच्छामि त्वां समानेतुमद्यैव रघुबन्धुना।गुरुस्नेहेन भक्त्या च नान्यथा तदुदाहृतम्॥ ९यदि नोत्सहसे यातुं मया सार्धमनिन्दिते।अभिज्ञानं प्रयच्छ त्वं जानीयाद्राघवो हि यत्॥ १०एवमुक्ता हनुमता सीता सुरसुतोपमा।उवाच वचनं मन्दं बाष्पप्रग्रथिताक्षरम्॥ ११इदं श्रेष्ठमभिज्ञानं ब्रूयास्त्वं तु मम प्रियम्।शैलस्य चित्रकूटस्य पादे पूर्वोत्तरे तदा॥ १२तापसाश्रमवासिन्याः प्राज्यमूलफलोदके।तस्मिन्सिद्धाश्रमे देशे मन्दाकिन्या अदूरतः॥ १३तस्योपवनषण्डेषु नानापुष्पसुगन्धिषु।विहृत्य सलिलक्लिन्ना तवाङ्के समुपाविशम्॥ १४पर्यायेण प्रसुप्तश्च ममाङ्के भरताग्रजः॥ १५ततो मांससमायुक्तो वायसः पर्यतुण्डयत्।तमहं लोष्टमुद्यम्य वारयामि स्म वायसं॥ १६दारयन्स च मां काकस्तत्रैव परिलीयते।न चाप्युपरमन्मांसाद्भक्षार्थी बलिभोजनः॥ १७उत्कर्षन्त्यां च रशनां क्रुद्धायां मयि पक्षिणे।स्रंसमाने च वसने ततो दृष्टा त्वया ह्यहम्॥ १८त्वया विहसिता चाहं क्रुद्धा संलज्जिता तदा।भक्ष्य गृद्धेन कालेन दारिता त्वामुपागता॥ १९आसीनस्य च ते श्रान्ता पुनरुत्सङ्गमाविशम्।क्रुध्यन्ती च प्रहृष्टेन त्वयाहं परिसान्त्विता॥ २०बाष्पपूर्णमुखी मन्दं चक्षुषी परिमार्जती।लक्षिताहं त्वया नाथ वायसेन प्रकोपिता॥ २१आशीविष इव क्रुद्धः श्वसान्वाक्यमभाषथाः।केन ते नागनासोरु विक्षतं वै स्तनान्तरम्।कः क्रीडति सरोषेण पञ्चवक्त्रेण भोगिना॥ २२वीक्षमाणस्ततस्तं वै वायसं समवैक्षथाः।नखैः सरुधिरैस्तीक्ष्णैर्मामेवाभिमुखं स्थितम्॥ २३पुत्रः किल स शक्रस्य वायसः पततां वरः।धरान्तरचरः शीघ्रं पवनस्य गतौ समः॥ २४ततस्तस्मिन्महाबाहुः कोपसंवर्तितेक्षणः।वायसे कृतवान्क्रूरां मतिं मतिमतां वर॥ २५स दर्भसंस्तराद्गृह्य ब्रह्मणोऽस्त्रेण योजयः।स दीप्त इव कालाग्निर्जज्वालाभिमुखो द्विजम्॥ २६चिक्षेपिथ प्रदीप्तां तामिषीकां वायसं प्रति।अनुसृष्टस्तदा कालो जगाम विविधां गतिम्।त्राणकाम इमं लोकं सर्वं वै विचचार ह॥ २७स पित्रा च परित्यक्तः सुरैः सर्वैर्महर्षिभिः।त्रीँल्लोकान्संपरिक्रम्य त्वामेव शरणं गतः॥ २८तं त्वं निपतितं भूमौ शरण्यः शरणागतम्।वधार्हमपि काकुत्स्थ कृपया पर्यपालयः।न शर्म लब्ध्वा लोकेषु त्वामेव शरणं गतः॥ २९परिद्यूनं विषण्णं च स त्वमायान्तमुक्तवान्।मोघं कर्तुं न शक्यं तु ब्राह्ममस्त्रं तदुच्यताम्॥ ३०ततस्तस्याक्षि काकस्य हिनस्ति स्म स दक्षिणम्॥ ३१स ते तदा नमस्कृत्वा राज्ञे दशरथाय च।त्वया वीर विसृष्टस्तु प्रतिपेदे स्वमालयम्॥ ३२मत्कृते काकमात्रेऽपि ब्रह्मास्त्रं समुदीरितम्।कस्माद्यो मां हरत्त्वत्तः क्षमसे तं महीपते॥ ३३स कुरुष्व महोत्साहं कृपां मयि नरर्षभ।