॥ ॐ श्री गणपतये नमः ॥

४२ सर्गः
संदिष्टो राक्षसेन्द्रेण प्रहस्तस्य सुतो बली।जम्बुमाली महादंष्ट्रो निर्जगाम धनुर्धरः॥ १रक्तमाल्याम्बरधरः स्रग्वी रुचिरकुण्डलः।महान्विवृत्तनयनश्चण्डः समरदुर्जयः॥ २धनुः शक्रधनुः प्रख्यं महद्रुचिरसायकम्।विस्फारयाणो वेगेन वज्राशनिसमस्वनम्॥ ३तस्य विस्फारघोषेण धनुषो महता दिशः।प्रदिशश्च नभश्चैव सहसा समपूर्यत॥ ४रथेन खरयुक्तेन तमागतमुदीक्ष्य सः।हनूमान्वेगसंपन्नो जहर्ष च ननाद च॥ ५तं तोरणविटङ्कस्थं हनूमन्तं महाकपिम्।जम्बुमाली महाबाहुर्विव्याध निशितैः शरैः॥ ६अर्धचन्द्रेण वदने शिरस्येकेन कर्णिना।बाह्वोर्विव्याध नाराचैर्दशभिस्तं कपीश्वरम्॥ ७तस्य तच्छुशुभे ताम्रं शरेणाभिहतं मुखम्।शरदीवाम्बुजं फुल्लं विद्धं भास्कररश्मिना॥ ८चुकोप बाणाभिहतो राक्षसस्य महाकपिः।ततः पार्श्वेऽतिविपुलां ददर्श महतीं शिलाम्॥ ९तरसा तां समुत्पाट्य चिक्षेप बलवद्बली।तां शरैर्दशभिः क्रुद्धस्ताडयामास राक्षसः॥ १०विपन्नं कर्म तद्दृष्ट्वा हनूमांश्चण्डविक्रमः।सालं विपुलमुत्पाट्य भ्रामयामास वीर्यवान्॥ ११भ्रामयन्तं कपिं दृष्ट्वा सालवृक्षं महाबलम्।चिक्षेप सुबहून्बाणाञ्जम्बुमाली महाबलः॥ १२सालं चतुर्भिर्चिच्छेद वानरं पञ्चभिर्भुजे।उरस्येकेन बाणेन दशभिस्तु स्तनान्तरे॥ १३स शरैः पूरिततनुः क्रोधेन महता वृतः।तमेव परिघं गृह्य भ्रामयामास वेगितः॥ १४अतिवेगोऽतिवेगेन भ्रामयित्वा बलोत्कटः।परिघं पातयामास जम्बुमालेर्महोरसि॥ १५तस्य चैव शिरो नास्ति न बाहू न च जानुनी।न धनुर्न रथो नाश्वास्तत्रादृश्यन्त नेषवः॥ १६स हतस्तरसा तेन जम्बुमाली महारथः।पपात निहतो भूमौ चूर्णिताङ्गविभूषणः॥ १७जम्बुमालिं च निहतं किंकरांश्च महाबलान्।चुक्रोध रावणः श्रुत्वा कोपसंरक्तलोचनः॥ १८स रोषसंवर्तितताम्रलोचनःप्रहस्तपुत्रे निहते महाबले।अमात्यपुत्रानतिवीर्यविक्रमान्समादिदेशाशु निशाचरेश्वरः॥ १९इति श्रीरामायणे सुन्दरकाण्डे द्विचत्वारिंशः सर्गः ॥ ४२
वाल्मीकिरामायणम् Baroda Critical EditionCC0. No rights reserved