५५ सर्गः
सचन्द्रकुमुदं रम्यं सार्ककारण्डवं शुभम्।तिष्यश्रवणकदम्बमभ्रशैवलशाद्वलम्॥ १पुनर्वसु महामीनं लोहिताङ्गमहाग्रहम्।ऐरावतमहाद्वीपं स्वातीहंसविलोडितम्॥ २वातसंघातजातोर्मिं चन्द्रांशुशिशिराम्बुमत्।भुजंगयक्षगन्धर्वप्रबुद्धकमलोत्पलम्॥ ३ग्रसमान इवाकाशं ताराधिपमिवालिखन्।हरन्निव सनक्षत्रं गगनं सार्कमण्डलम्॥ ४मारुतस्यालयं श्रीमान्कपिर्व्योमचरो महान्।हनूमान्मेघजालानि विकर्षन्निव गच्छति॥ ५पाण्डुरारुणवर्णानि नीलमाञ्जिष्ठकानि च।हरितारुणवर्णानि महाभ्राणि चकाशिरे॥ ६प्रविशन्नभ्रजालानि निष्क्रमंश्च पुनः पुनः।प्रच्छन्नश्च प्रकाशश्च चन्द्रमा इव लक्ष्यते॥ ७नदन्नादेन महता मेघस्वनमहास्वनः।आजगाम महातेजाः पुनर्मध्येन सागरम्॥ ८पर्वतेन्द्रं सुनाभं च समुपस्पृश्य वीर्यवान्।ज्यामुक्त इव नाराचो महावेगोऽभ्युपागतः॥ ९स किंचिदनुसंप्राप्तः समालोक्य महागिरिम्।महेन्द्रमेघसंकाशं ननाद हरिपुंगवः॥ १०निशम्य नदतो नादं वानरास्ते समन्ततः।बभूवुरुत्सुकाः सर्वे सुहृद्दर्शनकाङ्क्षिणः॥ ११जाम्बवान्स हरिश्रेष्ठः प्रीतिसंहृष्टमानसः।उपामन्त्र्य हरीन्सर्वानिदं वचनमब्रवीत्॥ १२सर्वथा कृतकार्योऽसौ हनूमान्नात्र संशयः।न ह्यस्याकृतकार्यस्य नाद एवंविधो भवेत्॥ १३तस्या बाहूरुवेगं च निनादं च महात्मनः।निशम्य हरयो हृष्टाः समुत्पेतुस्ततस्ततः॥ १४ते नगाग्रान्नगाग्राणि शिखराच्छिखराणि च।प्रहृष्टाः समपद्यन्त हनूमन्तं दिदृक्षवः॥ १५ते प्रीताः पादपाग्रेषु गृह्य शाखाः सुपुष्पिताः।वासांसीव प्रकाशानि समाविध्यन्त वानराः॥ १६तमभ्रघनसंकाशमापतन्तं महाकपिम्।दृष्ट्वा ते वानराः सर्वे तस्थुः प्राञ्जलयस्तदा॥ १७ततस्तु वेगवांस्तस्य गिरेर्गिरिनिभः कपिः।निपपात महेन्द्रस्य शिखरे पादपाकुले॥ १८ततस्ते प्रीतमनसः सर्वे वानरपुंगवाः।हनूमन्तं महात्मानं परिवार्योपतस्थिरे॥ १९परिवार्य च ते सर्वे परां प्रीतिमुपागताः।प्रहृष्टवदनाः सर्वे तमरोगमुपागतम्॥ २०उपायनानि चादाय मूलानि च फलानि च।प्रत्यर्चयन्हरिश्रेष्ठं हरयो मारुतात्मजम्॥ २१विनेदुर्मुदिताः केचिच्चक्रुः किल किलां तथा।हृष्टाः पादपशाखाश्च आनिन्युर्वानरर्षभाः॥ २२हनूमांस्तु गुरून्वृद्धाञ्जाम्बवत्प्रमुखांस्तदा।कुमारमङ्गदं चैव सोऽवन्दत महाकपिः॥ २३स ताभ्यां पूजितः पूज्यः कपिभिश्च प्रसादितः।दृष्टा देवीति विक्रान्तः संक्षेपेण न्यवेदयत्॥ २४निषसाद च हस्तेन गृहीत्वा वालिनः सुतम्।रमणीये वनोद्देशे महेन्द्रस्य गिरेस्तदा॥ २५हनूमानब्रवीद्धृष्टस्तदा तान्वानरर्षभान्।अशोकवनिकासंस्था दृष्टा सा जनकात्मजा॥ २६रक्ष्यमाणा सुघोराभी राक्षसीभिरनिन्दिता।एकवेणीधरा बाला रामदर्शनलालसा।उपवासपरिश्रान्ता मलिना जटिला कृशा॥ २७ततो दृष्टेति वचनं महार्थममृतोपमम्।निशम्य मारुतेः सर्वे मुदिता वानरा भवन्॥ २८क्ष्वेडन्त्यन्ये नदन्त्यन्ये गर्जन्त्यन्ये महाबलाः।चक्रुः किल किलामन्ये प्रतिगर्जन्ति चापरे॥ २९केचिदुच्छ्रितलाङ्गूलाः प्रहृष्टाः कपिकुञ्जराः।अञ्चितायतदीर्घाणि लाङ्गूलानि प्रविव्यधुः॥ ३०अपरे तु हनूमन्तं वानरा वारणोपमम्।आप्लुत्य गिरिशृङ्गेभ्यः संस्पृशन्ति स्म हर्षिताः॥ ३१उक्तवाक्यं हनूमन्तमङ्गदस्तु तदाब्रवीत्।सर्वेषां हरिवीराणां मध्ये वाचमनुत्तमाम्॥ ३२सत्त्वे वीर्ये न ते कश्चित्समो वानरविद्यते।यदवप्लुत्य विस्तीर्णं सागरं पुनरागतः॥ ३३दिष्ट्या दृष्टा त्वया देवी रामपत्नी यशस्विनी।दिष्ट्या त्यक्ष्यति काकुत्स्थः शोकं सीता वियोगजम्॥ ३४ततोऽङ्गदं हनूमन्तं जाम्बवन्तं च वानराः।परिवार्य प्रमुदिता भेजिरे विपुलाः शिलाः॥ ३५श्रोतुकामाः समुद्रस्य लङ्घनं वानरोत्तमाः।दर्शनं चापि लङ्कायाः सीताया रावणस्य च।तस्थुः प्राञ्जलयः सर्वे हनूमद्वदनोन्मुखाः॥ ३६तस्थौ तत्राङ्गदः श्रीमान्वानरैर्बहुभिर्वृतः।उपास्यमानो विबुधैर्दिवि देवपतिर्यथा॥ ३७हनूमता कीर्तिमता यशस्विनातथाङ्गदेनाङ्गदबद्धबाहुना।मुदा तदाध्यासितमुन्नतं महन्महीधराग्रं ज्वलितं श्रियाभवत्॥ ३८इति श्रीरामायणे सुन्दरकाण्डे पञ्चपञ्चाशः सर्गः ॥ ५५
वाल्मीकिरामायणम् Baroda Critical EditionCC0. No rights reserved