॥ ॐ श्री गणपतये नमः ॥

५३ सर्गः
संदीप्यमानां विध्वस्तां त्रस्तरक्षो गणां पुरीम्।अवेक्ष्य हानुमाँल्लङ्कां चिन्तयामास वानरः॥ १तस्याभूत्सुमहांस्त्रासः कुत्सा चात्मन्यजायत।लङ्कां प्रदहता कर्म किंस्वित्कृतमिदं मया॥ २धन्यास्ते पुरुषश्रेष्ठ ये बुद्ध्या कोपमुत्थितम्।निरुन्धन्ति महात्मानो दीप्तमग्निमिवाम्भसा॥ ३यदि दग्धा त्वियं लङ्का नूनमार्यापि जानकी।दग्धा तेन मया भर्तुर्हतं कार्यमजानता॥ ४यदर्थमयमारम्भस्तत्कार्यमवसादितम्।मया हि दहता लङ्कां न सीता परिरक्षिता॥ ५ईषत्कार्यमिदं कार्यं कृतमासीन्न संशयः।तस्य क्रोधाभिभूतेन मया मूलक्षयः कृतः॥ ६विनष्टा जानकी व्यक्तं न ह्यदग्धः प्रदृश्यते।लङ्कायाः कश्चिदुद्देशः सर्वा भस्मीकृता पुरी॥ ७यदि तद्विहतं कार्यं मया प्रज्ञाविपर्ययात्।इहैव प्राणसंन्यासो ममापि ह्यतिरोचते॥ ८किमग्नौ निपताम्यद्य आहोस्विद्वडवामुखे।शरीरमाहो सत्त्वानां दद्मि सागरवासिनाम्॥ ९कथं हि जीवता शक्यो मया द्रष्टुं हरीश्वरः।तौ वा पुरुषशार्दूलौ कार्यसर्वस्वघातिना॥ १०मया खलु तदेवेदं रोषदोषात्प्रदर्शितम्।प्रथितं त्रिषु लोकेषु कपितमनवस्थितम्॥ ११धिगस्तु राजसं भावमनीशमनवस्थितम्।ईश्वरेणापि यद्रागान्मया सीता न रक्षिता॥ १२विनष्टायां तु सीतायां तावुभौ विनशिष्यतः।तयोर्विनाशे सुग्रीवः सबन्धुर्विनशिष्यति॥ १३एतदेव वचः श्रुत्वा भरतो भ्रातृवत्सलः।धर्मात्मा सहशत्रुघ्नः कथं शक्ष्यति जीवितुम्॥ १४इक्ष्वाकुवंशे धर्मिष्ठे गते नाशमसंशयम्।भविष्यन्ति प्रजाः सर्वाः शोकसंतापपीडिताः॥ १५तदहं भाग्यरहितो लुप्तधर्मार्थसंग्रहः।रोषदोषपरीतात्मा व्यक्तं लोकविनाशनः॥ १६इति चिन्तयतस्तस्य निमित्तान्युपपेदिरे।पूरमप्युपलब्धानि साक्षात्पुनरचिन्तयत्॥ १७अथ वा चारुसर्वाङ्गी रक्षिता स्वेन तेजसा।न नशिष्यति कल्याणी नाग्निरग्नौ प्रवर्तते॥ १८न हि धर्मान्मनस्तस्य भार्याममिततेजसः।स्वचारित्राभिगुप्तां तां स्प्रष्टुमर्हति पावकः॥ १९नूनं रामप्रभावेन वैदेह्याः सुकृतेन च।यन्मां दहनकर्मायं नादहद्धव्यवाहनः॥ २०त्रयाणां भरतादीनां भ्रातॄणां देवता च या।रामस्य च मनःकान्ता सा कथं विनशिष्यति॥ २१यद्वा दहनकर्मायं सर्वत्र प्रभुरव्ययः।न मे दहति लाङ्गूलं कथमार्यां प्रधक्ष्यति॥ २२तपसा सत्यवाक्येन अनन्यत्वाच्च भर्तरि।अपि सा निर्दहेदग्निं न तामग्निः प्रधक्ष्यति॥ २३स तथा चिन्तयंस्तत्र देव्या धर्मपरिग्रहम्।शुश्राव हनुमान्वाक्यं चारणानां महात्मनाम्॥ २४अहो खलु कृतं कर्म दुर्विषह्यं हनूमता।अग्निं विसृजताभीक्ष्णं भीमं राक्षससद्मनि॥ २५दग्धेयं नगरी लङ्का साट्टप्राकारतोरणा।जानकी न च दग्धेति विस्मयोऽद्भुत एव नः॥ २६स निमित्तैश्च दृष्टार्थैः कारणैश्च महागुणैः।ऋषिवाक्यैश्च हनुमानभवत्प्रीतमानसः॥ २७ततः कपिः प्राप्तमनोरथार्थस्तामक्षतां राजसुतां विदित्वा।प्रत्यक्षतस्तां पुनरेव दृष्ट्वाप्रतिप्रयाणाय मतिं चकार॥ २८इति श्रीरामायणे सुन्दरकाण्डे त्रिपञ्चाशः सर्गः ॥ ५३
वाल्मीकिरामायणम् Baroda Critical EditionCC0. No rights reserved