५२ सर्गः
वीक्षमाणस्ततो लङ्कां कपिः कृतमनोरथः।वर्धमानसमुत्साहः कार्यशेषमचिन्तयत्॥ १किं नु खल्वविशिष्टं मे कर्तव्यमिह साम्प्रतम्।यदेषां रक्षसां भूयः संतापजननं भवेत्॥ २वनं तावत्प्रमथितं प्रकृष्टा राक्षसा हताः।बलैकदेशः क्षपितः शेषं दुर्गविनाशनम्॥ ३दुर्गे विनाशिते कर्म भवेत्सुखपरिश्रमम्।अल्पयत्नेन कार्येऽस्मिन्मम स्यात्सफलः श्रमः॥ ४यो ह्ययं मम लाङ्गूले दीप्यते हव्यवाहनः।अस्य संतर्पणं न्याय्यं कर्तुमेभिर्गृहोत्तमैः॥ ५ततः प्रदीप्तलाङ्गूलः सविद्युदिव तोयदः।भवनाग्रेषु लङ्काया विचचार महाकपिः॥ ६मुमोच हनुमानग्निं कालानलशिखोपमम्॥ ७श्वसनेन च संयोगादतिवेगो महाबलः।कालाग्निरिव जज्वाल प्रावर्धत हुताशनः॥ ८प्रदीप्तमग्निं पवनस्तेषु वेश्मसु चारयत्॥ ९तानि काञ्चनजालानि मुक्तामणिमयानि च।भवनान्यवशीर्यन्त रत्नवन्ति महान्ति च॥ १०तानि भग्नविमानानि निपेतुर्वसुधातले।भवनानीव सिद्धानामम्बरात्पुण्यसंक्षये॥ ११वज्रविद्रुमवैदूर्यमुक्तारजतसंहितान्।विचित्रान्भवनाद्धातून्स्यन्दमानान्ददर्श सः॥ १२नाग्निस्तृप्यति काष्ठानां तृणानां च यथा तथा।हनूमान्राक्षसेन्द्राणां वधे किंचिन्न तृप्यति॥ १३हुताशनज्वालसमावृता साहतप्रवीरा परिवृत्तयोधा।हनूमातः क्रोधबलाभिभूताबभूव शापोपहतेव लङ्का॥ १४ससंभ्रमं त्रस्तविषण्णराक्षसांसमुज्ज्वलज्ज्वालहुताशनाङ्किताम्।ददर्श लङ्कां हनुमान्महामनाःस्वयम्भुकोपोपहतामिवावनिम्॥ १५स राक्षसांस्तान्सुबहूंश्च हत्वावनं च भङ्क्त्वा बहुपादपं तत्।विसृज्य रक्षो भवनेषु चाग्निंजगाम रामं मनसा महात्मा॥ १६लङ्कां समस्तां संदीप्य लाङ्गूलाग्निं महाकपिः।निर्वापयामास तदा समुद्रे हरिसत्तमः॥ १७इति श्रीरामायणे सुन्दरकाण्डे द्विपञ्चाशः सर्गः ॥ ५२
वाल्मीकिरामायणम् Baroda Critical EditionCC0. No rights reserved