५६ सर्गः
ततस्तस्य गिरेः शृङ्गे महेन्द्रस्य महाबलाः।हनुमत्प्रमुखाः प्रीतिं हरयो जग्मुरुत्तमाम्।ततः प्रहस्तस्य सुतं जम्बुमालिनमादिशत्॥ १तं ततः प्रतिसंहृष्टः प्रीतिमन्तं महाकपिम्।जाम्बवान्कार्यवृत्तान्तमपृच्छदनिलात्मजम्।तमहं बलसंपन्नं राक्षसं रणकोविदम्।परिघेणातिघोरेण सूदयामि सहानुगम्॥ २कथं दृष्टा त्वया देवी कथं वा तत्र वर्तते।तस्यां वा स कथं वृत्तः क्रूरकर्मा दशाननः।तच्छ्रुत्वा राक्षसेन्द्रस्तु मन्त्रिपुत्रान्महाबलान्।पदातिबलसंपन्नान्प्रेषयामास रावणः।परिघेणैव तान्सर्वान्नयामि यमसादनम्॥ ३तत्त्वतः सर्वमेतन्नः प्रब्रूहि त्वं महाकपे।श्रुतार्थाश्चिन्तयिष्यामो भूयः कार्यविनिश्चयम्।मन्त्रिपुत्रान्हताञ्श्रुत्वा समरे लघुविक्रमान्।पञ्चसेनाग्रगाञ्शूरान्प्रेषयामास रावणः।तानहं सह सैन्यान्वै सर्वानेवाभ्यसूदयम्॥ ४यश्चार्थस्तत्र वक्तव्यो गतैरस्माभिरात्मवान्।रक्षितव्यं च यत्तत्र तद्भवान्व्याकरोतु नः।ततः पुनर्दशग्रीवः पुत्रमक्षं महाबलम्।बहुभी राकसैः सार्धं प्रेषयामास संयुगे॥ ५स नियुक्तस्ततस्तेन संप्रहृष्टतनूरुहः।नमस्यञ्शिरसा देव्यै सीतायै प्रत्यभाषत।तं तु मन्दोदरी पुत्रं कुमारं रणपण्डितम्।सहसा खं समुत्क्रान्तं पादयोश्च गृहीतवान्।चर्मासिनं शतगुणं भ्रामयित्वा व्यपेषयम्॥ ६प्रत्यक्षमेव भवतां महेन्द्राग्रात्खमाप्लुतः।उदधेर्दक्षिणं पारं काङ्क्षमाणः समाहितः।तमक्षमागतं भग्नं निशम्य स दशाननः।तत इन्द्रजितं नाम द्वितीयं रावणः सुतम्।व्यादिदेश सुसंक्रुद्धो बलिनं युद्धदुर्मदम्॥ ७गच्छतश्च हि मे घोरं विघ्नरूपमिवाभवत्।काञ्चनं शिखरं दिव्यं पश्यामि सुमनोहरम्।तस्याप्यहं बलं सर्वं तं च राक्षसपुंगवम्।नष्टौजसं रणे कृत्वा परं हर्षमुपागमम्॥ ८स्थितं पन्थानमावृत्य मेने विघ्नं च तं नगम्।महता हि महाबाहुः प्रत्ययेन महाबलः।प्रेषितो रावणेनैष सह वीरैर्मदोत्कटैः॥ ९उपसंगम्य तं दिव्यं काञ्चनं नगसत्तमम्।कृता मे मनसा बुद्धिर्भेत्तव्योऽयं मयेति च।ब्राह्मेणास्त्रेण स तु मां प्रबध्नाच्चातिवेगतः।रज्जूभिरभिबध्नन्ति ततो मां तत्र राक्षसाः॥ १०प्रहतं च मया तस्य लाङ्गूलेन महागिरेः।शिखरं सूर्यसंकाशं व्यशीर्यत सहस्रधा।रावणस्य समीपं च गृहीत्वा मामुपानयन्।दृष्ट्वा संभाषितश्चाहं रावणेन दुरात्मना॥ ११व्यवसायं च मे बुद्ध्वा स होवाच महागिरिः।पुत्रेति मधुरां बाणीं मनःप्रह्लादयन्निव।