॥ ॐ श्री गणपतये नमः ॥

४१ सर्गः
ततः स किंकरान्हत्वा हनूमान्ध्यानमास्थितः।वनं भग्नं मया चैत्यप्रासादो न विनाशितः।तस्मात्प्रासादमप्येवमिमं विध्वंसयाम्यहम्॥ १इति संचिन्त्य हनुमान्मनसा दर्शयन्बलम्।चैत्यप्रासादमाप्लुत्य मेरुशृङ्गमिवोन्नतम्।आरुरोह हरिश्रेष्ठो हनूमान्मारुतात्मजः॥ २संप्रधृष्य च दुर्धर्षश्चैत्यप्रासादमुन्नतम्।हनूमान्प्रज्वलँल्लक्ष्म्या पारियात्रोपमोऽभवत्॥ ३स भूत्वा तु महाकायो हनूमान्मारुतात्मजः।धृष्टमास्फोटयामास लङ्कां शब्देन पूरयन्॥ ४तस्यास्फोटितशब्देन महता श्रोत्रघातिना।पेतुर्विहंगा गगनादुच्चैश्चेदमघोषयत्॥ ५जयत्यतिबलो रामो लक्ष्मणश्च महाबलः।राजा जयति सुग्रीवो राघवेणाभिपालितः॥ ६दासोऽहं कोसलेन्द्रस्य रामस्याक्लिष्टकर्मणः।हनुमाञ्शत्रुसैन्यानां निहन्ता मारुतात्मजः॥ ७न रावणसहस्रं मे युद्धे प्रतिबलं भवेत्।शिलाभिस्तु प्रहरतः पादपैश्च सहस्रशः॥ ८अर्दयित्वा पुरीं लङ्कामभिवाद्य च मैथिलीम्।समृद्धार्थो गमिष्यामि मिषतां सर्वरक्षसाम्॥ ९एवमुक्त्वा विमानस्थश्चैत्यस्थान्हरिपुंगवः।ननाद भीमनिर्ह्रादो रक्षसां जनयन्भयम्॥ १०तेन शब्देन महता चैत्यपालाः शतं ययुः।गृहीत्वा विविधानस्त्रान्प्रासान्खड्गान्परश्वधान्।विसृजन्तो महाक्षया मारुतिं पर्यवारयन्॥ ११आवर्त इव गङ्गायास्तोयस्य विपुलो महान्।परिक्षिप्य हरिश्रेष्ठं स बभौ रक्षसां गणः॥ १२ततो वातात्मजः क्रुद्धो भीमरूपं समास्थितः॥ १३प्रासादस्य महांस्तस्य स्तम्भं हेमपरिष्कृतम्।उत्पाटयित्वा वेगेन हनूमान्मारुतात्मजः।ततस्तं भ्रामयामास शतधारं महाबलः॥ १४स राक्षसशतं हत्वा वज्रेणेन्द्र इवासुरान्।अन्तरिक्षस्थितः श्रीमानिदं वचनमब्रवीत्॥ १५मादृशानां सहस्राणि विसृष्टानि महात्मनाम्।बलिनां वानरेन्द्राणां सुग्रीववशवर्तिनाम्॥ १६शतैः शतसहस्रैश्च कोटीभिरयुतैरपि।आगमिष्यति सुग्रीवः सर्वेषां वो निषूदनः॥ १७नेयमस्ति पुरी लङ्का न यूयं न च रावणः।यस्मादिक्ष्वाकुनाथेन बद्धं वैरं महात्मना॥ १८इति श्रीरामायणे सुन्दरकाण्डे एकचत्वारिंशः सर्गः ॥ ४१
वाल्मीकिरामायणम् Baroda Critical EditionCC0. No rights reserved