आनृशंस्यं परो धर्मस्त्वत्त एव मया श्रुतः॥ ३४जानामि त्वां महावीर्यं महोत्साहं महाबलम्।अपारपारमक्षोभ्यं गाम्भीर्यात्सागरोपमम्।भर्तारं ससमुद्राया धरण्या वासवोपमम्॥ ३५एवमस्त्रविदां श्रेष्ठः सत्त्ववान्बलवानपि।किमर्थमस्त्रं रक्षःसु न योजयसि राघव॥ ३६न नागा नापि गन्धर्वा नासुरा न मरुद्गणाः।रामस्य समरे वेगं शक्ताः प्रति समाधितुम्॥ ३७तस्या वीर्यवतः कश्चिद्यद्यस्ति मयि संभ्रमः।किमर्थं न शरैस्तीक्ष्णैः क्षयं नयति राक्षसान्॥ ३८भ्रातुरादेशमादाय लक्ष्मणो वा परंतपः।कस्य हेतोर्न मां वीरः परित्राति महाबलः॥ ३९यदि तौ पुरुषव्याघ्रौ वाय्विन्द्रसमतेजसौ।सुराणामपि दुर्धर्षो किमर्थं मामुपेक्षतः॥ ४०ममैव दुष्कृतं किंचिन्महदस्ति न संशयः।समर्थावपि तौ यन्मां नावेक्षेते परंतपौ॥ ४१कौसल्या लोकभर्तारं सुषुवे यं मनस्विनी।तं ममार्थे सुखं पृच्छ शिरसा चाभिवादय॥ ४२स्रजश्च सर्वरत्नानि प्रिया याश्च वराङ्गनाः।ऐश्वर्यं च विशालायां पृथिव्यामपि दुर्लभम्॥ ४३पितरं मातरं चैव संमान्याभिप्रसाद्य च।अनुप्रव्रजितो रामं सुमित्रा येन सुप्रजाः।आनुकूल्येन धर्मात्मा त्यक्त्वा सुखमनुत्तमम्॥ ४४अनुगच्छति काकुत्स्थं भ्रातरं पालयन्वने।सिंहस्कन्धो महाबाहुर्मनस्वी प्रियदर्शनः॥ ४५पितृवद्वर्तते रामे मातृवन्मां समाचरन्।ह्रियमाणां तदा वीरो न तु मां वेद लक्ष्मणः॥ ४६वृद्धोपसेवी लक्ष्मीवाञ्शक्तो न बहुभाषिता।राजपुत्रः प्रियश्रेष्ठः सदृशः श्वशुरस्य मे॥ ४७मत्तः प्रियतरो नित्यं भ्राता रामस्य लक्ष्मणः।नियुक्तो धुरि यस्यां तु तामुद्वहति वीर्यवान्॥ ४८यं दृष्ट्वा राघवो नैव वृद्धमार्यमनुस्मरत्।स ममार्थाय कुशलं वक्तव्यो वचनान्मम।मृदुर्नित्यं शुचिर्दक्षः प्रियो रामस्य लक्ष्मणः॥ ४९इदं ब्रूयाश्च मे नाथं शूरं रामं पुनः पुनः।जीवितं धारयिष्यामि मासं दशरथात्मज।ऊर्ध्वं मासान्न जीवेयं सत्येनाहं ब्रवीमि ते॥ ५०रावणेनोपरुद्धां मां निकृत्या पापकर्मणा।त्रातुमर्हसि वीर त्वं पातालादिव कौशिकीम्॥ ५१ततो वस्त्रगतं मुक्त्वा दिव्यं चूडामणिं शुभम्।प्रदेयो राघवायेति सीता हनुमते ददौ॥ ५२प्रतिगृह्य ततो वीरो मणिरत्नमनुत्तमम्।अङ्गुल्या योजयामास न ह्यस्या प्राभवद्भुजः॥ ५३मणिरत्नं कपिवरः प्रतिगृह्याभिवाद्य च।सीतां प्रदक्षिणं कृत्वा प्रणतः पार्श्वतः स्थितः॥ ५४हर्षेण महता युक्तः सीतादर्शनजेन सः।हृदयेन गतो रामं शरीरेण तु विष्ठितः॥ ५५मणिवरमुपगृह्य तं महार्हंजनकनृपात्मजया धृतं प्रभावात्।गिरिवरपवनावधूतमुक्तःसुखितमनाः प्रतिसंक्रमं प्रपेदे॥ ५६इति श्रीरामायणे सुन्दरकाण्डे षट्त्रिंशः सर्गः ॥ ३६
वाल्मीकिरामायणम् Baroda Critical EditionCC0. No rights reserved