पृष्टश्च लङ्कागमनं राक्षसानां च तद्वधम्।तत्सर्वं च मया तत्र सीतार्थमिति जल्पितम्॥ १२पितृव्यं चापि मां विद्धि सखायं मातरिश्वनः।मैनाकमिति विख्यातं निवसन्तं महोदधौ।अस्याहं दर्शनाकाङ्क्षी प्राप्तस्त्वद्भवनं विभो।मारुतस्यौरसः पुत्रो वानरो हनुमानहम्॥ १३पक्ष्ववन्तः पुरा पुत्र बभूवुः पर्वतोत्तमाः।छन्दतः पृथिवीं चेरुर्बाधमानाः समन्ततः।रामदूतं च मां विद्धि सुग्रीवसचिवं कपिम्।सोऽहं दौत्येन रामस्य त्वत्समीपमिहागतः॥ १४श्रुत्वा नगानां चरितं महेन्द्रः पाकशासनः।चिच्छेद भगवान्पक्षान्वज्रेणैषां सहस्रशः।शृणु चापि समादेशं यदहं प्रब्रवीमि ते।राक्षसेश हरीशस्त्वां वाक्यमाह समाहितम्।धर्मार्थकामसहितं हितं पथ्यमिवाशनम्॥ १५अहं तु मोक्षितस्तस्मात्तव पित्रा महात्मना।मारुतेन तदा वत्स प्रक्षिप्तोऽस्मि महार्णवे।वसतो ऋष्यमूके मे पर्वते विपुलद्रुमे।राघवो रणविक्रान्तो मित्रत्वं समुपागतः॥ १६रामस्य च मया साह्ये वर्तितव्यमरिंदम।रामो धर्मभृतां श्रेष्ठो महेन्द्रसमविक्रमः।तेन मे कथितं राजन्भार्या मे रक्षसा हृता।तत्र साहाय्यहेतोर्मे समयं कर्तुमर्हसि॥ १७एतच्छ्रुत्वा मया तस्य मैनाकस्य महात्मनः।कार्यमावेद्य तु गिरेरुद्धतं च मनो मम।वालिना हृतराज्येन सुग्रीवेण सह प्रभुः।चक्रेऽग्निसाक्षिकं सक्यं राघवः सहलक्ष्मणः॥ १८तेन चाहमनुज्ञातो मैनाकेन महात्मना।उत्तमं जवमास्थाय शेषमध्वानमास्थितः।तेन वालिनमुत्साद्य शरेणैकेन संयुगे।वानराणां महाराजः कृतः संप्लवतां प्रभुः॥ १९ततोऽहं सुचिरं कालं वेगेनाभ्यगमं पथि।ततः पश्याम्यहं देवीं सुरसां नागमातरम्।तस्य साहाय्यमस्माभिः कार्यं सर्वात्मना त्विह।तेन प्रस्थापितस्तुभ्यं समीपमिह धर्मतः॥ २०समुद्रमध्ये सा देवी वचनं मामभाषत।मम भक्ष्यः प्रदिष्टस्त्वममारैर्हरिसत्तमम्।ततस्त्वां भक्षयिष्यामि विहितस्त्वं चिरस्य मे।क्षिप्रमानीयतां सीता दीयतां राघवस्य च।यावन्न हरयो वीरा विधमन्ति बलं तव॥ २१एवमुक्तः सुरसया प्राञ्जलिः प्रणतः स्थितः।विवर्णवदनो भूत्वा वाक्यं चेदमुदीरयम्।वानराणां प्रभवो हि न केन विदितः पुरा।देवतानां सकाशं च ये गच्छन्ति निमन्त्रिताः॥ २२रामो दाशरथिः श्रीमान्प्रविष्टो दण्डकावनम्।लक्ष्मणेन सह भ्रात्रा सीतया च परंतपः।इति वानरराजस्त्वामाहेत्यभिहितो मया।मामैक्षत ततो रुष्टश्चक्षुषा प्रदहन्निव॥ २३तस्य सीता हृता भार्या रावणेन दुरात्मना।