॥ ॐ श्री गणपतये नमः ॥

४९ सर्गः
तं समीक्ष्य महासत्त्वं सत्त्ववान्हरिसत्तमः।वाक्यमर्थवदव्यग्रस्तमुवाच दशाननम्॥ १अहं सुग्रीवसंदेशादिह प्राप्तस्तवालयम्।राक्षसेन्द्र हरीशस्त्वां भ्राता कुशलमब्रवीत्॥ २भ्रातुः शृणु समादेशं सुग्रीवस्य महात्मनः।धर्मार्थोपहितं वाक्यमिह चामुत्र च क्षमम्॥ ३राजा दशरथो नाम रथकुञ्जरवाजिमान्।पितेव बन्धुर्लोकस्य सुरेश्वरसमद्युतिः॥ ४ज्येष्ठस्तस्य महाबाहुः पुत्रः प्रियकरः प्रभुः।पितुर्निदेशान्निष्क्रान्तः प्रविष्टो दण्डकावनम्॥ ५लक्ष्मणेन सह भ्रात्रा सीतया चापि भार्यया।रामो नाम महातेजा धर्म्यं पन्थानमाश्रितः॥ ६तस्य भार्या वने नष्टा सीता पतिमनुव्रता।वैदेहस्य सुता राज्ञो जनकस्य महात्मनः॥ ७स मार्गमाणस्तां देवीं राजपुत्रः सहानुजः।ऋश्यमूकमनुप्राप्तः सुग्रीवेण च संगतः॥ ८तस्य तेन प्रतिज्ञातं सीतायाः परिमार्गणम्।सुग्रीवस्यापि रामेण हरिराज्यं निवेदितम्॥ ९ततस्तेन मृधे हत्वा राजपुत्रेण वालिनम्।सुग्रीवः स्थापितो राज्ये हर्यृक्षाणां गणेश्वरः॥ १०स सीतामार्गणे व्यग्रः सुग्रीवः सत्यसंगरः।हरीन्संप्रेषयामास दिशः सर्वा हरीश्वरः॥ ११तां हरीणां सहस्राणि शतानि नियुतानि च।दिक्षु सर्वासु मार्गन्ते अधश्चोपरि चाम्बरे॥ १२वैनतेय समाः केचित्केचित्तत्रानिलोपमाः।असंगगतयः शीघ्रा हरिवीरा महाबलाः॥ १३अहं तु हनुमान्नाम मारुतस्यौरसः सुतः।सीतायास्तु कृते तूर्णं शतयोजनमायतम्।समुद्रं लङ्घयित्वैव तां दिदृक्षुरिहागतः॥ १४तद्भवान्दृष्टधर्मार्थस्तपः कृतपरिग्रहः।परदारान्महाप्राज्ञ नोपरोद्धुं त्वमर्हसि॥ १५न हि धर्मविरुद्धेषु बह्वपायेषु कर्मसु।मूलघातिषु सज्जन्ते बुद्धिमन्तो भवद्विधाः॥ १६कश्च लक्ष्मणमुक्तानां रामकोपानुवर्तिनाम्।शराणामग्रतः स्थातुं शक्तो देवासुरेष्वपि॥ १७न चापि त्रिषु लोकेषु राजन्विद्येत कश्चन।राघवस्य व्यलीकं यः कृत्वा सुखमवाप्नुयात्॥ १८तत्त्रिकालहितं वाक्यं धर्म्यमर्थानुबन्धि च।मन्यस्व नरदेवाय जानकी प्रतिदीयताम्॥ १९दृष्टा हीयं मया देवी लब्धं यदिह दुर्लभम्।उत्तरं कर्म यच्छेषं निमित्तं तत्र राघवः॥ २०लक्षितेयं मया सीता तथा शोकपरायणा।गृह्य यां नाभिजानासि पञ्चास्यामिव पन्नगीम्॥ २१नेयं जरयितुं शक्या सासुरैरमरैरपि।विषसंसृष्टमत्यर्थं भुक्तमन्नमिवौजसा॥ २२तपःसंतापलब्धस्ते योऽयं धर्मपरिग्रहः।न स नाशयितुं न्याय्य आत्मप्राणपरिग्रहः॥ २३अवध्यतां तपोभिर्यां भवान्समनुपश्यति।आत्मनः सासुरैर्देवैर्हेतुस्तत्राप्ययं महान्॥ २४सुग्रीवो न हि देवोऽयं नासुरो न च मानुषः।न राक्षसो न गन्धर्वो न यक्षो न च पन्नगः॥ २५मानुषो राघवो राजन्सुग्रीवश्च हरीश्वरः।तस्मात्प्राणपरित्राणं कथं राजन्करिष्यसि॥ २६न तु धर्मोपसंहारमधर्मफलसंहितम्।तदेव फलमन्वेति धर्मश्चाधर्मनाशनः॥ २७प्राप्तं धर्मफलं तावद्भवता नात्र संशयः।फलमस्याप्यधर्मस्य क्षिप्रमेव प्रपत्स्यसे॥ २८जनस्थानवधं बुद्ध्वा बुद्ध्वा वालिवधं तथा।रामसुग्रीवसख्यं च बुध्यस्व हितमात्मनः॥ २९कामं खल्वहमप्येकः सवाजिरथकुञ्जराम्।लङ्कां नाशयितुं शक्तस्तस्यैष तु विनिश्चयः॥ ३०रामेण हि प्रतिज्ञातं हर्यृक्षगणसंनिधौ।उत्सादनममित्राणां सीता यैस्तु प्रधर्षिता॥ ३१अपकुर्वन्हि रामस्य साक्षादपि पुरंदरः।न सुखं प्राप्नुयादन्यः किं पुनस्त्वद्विधो जनः॥ ३२यां सीतेत्यभिजानासि येयं तिष्ठति ते वशे।कालरात्रीति तां विद्धि सर्वलङ्काविनाशिनीम्॥ ३३तदलं कालपाशेन सीता विग्रहरूपिणा।स्वयं स्कन्धावसक्तेन क्षममात्मनि चिन्त्यताम्॥ ३४सीतायास्तेजसा दग्धां रामकोपप्रपीडिताम्।दह्यमनामिमां पश्य पुरीं साट्टप्रतोलिकाम्॥ ३५स सौष्ठवोपेतमदीनवादिनःकपेर्निशम्याप्रतिमोऽप्रियं वचः।दशाननः कोपविवृत्तलोचनःसमादिशत्तस्य वधं महाकपेः॥ ३६इति श्रीरामायणे सुन्दरकाण्डे एकोनपञ्चाशः सर्गः ॥ ४९
वाल्मीकिरामायणम् Baroda Critical EditionCC0. No rights reserved