४५ सर्गः
सेनापतीन्पञ्च स तु प्रमापितान्हनूमता सानुचरान्सवाहनान्।समीक्ष्य राजा समरोद्धतोन्मुखंकुमारमक्षं प्रसमैक्षताक्षतम्॥ १स तस्य दृष्ट्यर्पणसंप्रचोदितःप्रतापवान्काञ्चनचित्रकार्मुकः।समुत्पपाताथ सदस्युदीरितोद्विजातिमुख्यैर्हविषेव पावकः॥ २ततो महद्बालदिवाकरप्रभंप्रतप्तजाम्बूनदजालसंततम्।रथां समास्थाय ययौ स वीर्यवान्महाहरिं तं प्रति नैरृतर्षभः॥ ३ततस्तपःसंग्रहसंचयार्जितंप्रतप्तजाम्बूनदजालशोभितम्।पताकिनं रत्नविभूषितध्वजंमनोजवाष्टाश्ववरैः सुयोजितम्॥ ४सुरासुराधृष्यमसंगचारिणंरविप्रभं व्योमचरं समाहितम्।सतूणमष्टासिनिबद्धबन्धुरंयथाक्रमावेशितशक्तितोमरम्॥ ५विराजमानं प्रतिपूर्णवस्तुनासहेमदाम्ना शशिसूर्यवर्वसा।दिवाकराभं रथमास्थितस्ततःस निर्जगामामरतुल्यविक्रमः॥ ६स पूरयन्खं च महीं च साचलांतुरंगमतङ्गमहारथस्वनैः।बलैः समेतैः स हि तोरणस्थितंसमर्थमासीनमुपागमत्कपिम्॥ ७स तं समासाद्य हरिं हरीक्षणोयुगान्तकालाग्निमिव प्रजाक्षये।अवस्थितं विस्मितजातसंभ्रमःसमैक्षताक्षो बहुमानचक्षुषा॥ ८स तस्य वेगं च कपेर्महात्मनःपराक्रमं चारिषु पार्थिवात्मजः।विचारयन्खं च बलं महाबलोहिमक्षये सूर्य इवाभिवर्धते॥ ९स जातमन्युः प्रसमीक्ष्य विक्रमंस्थिरः स्थितः संयति दुर्निवारणम्।समाहितात्मा हनुमन्तमाहवेप्रचोदयामास शरैस्त्रिभिः शितैः॥ १०ततः कपिं तं प्रसमीक्ष्य गर्वितंजितश्रमं शत्रुपराजयोर्जितम्।अवैक्षताक्षः समुदीर्णमानसःसबाणपाणिः प्रगृहीतकार्मुकः॥ ११स हेमनिष्काङ्गदचारुकुण्डलःसमाससादाशु पराक्रमः कपिम्।तयोर्बभूवाप्रतिमः समागमःसुरासुराणामपि संभ्रमप्रदः॥ १२ररास भूमिर्न तताप भानुमान्ववौ न वायुः प्रचचाल चाचलः।कपेः कुमारस्य च वीक्ष्य संयुगंननाद च द्यौरुदधिश्च चुक्षुभे॥ १३ततः स वीरः सुमुखान्पतत्रिणःसुवर्णपुङ्खान्सविषानिवोरगान्।समाधिसंयोगविमोक्षतत्त्वविच्छरानथ त्रीन्कपिमूर्ध्न्यपातयत्॥ १४स तैः शरैर्मूर्ध्नि समं निपातितैःक्षरन्नसृग्दिग्धविवृत्तलोचनः।नवोदितादित्यनिभः शरांशुमान्व्यराजतादित्य इवांशुमालिकः॥ १५ततः स पिङ्गाधिपमन्त्रिसत्तमःसमीक्ष्य तं राजवरात्मजं रणे।उदग्रचित्रायुधचित्रकार्मुकंजहर्ष चापूर्यत चाहवोन्मुखः॥ १६स मन्दराग्रस्थ इवांशुमालीविवृद्धकोपो बलवीर्यसंयुतः।कुमारमक्षं सबलं सवाहनंददाह नेत्राग्निमरीचिभिस्तदा॥ १७ततः स बाणासनशक्रकार्मुकःशरप्रवर्षो युधि राक्षसाम्बुदः।शरान्मुमोचाशु हरीश्वराचलेबलाहको वृष्टिमिवाचलोत्तमे॥ १८ततः कपिस्तं रणचण्डविक्रमंविवृद्धतेजोबलवीर्यसायकम्।कुमारमक्षं प्रसमीक्ष्य संयुगेननाद हर्षाद्घनतुल्यविक्रमः॥ १९स बालभावाद्युधि वीर्यदर्पितःप्रवृद्धमन्युः क्षतजोपमेक्षणः।