५० सर्गः
तस्य तद्वचनं श्रुत्वा वानरस्य महात्मनः।आज्ञापयद्वधं तस्य रावणः क्रोधमूर्छितः॥ १वधे तस्य समाज्ञप्ते रावणेन दुरात्मना।निवेदितवतो दौत्यं नानुमेने विभीषणः॥ २तं रक्षोऽधिपतिं क्रुद्धं तच्च कार्यमुपस्थितम्।विदित्वा चिन्तयामास कार्यं कार्यविधौ स्थितः॥ ३निश्चितार्थस्ततः साम्नापूज्य शत्रुजिदग्रजम्।उवाच हितमत्यर्थं वाक्यं वाक्यविशारदः॥ ४राजन्धर्मविरुद्धं च लोकवृत्तेश्च गर्हितम्।तव चासदृशं वीर कपेरस्य प्रमापणम्॥ ५असंशयं शत्रुरयं प्रवृद्धःकृतं ह्यनेनाप्रियमप्रमेयम्।न दूतवध्यां प्रवदन्ति सन्तोदूतस्य दृष्टा बहवो हि दण्डाः॥ ६वैरूप्यामङ्गेषु कशाभिघातोमौण्ड्यं तथा लक्ष्मणसंनिपातः।एतान्हि दूते प्रवदन्ति दण्डान्वधस्तु दूतस्य न नः श्रुतोऽपि॥ ७कथं च धर्मार्थविनीतबुद्धिःपरावरप्रत्ययनिश्चितार्थः।भवद्विधः कोपवशे हि तिष्ठेत्कोपं नियच्छन्ति हि सत्त्ववन्तः॥ ८न धर्मवादे न च लोकवृत्तेन शास्त्रबुद्धिग्रहणेषु वापि।विद्येत कश्चित्तव वीरतुल्यस्त्वं ह्युत्तमः सर्वसुरासुराणाम्॥ ९न चाप्यस्य कपेर्घाते कंचित्पश्याम्यहं गुणम्।तेष्वयं पात्यतां दण्डो यैरयं प्रेषितः कपिः॥ १०साधुर्वा यदि वासाधुर्परैरेष समर्पितः।ब्रुवन्परार्थं परवान्न दूतो वधमर्हति॥ ११अपि चास्मिन्हते राजन्नान्यं पश्यामि खेचरम्।इह यः पुनरागच्छेत्परं पारं महोदधिः॥ १२तस्मान्नास्य वधे यत्नः कार्यः परपुरंजय।भवान्सेन्द्रेषु देवेषु यत्नमास्थातुमर्हति॥ १३अस्मिन्विनष्टे न हि दूतमन्यंपश्यामि यस्तौ नरराजपुत्रौ।युद्धाय युद्धप्रियदुर्विनीतावुद्योजयेद्दीर्घपथावरुद्धौ॥ १४पराक्रमोत्साहमनस्विनां चसुरासुराणामपि दुर्जयेन।त्वया मनोनन्दन नैरृतानांयुद्धायतिर्नाशयितुं न युक्ता॥ १५हिताश्च शूराश्च समाहिताश्चकुलेषु जाताश्च महागुणेषु।मनस्विनः शस्त्रभृतां वरिष्ठाःकोट्यग्रशस्ते सुभृताश्च योधाः॥ १६तदेकदेशेन बलस्य तावत्केचित्तवादेशकृतोऽपयान्तु।तौ राजपुत्रौ विनिगृह्य मूढौपरेषु ते भावयितुं प्रभावम्॥ १७इति श्रीरामायणे सुन्दरकाण्डे पञ्चाशः सर्गः ॥ ५०
वाल्मीकिरामायणम् Baroda Critical EditionCC0. No rights reserved