६० सर्गः
तानुवाच हरिश्रेष्ठो हनूमान्वानरर्षभः।अव्यग्रमनसो यूयं मधु सेवत वानराः॥ १श्रुत्वा हनुमतो वाक्यं हरीणां प्रवरोऽङ्गदः।प्रत्युवाच प्रसन्नात्मा पिबन्तु हरयो मधु॥ २अवश्यं कृतकार्यस्य वाक्यं हनुमतो मया।अकार्यमपि कर्तव्यं किमङ्ग पुनरीदृशम्॥ ३अन्दगस्य मुखाच्छ्रुत्वा वचनं वानरर्षभाः।साधु साध्विति संहृष्टा वानराः प्रत्यपूजयन्॥ ४पूजयित्वाङ्गदं सर्वे वानरा वानरर्षभम्।जग्मुर्मधुवनं यत्र नदीवेग इव द्रुतम्॥ ५ते प्रहृष्टा मधुवनं पालानाक्रम्य वीर्यतः।अतिसर्गाच्च पटवो दृष्ट्वा श्रुत्वा च मैथिलीम्॥ ६उत्पत्य च ततः सर्वे वनपालान्समागताः।ताडयन्ति स्म शतशः सक्तान्मधुवने तदा॥ ७मधूनि द्रोणमात्राणि बहुभिः परिगृह्य ते।घ्नन्ति स्म सहिताः सर्वे भक्षयन्ति तथापरे॥ ८केचित्पीत्वापविध्यन्ति मधूनि मधुपिङ्गलाः।मधूच्चिष्टेन केचिच्च जघ्नुरन्योन्यमुत्कटाः॥ ९अपरे वृक्षमूलेषु शाखां गृह्य व्यवस्थितः।अत्यर्थं च मदग्लानाः पर्णान्यास्तीर्य शेरते॥ १०उन्मत्तभूताः प्लवगा मधुमत्ताश्च हृष्टवत्।क्षिपन्त्यपि तथान्योन्यं स्खलन्त्यपि तथापरे॥ ११केचित्क्ष्वेडान्प्रकुर्वन्ति केचित्कूजन्ति हृष्टवत्।हरयो मधुना मत्ताः केचित्सुप्ता महीतले॥ १२येऽप्यत्र मधुपालाः स्युः प्रेष्या दधिमुखस्य तु।तेऽपि तैर्वानरैर्भीमैः प्रतिषिद्धा दिशो गताः॥ १३जानुभिश्च प्रकृष्टाश्च देवमार्गं च दर्शिताः।अब्रुवन्परमोद्विग्ना गत्वा दधिमुखं वचः॥ १४हनूमता दत्तवरैर्हतं मधुवनं बलात्।वयं च जानुभिः कृष्टा देवमार्गं च दर्शिताः॥ १५ततो दधिमुखः क्रुद्धो वनपस्तत्र वानरः।हतं मधुवनं श्रुत्वा सान्त्वयामास तान्हरीन्॥ १६एतागच्छत गच्छामो वानरानतिदर्पितान्।बलेनावारयिष्यामो मधु भक्षयतो वयम्॥ १७श्रुत्वा दधिमुखस्येदं वचनं वानरर्षभाः।पुनर्वीरा मधुवनं तेनैव सहिता ययुः॥ १८मध्ये चैषां दधिमुखः प्रगृह्य सुमहातरुम्।समभ्यधावद्वेगेना ते च सर्वे प्लवंगमाः॥ १९ते शिलाः पादपांश्चापि पाषाणांश्चापि वानराः।गृहीत्वाभ्यागमन्क्रुद्धा यत्र ते कपिकुञ्जराः॥ २०ते स्वामिवचनं वीरा हृदयेष्ववसज्य तत्।त्वरया ह्यभ्यधावन्त सालतालशिलायुधाः॥ २१वृक्षस्थांश्च तलस्थांश्च वानरान्बलदर्पितान्।अभ्यक्रामन्त ते वीराः पालास्तत्र सहस्रशः॥ २२अथ दृष्ट्वा दधिमुखं क्रुद्धं वानरपुंगवाः।अभ्यधावन्त वेगेन हनूमत्प्रमुखास्तदा॥ २३तं सवृक्षं महाबाहुमापतन्तं महाबलम्।आर्यकं प्राहरत्तत्र बाहुभ्यां कुपितोऽङ्गदः॥ २४मदान्धश न वेदैनमार्यकोऽयं ममेति सः।अथैनं निष्पिपेषाशु वेगवद्वसुधातले॥ २५स भग्नबाहुर्विमुखो विह्वलः शोणितोक्षितः।मुमोह सहसा वीरो मुहूर्तं कपिकुञ्जरः॥ २६स कथंचिद्विमुक्तस्तैर्वानरैर्वानरर्षभः।उवाचैकान्तमागम्य भृत्यांस्तान्समुपागतान्॥ २७एते तिष्ठन्तु गच्छामो भर्ता नो यत्र वानरः।सुग्रीवो विपुलग्रीवः सह रामेण तिष्ठति॥ २८सर्वं चैवाङ्गदे दोषं श्रावयिष्यामि पार्थिव।अमर्षी वचनं श्रुत्वा घातयिष्यति वानरान्॥ २९इष्टं मधुवनं ह्येतत्सुग्रीवस्य महात्मनः।पितृपैतामहं दिव्यं देवैरपि दुरासदम्॥ ३०स वानरानिमान्सर्वान्मधुलुब्धान्गतायुषः।घातयिष्यति दण्डेन सुग्रीवः ससुहृज्जनान्॥ ३१वध्या ह्येते दुरात्मानो नृपाज्ञा परिभाविनः।अमर्षप्रभवो रोषः सफलो नो भविष्यति॥ ३२एवमुक्त्वा दधिमुखो वनपालान्महाबलः।जगाम सहसोत्पत्य वनपालैः समन्वितः॥ ३३निमेषान्तरमात्रेण स हि प्राप्तो वनालयः।सहस्रांशुसुतो धीमान्सुग्रीवो यत्र वानरः॥ ३४रामं च लक्ष्मणं चैव दृष्ट्वा सुग्रीवमेव च।समप्रतिष्ठां जगतीमाकाशान्निपपात ह॥ ३५स निपत्य महावीर्यः सर्वैस्तैः परिवारितः।हरिर्दधिमुखः पालैः पालानां परमेश्वरः॥ ३६स दीनवदनो भूत्वा कृत्वा शिरसि चाञ्जलिम्।सुग्रीवस्य शुभौ मूर्ध्ना चरणौ प्रत्यपीडयत्॥ ३७इति श्रीरामायणे सुन्दरकाण्डे षष्टितमः सर्गः ॥ ६०
वाल्मीकिरामायणम् Baroda Critical EditionCC0. No rights reserved