समाससादाप्रतिमं रणे कपिंगजो महाकूपमिवावृतं तृणैः॥ २०स तेन बाणैः प्रसभं निपातितैश्चकार नादं घननादनिःस्वनः।समुत्पपाताशु नभः स मारुतिर्भुजोरुविक्षेपण घोरदर्शनः॥ २१समुत्पतन्तं समभिद्रवद्बलीस राक्षसानां प्रवरः प्रतापवान्।रथी रथश्रेष्ठतमः किरञ्शरैःपयोधरः शैलमिवाश्मवृष्टिभिः॥ २२स ताञ्शरांस्तस्य विमोक्षयन्कपिश्चचार वीरः पथि वायुसेविते।शरान्तरे मारुतवद्विनिष्पतन्मनोजवः संयति चण्डविक्रमः॥ २३तमात्तबाणासनमाहवोन्मुखंखमास्तृणन्तं विविधैः शरोत्तमैः।अवैक्षताक्षं बहुमानचक्षुषाजगाम चिन्तां च स मारुतात्मजः॥ २४ततः शरैर्भिन्नभुजान्तरः कपिःकुमारवर्येण महात्मना नदन्।महाभुजः कर्मविशेषतत्त्वविद्विचिन्तयामास रणे पराक्रमम्॥ २५अबालवद्बालदिवाकरप्रभःकरोत्ययं कर्म महन्महाबलः।न चास्य सर्वाहवकर्मशोभिनःप्रमापणे मे मतिरत्र जायते॥ २६अयं महात्मा च महांश्च वीर्यतःसमाहितश्चातिसहश्च संयुगे।असंशयं कर्मगुणोदयादयंसनागयक्षैर्मुनिभिश्च पूजितः॥ २७पराक्रमोत्साहविवृद्धमानसःसमीक्षते मां प्रमुखागतः स्थितः।पराक्रमो ह्यस्य मनांसि कम्पयेत्सुरासुराणामपि शीघ्रकारिणः॥ २८न खल्वयं नाभिभवेदुपेक्षितःपराक्रमो ह्यस्य रणे विवर्धते।प्रमापणं त्वेव ममास्य रोचतेन वर्धमानोऽग्निरुपेक्षितुं क्षमः॥ २९इति प्रवेगं तु परस्य तर्कयन्स्वकर्मयोगं च विधाय वीर्यवान्।चकार वेगं तु महाबलस्तदामतिं च चक्रेऽस्य वधे महाकपिः॥ ३०स तस्य तानष्टहयान्महाजवान्समाहितान्भारसहान्विवर्तने।जघान वीरः पथि वायुसेवितेतलप्रहालैः पवनात्मजः कपिः॥ ३१ततस्तलेनाभिहतो महारथःस तस्य पिङ्गाधिपमन्त्रिनिर्जितः।स भग्ननीडः परिमुक्तकूबरःपपात भूमौ हतवाजिरम्बरात्॥ ३२स तं परित्यज्य महारथो रथंसकार्मुकः खड्गधरः खमुत्पतत्।तपोऽभियोगादृषिरुग्रवीर्यवान्विहाय देहं मरुतामिवालयम्॥ ३३ततः कपिस्तं विचरन्तमम्बरेपतत्रिराजानिलसिद्धसेविते।समेत्य तं मारुतवेगविक्रमःक्रमेण जग्राह च पादयोर्दृढम्॥ ३४स तं समाविध्य सहस्रशः कपिर्महोरगं गृह्य इवाण्डजेश्वरः।मुमोच वेगात्पितृतुल्यविक्रमोमहीतले संयति वानरोत्तमः॥ ३५स भग्नबाहूरुकटीशिरो धरःक्षरन्नसृन्निर्मथितास्थिलोचनः।स भिन्नसंधिः प्रविकीर्णबन्धनोहतः क्षितौ वायुसुतेन राक्षसः॥ ३६महाकपिर्भूमितले निपीड्य तं।चकार रक्षोऽधिपतेर्महद्भयम्॥ ३७महर्षिभिश्चक्रचरैर्महाव्रतैःसमेत्य भूतैश्च सयक्षपन्नगैः।सुरैश्च सेन्द्रैर्भृशजातविस्मयैर्हते कुमारे स कपिर्निरीक्षितः॥ ३८निहत्य तं वज्रसुतोपमप्रभंकुमारमक्षं क्षतजोपमेक्षणम्।तदेव वीरोऽभिजगाम तोरणंकृतक्षणः काल इव प्रजाक्षये॥ ३९इति श्रीरामायणे सुन्दरकाण्डे पञ्चचत्वारिंशः सर्गः ॥ ४५
वाल्मीकिरामायणम् Baroda Critical EditionCC0. No rights reserved