॥ ॐ श्री गणपतये नमः ॥

४८ सर्गः
तमुद्वीक्ष्य महाबाहुः पिङ्गाक्षं पुरतः स्थितम्।रोषेण महताविष्टो रावणो लोकरावणः॥ १स राजा रोषताम्राक्षः प्रहस्तं मन्त्रिसत्तमम्।कालयुक्तमुवाचेदं वचो विपुलमर्थवत्॥ २दुरात्मा पृच्छ्यतामेष कुतः किं वास्य कारणम्।वनभङ्गे च कोऽस्यार्थो राक्षसीनां च तर्जने॥ ३रावणस्य वचः श्रुत्वा प्रहस्तो वाक्यमब्रवीत्।समाश्वसिहि भद्रं ते न भीः कार्या त्वया कपे॥ ४यदि तावत्त्वमिन्द्रेण प्रेषितो रावणालयम्।तत्त्वमाख्याहि मा ते भूद्भयं वानर मोक्ष्यसे॥ ५यदि वैश्रवणस्य त्वं यमस्य वरुणस्य च।चारुरूपमिदं कृत्वा यमस्य वरुणस्य च॥ ६विष्णुना प्रेषितो वापि दूतो विजयकाङ्क्षिणा।न हि ते वानरं तेजो रूपमात्रं तु वानरम्॥ ७तत्त्वतः कथयस्वाद्य ततो वानर मोक्ष्यसे।अनृतं वदतश्चापि दुर्लभं तव जीवितम्॥ ८अथ वा यन्निमित्तस्ते प्रवेशो रावणालये॥ ९एवमुक्तो हरिवरस्तदा रक्षोगणेश्वरम्।अब्रवीन्नास्मि शक्रस्य यमस्य वरुणस्य वा॥ १०धनदेन न मे सख्यं विष्णुना नास्मि चोदितः।जातिरेव मम त्वेषा वानरोऽहमिहागतः॥ ११दर्शने राक्षसेन्द्रस्य दुर्लभे तदिदं मया।वनं राक्षसराजस्य दर्शनार्थे विनाशितम्॥ १२ततस्ते राक्षसाः प्राप्ता बलिनो युद्धकाङ्क्षिणः।रक्षणार्थं च देहस्य प्रतियुद्धा मया रणे॥ १३अस्त्रपाशैर्न शक्योऽहं बद्धुं देवासुरैरपि।पितामहादेव वरो ममाप्येषोऽभ्युपागतः॥ १४राजानं द्रष्टुकामेन मयास्त्रमनुवर्तितम्।विमुक्तो अहमस्त्रेण राक्षसैस्त्वतिपीडितः॥ १५दूतोऽहमिति विज्ञेयो राघवस्यामितौजसः।श्रूयतां चापि वचनं मम पथ्यमिदं प्रभो॥ १६इति श्रीरामायणे सुन्दरकाण्डे अष्टचत्वारिंशः सर्गः ॥ ४८
वाल्मीकिरामायणम् Baroda Critical EditionCC0. No rights reserved