तस्याः सकाशं दूतोऽहं गमिष्ये रामशासनात्।तेन वध्योऽहमाज्ञप्तो रक्षसा रौद्रकर्मणा॥ २४कर्तुमर्हसि रामस्य साह्यं विषयवासिनि।ततो विभीषणो नाम तस्य भ्राता महामतिः।तेन राक्षसराजोऽसौ याचितो मम कारणात्॥ २५अथ वा मैथिलीं दृष्ट्वा रामं चाक्लिष्टकारिणम्।आगमिष्यामि ते वक्त्रं सत्यं प्रतिशृणोति मे।दूतवध्या न दृष्टा हि राजशास्त्रेषु राक्षस।दूतेन वेदितव्यं च यथार्थं हितवादिना॥ २६एवमुक्ता मया सा तु सुरसा कामरूपिणी।अब्रवीन्नातिवर्तेत कश्चिदेष वरो मम।सुमहत्यपराधेऽपि दूतस्यातुलविक्रमः।विरूपकरणं दृष्टं न वधोऽस्तीह शास्त्रतः॥ २७एवमुक्तः सुरसया दशयोजनमायतः।ततोऽर्धगुणविस्तारो बभूवाहं क्षणेन तु।विभीषणेनैवमुक्तो रावणः संदिदेश तान्।राक्षसानेतदेवाद्य लाङ्गूलं दह्यतामिति॥ २८मत्प्रमाणानुरूपं च व्यादितं तन्मुखं तया।तद्दृष्ट्वा व्यादितं त्वास्यं ह्रस्वं ह्यकरवं वपुः।ततस्तस्य वचः श्रुत्वा मम पुच्छं समन्ततः।वेष्टितं शणवल्कैश्च पटैः कार्पासकैस्तथा॥ २९तस्मिन्मुहूर्ते च पुनर्बभूवाङ्गुष्ठसंमितः।अभिपत्याशु तद्वक्त्रं निर्गतोऽहं ततः क्षणात्।राक्षसाः सिद्धसंनाहास्ततस्ते चण्डविक्रमाः।तदादीप्यन्त मे पुच्छं हनन्तः काष्ठमुष्टिभिः॥ ३०अब्रवीत्सुरसा देवी स्वेन रूपेण मां पुनः।अर्थसिद्ध्यै हरिश्रेष्ठ गच्छ सौम्य यथासुखम्।बद्धस्य बहुभिः पाशैर्यन्त्रितस्य च राक्षसैः।न मे पीडा भवेत्काचिद्दिदृक्षोर्नगरीं दिवा॥ ३१समानय च वैदेहीं राघवेण महात्मना।सुखी भव महाबाहो प्रीतास्मि तव वानर।ततस्ते राक्षसाः शूरा बद्धं मामग्निसंवृतम्।अघोषयन्राजमार्गे नगरद्वारमागताः॥ ३२ततोऽहं साधु साध्वीति सर्वभूतैः प्रशंसितः।ततोऽन्तरिक्षं विपुलं प्लुतोऽहं गरुडो यथा।ततोऽहं सुमहद्रूपं संक्षिप्य पुनरात्मनः।विमोचयित्वा तं बन्धं प्रकृतिष्ठः स्थितः पुनः॥ ३३छाया मे निगृहीता च न च पश्यामि किंचन।सोऽहं विगतवेगस्तु दिशो दश विलोकयन्।न किंचित्तत्र पश्यामि येन मेऽपहृता गतिः।आयसं परिघं गृह्य तानि रक्षांस्यसूदयम्।ततस्तन्नगरद्वारं वेगेनाप्लुतवानहम्॥ ३४ततो मे बुद्धिरुत्पन्ना किं नाम गमने मम।ईदृशो विघ्न उत्पन्नो रूपं यत्र न दृश्यते।पुच्छेन च प्रदीप्तेन तां पुरीं साट्टगोपुराम्।दहाम्यहमसंभ्रान्तो युगान्ताग्निरिव प्रजाः॥ ३५अधो भागेन मे दृष्टिः शोचता पातिता मया।ततोऽद्राक्षमहं भीमां राक्षसीं सलिले शयाम्।