४० सर्गः
ततः पक्षिनिनादेन वृक्षभङ्गस्वनेन च।बभूवुस्त्राससंभ्रान्ताः सर्वे लङ्कानिवासिनः॥ १विद्रुताश्च भयत्रस्ता विनेदुर्मृगपक्षुणः।रक्षसां च निमित्तानि क्रूराणि प्रतिपेदिरे॥ २ततो गतायां निद्रायां राक्षस्यो विकृताननाः।तद्वनं ददृशुर्भग्नं तं च वीरं महाकपिम्॥ ३स ता दृष्ट्व महाबाहुर्महासत्त्वो महाबलः।चकार सुमहद्रूपं राक्षसीनां भयावहम्॥ ४ततस्तं गिरिसंकाशमतिकायं महाबलम्।राक्षस्यो वानरं दृष्ट्वा पप्रच्छुर्जनकात्मजाम्॥ ५कोऽयं कस्य कुतो वायं किंनिमित्तमिहागतः।कथं त्वया सहानेन संवादः कृत इत्युत॥ ६आचक्ष्व नो विशालाक्षि मा भूत्ते सुभगे भयम्।संवादमसितापाङ्गे त्वया किं कृतवानयम्॥ ७अथाब्रवीत्तदा साध्वी सीता सर्वाङ्गशोभना।रक्षसां कामरूपाणां विज्ञाने मम का गतिः॥ ८यूयमेवास्य जानीत योऽयं यद्वा करिष्यति।अहिरेव अहेः पादान्विजानाति न संशयः॥ ९अहमप्यस्य भीतास्मि नैनं जानामि कोऽन्वयम्।वेद्मि राक्षसमेवैनं कामरूपिणमागतम्॥ १०वैदेह्या वचनं श्रुत्वा राक्षस्यो विद्रुता द्रुतम्।स्थिताः काश्चिद्गताः काश्चिद्रावणाय निवेदितुम्॥ ११रावणस्य समीपे तु राक्षस्यो विकृताननाः।विरूपं वानरं भीममाख्यातुमुपचक्रमुः॥ १२अशोकवनिका मध्ये राजन्भीमवपुः कपिः।सीतया कृतसंवादस्तिष्ठत्यमितविक्रमः॥ १३न च तं जानकी सीता हरिं हरिणलोचणा।अस्माभिर्बहुधा पृष्टा निवेदयितुमिच्छति॥ १४वासवस्य भवेद्दूतो दूतो वैश्रवणस्य वा।प्रेषितो वापि रामेण सीतान्वेषणकाङ्क्षया॥ १५तेन त्वद्भूतरूपेण यत्तत्तव मनोहरम्।नानामृगगणाकीर्णं प्रमृष्टं प्रमदावनम्॥ १६न तत्र कश्चिदुद्देशो यस्तेन न विनाशितः।यत्र सा जानकी सीता स तेन न विनाशितः॥ १७जानकीरक्षणार्थं वा श्रमाद्वा नोपलभ्यते।अथ वा कः श्रमस्तस्य सैव तेनाभिरक्षिता॥ १८चारुपल्लवपत्राढ्यं यं सीता स्वयमास्थिता।प्रवृद्धः शिंशपावृक्षः स च तेनाभिरक्षितः॥ १९तस्योग्ररूपस्योग्रं त्वं दण्डमाज्ञातुमर्हसि।सीता संभाषिता येन तद्वनं च विनाशितम्॥ २०मनःपरिगृहीतां तां तव रक्षोगणेश्वर।कः सीतामभिभाषेत यो न स्यात्त्यक्तजीवितः॥ २१राक्षसीनां वचः श्रुत्वा रावणो राक्षसेश्वरः।हुतागिरिव जज्वाल कोपसंवर्तितेक्षणः॥ २२आत्मनः सदृशाञ्शूरान्किंकरान्नाम राक्षसान्।व्यादिदेश महातेजा निग्रहार्थं हनूमतः॥ २३तेषामशीतिसाहस्रं किंकराणां तरस्विनाम्।निर्ययुर्भवनात्तस्मात्कूटमुद्गरपाणयः॥ २४महोदरा महादंष्ट्रा घोररूपा महाबलाः।युद्धाभिमनसः सर्वे हनूमद्ग्रहणोन्मुखाः॥ २५ते कपिं तं समासाद्य तोरणस्थमवस्थितम्।अभिपेतुर्महावेगाः पतङ्गा इव पावकम्॥ २६ते गदाभिर्विचित्राभिः परिघैः काञ्चनाङ्गदैः।आजघ्नुर्वानरश्रेष्ठं शरैरादित्यसंनिभैः॥ २७हनूमानपि तेजस्वी श्रीमान्पर्वतसंनिभः।क्षितावाविध्य लाङ्गूलं ननाद च महास्वनम्॥ २८तस्य संनादशब्देन तेऽभवन्भयशङ्किताः।ददृशुश्च हनूमन्तं संध्यामेघमिवोन्नतम्॥ २९स्वामिसंदेशनिःशङ्कास्ततस्ते राक्षसाः कपिम्।चित्रैः प्रहरणैर्भीमैरभिपेतुस्ततस्ततः॥ ३०स तैः परिवृतः शूरैः सर्वतः स महाबलः।आससादायसं भीमं परिघं तोरणाश्रितम्॥ ३१स तं परिघमादाय जघान रजनीचरान्॥ ३२स पन्नगमिवादाय स्फुरन्तं विनतासुतः।विचचाराम्बरे वीरः परिगृह्य च मारुतिः॥ ३३स हत्वा राक्षसान्वीरः किंकरान्मारुतात्मजः।युद्धाकाङ्क्षी पुनर्वीरस्तोरणं समुपस्थितः॥ ३४ततस्तस्माद्भयान्मुक्ताः कतिचित्तत्र राक्षसाः।निहतान्किंकरान्सर्वान्रावणाय न्यवेदयन्॥ ३५स राक्षसानां निहतं महाबलंनिशम्य राजा परिवृत्तलोचनः।समादिदेशाप्रतिमं पराक्रमेप्रहस्तपुत्रं समरे सुदुर्जयम्॥ ३६इति श्रीरामायणे सुन्दरकाण्डे चत्वारिंशः सर्गः ॥ ४०
वाल्मीकिरामायणम् Baroda Critical EditionCC0. No rights reserved