३७ सर्गः
मणिं दत्त्वा ततः सीता हनूमन्तमथाब्रवीत्।अभिज्ञानमभिज्ञातमेतद्रामस्य तत्त्वतः॥ १मणिं तु दृष्ट्वा रामो वै त्रयाणां संस्मरिष्यति।वीरो जनन्या मम च राज्ञो दशरथस्य च॥ २स भूयस्त्वं समुत्साहे चोदितो हरिसत्तम।अस्मिन्कार्यसमारम्भे प्रचिन्तय यदुत्तरम्॥ ३त्वमस्मिन्कार्यनिर्योगे प्रमाणं हरिसत्तम।तस्य चिन्तय यो यत्नो दुःखक्षयकरो भवेत्॥ ४स तथेति प्रतिज्ञाय मारुतिर्भीमविक्रमः।शिरसावन्द्य वैदेहीं गमनायोपचक्रमे॥ ५ज्ञात्वा संप्रस्थितं देवी वानरं मारुतात्मजम्।बाष्पगद्गदया वाचा मैथिली वाक्यमब्रवीत्॥ ६कुशलं हनुमन्ब्रूयाः सहितौ रामलक्ष्मणौ।सुग्रीवं च सहामात्यं वृद्धान्सर्वांश्च वानरान्॥ ७यथा च स महाबाहुर्मां तारयति राघवः।अस्माद्दुःखाम्बुसंरोधात्त्वं समाधातुमर्हसि॥ ८जीवन्तीं मां यथा रामः संभावयति कीर्तिमान्।तत्त्वया हनुमन्वाच्यं वाचा धर्ममवाप्नुहि॥ ९नित्यमुत्साहयुक्ताश्च वाचः श्रुत्वा मयेरिताः।वर्धिष्यते दाशरथेः पौरुषं मदवाप्तये॥ १०मत्संदेशयुता वाचस्त्वत्तः श्रुत्वैव राघवः।पराक्रमविधिं वीरो विधिवत्संविधास्यति॥ ११सीतायास्तद्वचः श्रुत्वा हनुमान्मारुतात्मजः।शिरस्यञ्जलिमाधाय वाक्यमुत्तरमब्रवीत्॥ १२क्षिप्रमेष्यति काकुत्स्थो हर्यृक्षप्रवरैर्वृतः।यस्ते युधि विजित्यारीञ्शोकं व्यपनयिष्यति॥ १३न हि पश्यामि मर्त्येषु नामरेष्वसुरेषु वा।यस्तस्य वमतो बाणान्स्थातुमुत्सहतेऽग्रतः॥ १४अप्यर्कमपि पर्जन्यमपि वैवस्वतं यमम्।स हि सोढुं रणे शक्तस्तवहेतोर्विशेषतः॥ १५स हि सागरपर्यन्तां महीं शासितुमीहते।त्वन्निमित्तो हि रामस्य जयो जनकनन्दिनि॥ १६तस्य तद्वचनं श्रुत्वा सम्यक्सत्यं सुभाषितम्।जानकी बहु मेनेऽथ वचनं चेदमब्रवीत्॥ १७ततस्तं प्रस्थितं सीता वीक्षमाणा पुनः पुनः।भर्तुः स्नेहान्वितं वाक्यं सौहार्दादनुमानयत्॥ १८यदि वा मन्यसे वीर वसैकाहमरिंदम।कस्मिंश्चित्संवृते देशे विश्रान्तः श्वो गमिष्यसि॥ १९मम चेदल्पभाग्यायाः साम्निध्यात्तव वीर्यवान्।अस्य शोकस्य महतो मुहूर्तं मोक्षणं भवेत्॥ २०गते हि हरिशार्दूल पुनरागमनाय तु।प्राणानामपि संदेहो मम स्यान्नात्र संशयः॥ २१तवादर्शनजः शोको भूयो मां परितापयेत्।दुःखाद्दुःखपरामृष्टां दीपयन्निव वानर॥ २२अयं च वीर संदेहस्तिष्ठतीव ममाग्रतः।सुमहांस्त्वत्सहायेषु हर्यृक्षेषु हरीश्वर॥ २३कथं नु खलु दुष्पारं तरिष्यन्ति महोदधिम्।तानि हर्यृक्षसैन्यानि तौ वा नरवरात्मजौ॥ २४त्रयाणामेव भूतानां सागरस्येह लङ्घने।शक्तिः स्याद्वैनतेयस्य तव वा मारुतस्य वा॥ २५तदस्मिन्कार्यनिर्योगे वीरैवं दुरतिक्रमे।किं पश्यसि समाधानं त्वं हि कार्यविदां वरः॥ २६काममस्य त्वमेवैकः कार्यस्य परिसाधने।पर्याप्तः परवीरघ्न यशस्यस्ते बलोदयः॥ २७बलैः समग्रैर्यदि मां रावणं जित्य संयुगे।