दग्ध्वा लङ्कां पुनश्चैव शङ्का मामभ्यवर्तत।दहता च मया लङ्कां दग्धा सीता न संशयः॥ ३६प्रहस्य च महानादमुक्तोऽहं भीमया तया।अवस्थितमसंभ्रान्तमिदं वाक्यमशोभनम्।अथाहं वाचमश्रौषं चारणानां शुभाक्षराम्।जानकी न च दग्धेति विस्मयोदन्तभाषिणाम्॥ ३७क्वासि गन्ता महाकाय क्षुधिताया ममेप्सितः।भक्षः प्रीणय मे देहं चिरमाहारवर्जितम्।ततो मे बुद्धिरुत्पन्ना श्रुत्वा तामद्भुतां गिरम्।पुनर्दृष्टा च वैदेही विसृष्टश्च तया पुनः॥ ३८बाढमित्येव तां वाणीं प्रत्यगृह्णामहं ततः।आस्य प्रमाणादधिकं तस्याः कायमपूरयम्।राघवस्य प्रभावेन भवतां चैव तेजसा।सुग्रीवस्य च कार्यार्थं मया सर्वमनुष्ठितम्॥ ३९तस्याश्चास्यं महद्भीमं वर्धते मम भक्षणे।न च मां सा तु बुबुधे मम वा विकृतं कृतम्।एतत्सर्वं मया तत्र यथावदुपपादितम्।अत्र यन्न कृतं शेषं तत्सर्वं क्रियतामिति॥ ४०ततोऽहं विपुलं रूपं संक्षिप्य निमिषान्तरात्।तस्या हृदयमादाय प्रपतामि नभस्तलम्॥ ४१सा विसृष्टभुजा भीमा पपात लवणाम्भसि।मया पर्वतसंकाशा निकृत्तहृदया सती॥ ४२शृणोमि खगतानां च सिद्धानां चारणैः सह।राक्षसी सिंहिका भीमा क्षिप्रं हनुमता हृता॥ ४३तां हत्वा पुनरेवाहं कृत्यमात्ययिकं स्मरन्।गत्वा च महदध्वानं पश्यामि नगमण्डितम्।दक्षिणं तीरमुदधेर्लङ्का यत्र च सा पुरी॥ ४४अस्तं दिनकरे याते रक्षसां निलयं पुरीम्।प्रविष्टोऽहमविज्ञातो रक्षोभिर्भीमविक्रमैः॥ ४५तत्राहं सर्वरात्रं तु विचिन्वञ्जनकात्मजाम्।रावणान्तःपुरगतो न चापश्यं सुमध्यमाम्॥ ४६ततः सीतामपश्यंस्तु रावणस्य निवेशने।शोकसागरमासाद्य न पारमुपलक्षये॥ ४७शोचता च मया दृष्टं प्राकारेण समावृतम्।काञ्चनेन विकृष्टेन गृहोपवनमुत्तमम्॥ ४८स प्राकारमवप्लुत्य पश्यामि बहुपादपम्॥ ४९अशोकवनिकामध्ये शिंशपापादपो महान्।तमारुह्य च पश्यामि काञ्चनं कदली वनम्॥ ५०अदूराच्छिंशपावृक्षात्पश्यामि वनवर्णिनीम्।श्यामां कमलपत्राक्षीमुपवासकृशाननाम्॥ ५१राक्षसीभिर्विरूपाभिः क्रूराभिरभिसंवृताम्।मांसशोणितभक्ष्याभिर्व्याघ्रीभिर्हरिणीं यथा॥ ५२तां दृष्ट्वा तादृशीं नारीं रामपत्नीमनिन्दिताम्।तत्रैव शिंशपावृक्षे पश्यन्नहमवस्थितः॥ ५३ततो हलहलाशब्दं काञ्चीनूपुरमिश्रितम्।शृणोम्यधिकगम्भीरं रावणस्य निवेशने॥ ५४ततोऽहं परमोद्विग्नः स्वरूपं प्रत्यसंहरम्।अहं च शिंशपावृक्षे पक्षीव गहने स्थितः॥ ५५ततो रावणदाराश्च रावणश्च महाबलः।