४४ सर्गः
हतान्मन्त्रिसुतान्बुद्ध्वा वानरेण महात्मना।रावणः संवृताकारश्चकार मतिमुत्तमाम्॥ १स विरूपाक्षयूपाक्षौ दुर्धरं चैव राक्षसं।प्रघसं भासकर्णं च पञ्चसेनाग्रनायकान्॥ २संदिदेश दशग्रीवो वीरान्नयविशारदान्।हनूमद्ग्रहणे व्यग्रान्वायुवेगसमान्युधि॥ ३यात सेनाग्रगाः सर्वे महाबलपरिग्रहाः।सवाजिरथमातङ्गाः स कपिः शास्यतामिति॥ ४यत्तैश्च खलु भाव्यं स्यात्तमासाद्य वनालयम्।कर्म चापि समाधेयं देशकालविरोधितम्॥ ५न ह्यहं तं कपिं मन्ये कर्मणा प्रतितर्कयन्।सर्वथा तन्महद्भूतं महाबलपरिग्रहम्।भवेदिन्द्रेण वा सृष्टमस्मदर्थं तपोबलात्॥ ६सनागयक्षगन्धर्वा देवासुरमहर्षयः।युष्माभिः सहितैः सर्वैर्मया सह विनिर्जिताः॥ ७तैरवश्यं विधातव्यं व्यलीकं किंचिदेव नः।तदेव नात्र संदेहः प्रसह्य परिगृह्यताम्॥ ८नावमन्यो भवद्भिश्च हरिः क्रूरपराक्रमः।दृष्टा हि हरयः शीघ्रा मया विपुलविक्रमाः॥ ९वाली च सह सुग्रीवो जाम्बवांश्च महाबलः।नीलः सेनापतिश्चैव ये चान्ये द्विविदादयः॥ १०नैव तेषां गतिर्भीमा न तेजो न पराक्रमः।न मतिर्न बलोत्साहो न रूपपरिकल्पनम्॥ ११महत्सत्त्वमिदं ज्ञेयं कपिरूपं व्यवस्थितम्।प्रयत्नं महदास्थाय क्रियतामस्य निग्रहः॥ १२कामं लोकास्त्रयः सेन्द्राः ससुरासुरमानवाः।भवतामग्रतः स्थातुं न पर्याप्ता रणाजिरे॥ १३तथापि तु नयज्ञेन जयमाकाङ्क्षता रणे।आत्मा रक्ष्यः प्रयत्नेन युद्धसिद्धिर्हि चञ्चला॥ १४ते स्वामिवचनं सर्वे प्रतिगृह्य महौजसः।समुत्पेतुर्महावेगा हुताशसमतेजसः॥ १५रथैश्च मत्तैर्नागैश्च वाजिभिश्च महाजवैः।शस्त्रैश्च विविधैस्तीक्ष्णैः सर्वैश्चोपचिता बलैः॥ १६ततस्तं ददृशुर्वीरा दीप्यमानं महाकपिम्।रश्मिमन्तमिवोद्यन्तं स्वतेजोरश्मिमालिनम्॥ १७तोरणस्थं महावेगं महासत्त्वं महाबलम्।महामतिं महोत्साहं महाकायं महाबलम्॥ १८तं समीक्ष्यैव ते सर्वे दिक्षु सर्वास्ववस्थिताः।तैस्तैः प्रहरणैर्भीमैरभिपेतुस्ततस्ततः॥ १९तस्य पञ्चायसास्तीक्ष्णाः सिताः पीतमुखाः शराः।शिरस्त्युत्पलपत्राभा दुर्धरेण निपातिताः॥ २०स तैः पञ्चभिराविद्धः शरैः शिरसि वानरः।उत्पपात नदन्व्योम्नि दिशो दश विनादयन्॥ २१ततस्तु दुर्धरो वीरः सरथः सज्जकार्मुकः।किरञ्शरशतैर्नैकैरभिपेदे महाबलः॥ २२स कपिर्वारयामास तं व्योम्नि शरवर्षिणम्।वृष्टिमन्तं पयोदान्ते पयोदमिव मारुतः॥ २३अर्द्यमानस्ततस्तेन दुर्धरेणानिलात्मजः।चकार निनदं भूयो व्यवर्धत च वेगवान्॥ २४स दूरं सहसोत्पत्य दुर्धरस्य रथे हरिः।निपपात महावेगो विद्युद्राशिर्गिराविव॥ २५ततस्तं मथिताष्टाश्वं रथं भग्नाक्षकूवरम्।विहाय न्यपतद्भूमौ दुर्धरस्त्यक्तजीवितः॥ २६तं विरूपाक्षयूपाक्षौ दृष्ट्वा निपतितं भुवि।संजातरोषौ दुर्धर्षावुत्पेततुररिंदमौ॥ २७स ताभ्यां सहसोत्पत्य विष्ठितो विमलेऽम्बरे।मुद्गराभ्यां महाबाहुर्वक्षस्यभिहतः कपिः॥ २८तयोर्वेगवतोर्वेगं विनिहत्य महाबलः।निपपात पुनर्भूमौ सुपर्णसमविक्रमः॥ २९स सालवृक्षमासाद्य समुत्पाट्य च वानरः।तावुभौ राक्षसौ वीरौ जघान पवनात्मजः॥ ३०ततस्तांस्त्रीन्हताञ्ज्ञात्वा वानरेण तरस्विना।अभिपेदे महावेगः प्रसह्य प्रघसो हरिम्॥ ३१भासकर्णश्च संक्रुद्धः शूलमादाय वीर्यवान्।एकतः कपिशार्दूलं यशस्विनमवस्थितौ॥ ३२पट्टिशेन शिताग्रेण प्रघसः प्रत्यपोथयत्।भासकर्णश्च शूलेन राक्षसः कपिसत्तमम्॥ ३३स ताभ्यां विक्षतैर्गात्रैरसृग्दिग्धतनूरुहः।अभवद्वानरः क्रुद्धो बालसूर्यसमप्रभः॥ ३४समुत्पाट्य गिरेः शृङ्गं समृगव्यालपादपम्।जघान हनुमान्वीरो राक्षसौ कपिकुञ्जरः॥ ३५ततस्तेष्ववसन्नेषु सेनापतिषु पञ्चसु।बलं तदवशेषं तु नाशयामास वानरः॥ ३६अश्वैरश्वान्गजैर्नागान्योधैर्योधान्रथै रथान्।स कपिर्नाशयामास सहस्राक्ष इवासुरान्॥ ३७हतैर्नागैश्च तुरगैर्भग्नाक्षैश्च महारथैः।हतैश्च राक्षसैर्भूमी रुद्धमार्गा समन्ततः॥ ३८ततः कपिस्तान्ध्वजिनीपतीन्रणेनिहत्य वीरान्सबलान्सवाहनान्।तदेव वीरः परिगृह्य तोरणंकृतक्षणः काल इव प्रजाक्षये॥ ३९इति श्रीरामायणे सुन्दरकाण्डे चतुश्चत्वारिंशः सर्गः ॥ ४४
वाल्मीकिरामायणम् Baroda Critical EditionCC0. No rights reserved