विजयी स्वपुरं यायात्तत्तु मे स्याद्यशस्करम्॥ २८बलैस्तु संकुलां कृत्वा लङ्कां परबलार्दनः।मां नयेद्यदि काकुत्स्थस्तत्तस्य सदृशं भवेत्॥ २९तद्यथा तस्य विक्रान्तमनुरूपं महात्मनः।भवेदाहव शूरस्य तथा त्वमुपपादय॥ ३०तदर्थोपहितं वाक्यं सहितं हेतुसंहितम्।निशम्य हनुमाञ्शेषं वाक्यमुत्तरमब्रवीत्॥ ३१देवि हर्यृक्षसैन्यानामीश्वरः प्लवतां वरः।सुग्रीवः सत्त्वसंपन्नस्तवार्थे कृतनिश्चयः॥ ३२स वानरसहस्राणां कोटीभिरभिसंवृतः।क्षिप्रमेष्यति वैदेहि राक्षसानां निबर्हणः॥ ३३तस्य विक्रमसंपन्नाः सत्त्ववन्तो महाबलाः।मनःसंकल्पसंपाता निदेशे हरयः स्थिताः॥ ३४येषां नोपरि नाधस्तान्न तिर्यक्सज्जते गतिः।न च कर्मसु सीदन्ति महत्स्वमिततेजसः॥ ३५असकृत्तैर्महोत्सहैः ससागरधराधरा।प्रदक्षिणीकृता भूमिर्वायुमार्गानुसारिभिः॥ ३६मद्विशिष्टाश्च तुल्याश्च सन्ति तत्र वनौकसः।मत्तः प्रत्यवरः कश्चिन्नास्ति सुग्रीवसंनिधौ॥ ३७अहं तावदिह प्राप्तः किं पुनस्ते महाबलाः।न हि प्रकृष्टाः प्रेष्यन्ते प्रेष्यन्ते हीतरे जनाः॥ ३८तदलं परितापेन देवि शोको व्यपैतु ते।एकोत्पातेन ते लङ्कामेष्यन्ति हरियूथपाः॥ ३९मम पृष्ठगतौ तौ च चन्द्रसूर्याविवोदितौ।त्वत्सकाशं महासत्त्वौ नृसिंहावागमिष्यतः॥ ४०तौ हि वीरौ नरवरौ सहितौ रामलक्ष्मणौ।आगम्य नगरीं लङ्कां सायकैर्विधमिष्यतः॥ ४१सगणं रावणं हत्वा राघवो रघुनन्दनः।त्वामादाय वरारोहे स्वपुरं प्रतियास्यति॥ ४२तदाश्वसिहि भद्रं ते भव त्वं कालकाङ्क्षिणी।नचिराद्द्रक्ष्यसे रामं प्रज्वजन्तमिवानिलम्॥ ४३निहते राक्षसेन्द्रे च सपुत्रामात्यबान्धवे।त्वं समेष्यसि रामेण शशाङ्केनेव रोहिणी॥ ४४क्षिप्रं त्वं देवि शोकस्य पारं यास्यसि मैथिलि।रावणं चैव रामेण निहतं द्रक्ष्यसेऽचिरात्॥ ४५एवमाश्वस्य वैदेहीं हनूमान्मारुतात्मजः।गमनाय मतिं कृत्वा वैदेहीं पुनरब्रवीत्॥ ४६तमरिघ्नं कृतात्मानं क्षिप्रं द्रक्ष्यसि राघवम्।लक्ष्मणं च धनुष्पाणिं लङ्काद्वारमुपस्थितम्॥ ४७नखदंष्ट्रायुधान्वीरान्सिंहशार्दूलविक्रमान्।वानरान्वारणेन्द्राभान्क्षिप्रं द्रक्ष्यसि संगतान्॥ ४८शैलाम्बुदनिकाशानां लङ्कामलयसानुषु।नर्दतां कपिमुख्यानामार्ये यूथान्यनेकशः॥ ४९स तु मर्मणि घोरेण ताडितो मन्मथेषुणा।न शर्म लभते रामः सिंहार्दित इव द्विपः॥ ५०मा रुदो देवि शोकेन मा भूत्ते मनसोऽप्रियम्।शचीव पथ्या शक्रेण भर्त्रा नाथवती ह्यसि॥ ५१रामाद्विशिष्टः कोऽन्योऽस्ति कश्चित्सौमित्रिणा समः।अग्निमारुतकल्पौ तौ भ्रातरौ तव संश्रयौ॥ ५२नास्मिंश्चिरं वत्स्यसि देवि देशेरक्षोगणैरध्युषितोऽतिरौद्रे।न ते चिरादागमनं प्रियस्यक्षमस्व मत्संगमकालमात्रम्॥ ५३इति श्रीरामायणे सुन्दरकाण्डे सप्तत्रिंशः सर्गः ॥ ३७
वाल्मीकिरामायणम् Baroda Critical EditionCC0. No rights reserved