तं देशं समनुप्राप्ता यत्र सीताभवत्स्थिता॥ ५६तं दृष्ट्वाथ वरारोहा सीता रक्षोगणेश्वरम्।संकुच्योरू स्तनौ पीनौ बाहुभ्यां परिरभ्य च॥ ५७तामुवाच दशग्रीवः सीतां परमदुःखिताम्।अवाक्शिराः प्रपतितो बहु मन्यस्व मामिति॥ ५८यदि चेत्त्वं तु मां दर्पान्नाभिनन्दसि गर्विते।द्विमासानन्तरं सीते पास्यामि रुधिरं तव॥ ५९एतच्छ्रुत्वा वचस्तस्य रावणस्य दुरात्मनः।उवाच परमक्रुद्धा सीता वचनमुत्तमम्॥ ६०राक्षसाधम रामस्य भार्याममिततेजसः।इक्ष्वाकुकुलनाथस्य स्नुषां दशरथस्य च।अवाच्यं वदतो जिह्वा कथं न पतिता तव॥ ६१किंस्विद्वीर्यं तवानार्य यो मां भर्तुरसंनिधौ।अपहृत्यागतः पाप तेनादृष्टो महात्मना॥ ६२न त्वं रामस्य सदृशो दास्येऽप्यस्या न युज्यसे।यज्ञीयः सत्यवाक्चैव रणश्लाघी च राघवः॥ ६३जानक्या परुषं वाक्यमेवमुक्तो दशाननः।जज्वाल सहसा कोपाच्चितास्थ इव पावकः॥ ६४विवृत्य नयने क्रूरे मुष्टिमुद्यम्य दक्षिणम्।मैथिलीं हन्तुमारब्धः स्त्रीभिर्हाहाकृतं तदा॥ ६५स्त्रीणां मध्यात्समुत्पत्य तस्य भार्या दुरात्मनः।वरा मन्दोदरी नाम तया स प्रतिषेधितः॥ ६६उक्तश्च मधुरां वाणीं तया स मदनार्दितः।सीतया तव किं कार्यं महेन्द्रसमविक्रम।मया सह रमस्वाद्य मद्विशिष्टा न जानकी॥ ६७देवगन्धर्वकन्याभिर्यक्षकन्याभिरेव च।सार्धं प्रभो रमस्वेह सीतया किं करिष्यसि॥ ६८ततस्ताभिः समेताभिर्नारीभिः स महाबलः।उत्थाप्य सहसा नीतो भवनं स्वं निशाचरः॥ ६९याते तस्मिन्दशग्रीवे राक्षस्यो विकृताननाः।सीतां निर्भर्त्सयामासुर्वाक्यैः क्रूरैः सुदारुणैः॥ ७०तृणवद्भाषितं तासां गणयामास जानकी।तर्जितं च तदा तासां सीतां प्राप्य निरर्थकम्॥ ७१वृथागर्जितनिश्चेष्टा राक्षस्यः पिशिताशनाः।रावणाय शशंसुस्ताः सीताव्यवसितं महत्॥ ७२ततस्ताः सहिताः सर्वा विहताशा निरुद्यमाः।परिक्षिप्य समन्तात्तां निद्रावशमुपागताः॥ ७३तासु चैव प्रसुप्तासु सीता भर्तृहिते रता।विलप्य करुणं दीना प्रशुशोच सुदुःखिता॥ ७४तां चाहं तादृशीं दृष्ट्वा सीताया दारुणां दशाम्।चिन्तयामास विश्रान्तो न च मे निर्वृतं मनः॥ ७५संभाषणार्थे च मया जानक्याश्चिन्तितो विधिः।इक्ष्वाकुकुलवंशस्तु ततो मम पुरस्कृतः॥ ७६श्रुत्वा तु गदितां वाचं राजर्षिगणपूजिताम्।प्रत्यभाषत मां देवी बाष्पैः पिहितलोचना॥ ७७कस्त्वं केन कथं चेह प्राप्तो वानरपुंगव।का च रामेण ते प्रीतिस्तन्मे शंसितुमर्हसि॥ ७८तस्यास्तद्वचनं श्रुत्वा अहमप्यब्रुवं वचः।देवि रामस्य भर्तुस्ते सहायो भीमविक्रमः।सुग्रीवो नाम विक्रान्तो वानरेन्दो महाबलः॥ ७९तस्य मां विद्धि भृत्यं त्वं हनूमन्तमिहागतम्।भर्त्राहं प्रहितस्तुभ्यं रामेणाक्लिष्टकर्मणा॥ ८०इदं च पुरुषव्याघ्रः श्रीमान्दाशरथिः स्वयम्।अङ्गुलीयमभिज्ञानमदात्तुभ्यं यशस्विनि॥ ८१तदिच्छामि त्वयाज्ञप्तं देवि किं करवाण्यहम्।रामलक्ष्मणयोः पार्श्वं नयामि त्वां किमुत्तरम्॥ ८२एतच्छ्रुत्वा विदित्वा च सीता जनकनन्दिनी।आह रावणमुत्साद्य राघवो मां नयत्विति॥ ८३प्रणम्य शिरसा देवीमहमार्यामनिन्दिताम्।राघवस्य मनोह्लादमभिज्ञानमयाचिषम्॥ ८४एवमुक्ता वरारोहा मणिप्रवरमुत्तमम्।प्रायच्छत्परमोद्विग्ना वाचा मां संदिदेश ह॥ ८५ततस्तस्यै प्रणम्याहं राजपुत्र्यै समाहितः।प्रदक्षिणं परिक्राममिहाभ्युद्गतमानसः॥ ८६उत्तरं पुनरेवाह निश्चित्य मनसा तदा।हनूमन्मम वृत्तान्तं वक्तुमर्हसि राघवे॥ ८७यथा श्रुत्वैव नचिरात्तावुभौ रामलक्ष्मणौ।सुग्रीवसहितौ वीरावुपेयातां तथा कुरु॥ ८८यद्यन्यथा भवेदेतद्द्वौ मासौ जीवितं मम।न मां द्रक्ष्यति काकुत्स्थो म्रिये साहमनाथवत्॥ ८९तच्छ्रुत्वा करुणं वाक्यं क्रोधो मामभ्यवर्तत।उत्तरं च मया दृष्टं कार्यशेषमनन्तरम्॥ ९०ततोऽवर्धत मे कायस्तदा पर्वतसंनिभः।युद्धकाङ्क्षी वनं तच्च विनाशयितुमारभे॥ ९१तद्भग्नं वनषण्डं तु भ्रान्तत्रस्तमृगद्विजम्।प्रतिबुद्धा निरीक्षन्ते राक्षस्यो विकृताननाः॥ ९२मां च दृष्ट्वा वने तस्मिन्समागम्य ततस्ततः।ताः समभ्यागताः क्षिप्रं रावणायाचचक्षिरे॥ ९३राजन्वनमिदं दुर्गं तव भग्नं दुरात्मना।वानरेण ह्यविज्ञाय तव वीर्यं महाबल॥ ९४दुर्बुद्धेस्तस्य राजेन्द्र तव विप्रियकारिणः।वधमाज्ञापय क्षिप्रं यथासौ विलयं व्रजेत्॥ ९५तच्छ्रुत्वा राक्षसेन्द्रेण विसृष्टा भृशदुर्जयाः।राक्षसाः किंकरा नाम रावणस्य मनोऽनुगाः॥ ९६तेषामशीतिसाहस्रं शूलमुद्गरपाणिनाम्।मया तस्मिन्वनोद्देशे परिघेण निषूदितम्॥ ९७तेषां तु हतशेषा ये ते गता लघुविक्रमाः।निहतं च मया सैन्यं रावणायाचचक्षिरे॥ ९८ततो मे बुद्धिरुत्पन्ना चैत्यप्रासादमाक्रमम्॥ ९९तत्रस्थान्राक्षसान्हत्वा शतं स्तम्भेन वै पुनः।ललाम भूतो लङ्काया मया विध्वंसितो रुषा॥ ०इति श्रीरामायणे सुन्दरकाण्डे षट्पञ्चाशः सर्गः ॥ ५६
वाल्मीकिरामायणम् Baroda Critical EditionCC0. No rights reserved