॥ ॐ श्री गणपतये नमः ॥

६२ सर्गः
सुग्रीवेणैवमुक्तस्तु हृष्टो दधिमुखः कपिः।राघवं लक्ष्मणं चैव सुग्रीवं चाभ्यवादयत्॥ १स प्रणम्य च सुग्रीवं राघवौ च महाबलौ।वानरैः सहितैः शूरैर्दिवमेवोत्पपात ह॥ २स यथैवागतः पूर्वं तथैव त्वरितो गतः।निपत्य गगनाद्भूमौ तद्वनं प्रविवेश ह॥ ३स प्रविष्टो मधुवनं ददर्श हरियूथपान्।विमदानुद्धतान्सर्वान्मेहमानान्मधूदकम्॥ ४स तानुपागमद्वीरो बद्ध्वा करपुटाञ्जलिम्।उवाच वचनं श्लक्ष्णमिदं हृष्टवदङ्गदम्॥ ५सौम्य रोषो न कर्तव्यो यदेभिरभिवारितः।अज्ञानाद्रक्षिभिः क्रोधाद्भवन्तः प्रतिषेधिताः॥ ६युवराजस्त्वमीशश्च वनस्यास्य महाबल।मौर्ख्यात्पूर्वं कृतो दोषस्तद्भवान्क्षन्तुमर्हति॥ ७यथैव हि पिता तेऽभूत्पूर्वं हरिगणेश्वरः।तथा त्वमपि सुग्रीवो नान्यस्तु हरिसत्तम॥ ८आख्यातं हि मया गत्वा पितृव्यस्य तवानघ।इहोपयानं सर्वेषामेतेषां वनचारिणाम्॥ ९स त्वदागमनं श्रुत्वा सहैभिर्हरियूथपैः।प्रहृष्टो न तु रुष्टोऽसौ वनं श्रुत्वा प्रधर्षितम्॥ १०प्रहृष्टो मां पितृव्यस्ते सुग्रीवो वानरेश्वरः।शीघ्रं प्रेषय सर्वांस्तानिति होवाच पार्थिवः॥ ११श्रुत्वा दधिमुखस्यैतद्वचनं श्लक्ष्णमङ्गदः।अब्रवीत्तान्हरिश्रेष्ठो वाक्यं वाक्यविशारदः॥ १२शङ्के श्रुतोऽयं वृत्तान्तो रामेण हरियूथपाः।तत्क्षमं नेह नः स्थातुं कृते कार्ये परंतपाः॥ १३पीत्वा मधु यथाकामं विश्रान्ता वनचारिणः।किं शेषं गमनं तत्र सुग्रीवो यत्र मे गुरुः॥ १४सर्वे यथा मां वक्ष्यन्ति समेत्य हरियूथपाः।तथास्मि कर्ता कर्तव्ये भवद्भिः परवानहम्॥ १५नाज्ञापयितुमीशोऽहं युवराजोऽस्मि यद्यपि।अयुक्तं कृतकर्माणो यूयं धर्षयितुं मया॥ १६ब्रुवतश्चाङ्गदश्चैवं श्रुत्वा वचनमव्ययम्।प्रहृष्टमनसो वाक्यमिदमूचुर्वनौकसः॥ १७एवं वक्ष्यति को राजन्प्रभुः सन्वानरर्षभ।ऐश्वर्यमदमत्तो हि सर्वोऽहमिति मन्यते॥ १८तव चेदं सुसदृशं वाक्यं नान्यस्य कस्यचित्।संनतिर्हि तवाख्याति भविष्यच्छुभभाग्यताम्॥ १९सर्वे वयमपि प्राप्तास्तत्र गन्तुं कृतक्षणाः।स यत्र हरिवीराणां सुग्रीवः पतिरव्ययः॥ २०त्वया ह्यनुक्तैर्हरिभिर्नैव शक्यं पदात्पदम्।क्वचिद्गन्तुं हरिश्रेष्ठ ब्रूमः सत्यमिदं तु ते॥ २१एवं तु वदतां तेषामङ्गदः प्रत्यभाषत।बाढं गच्छाम इत्युक्त्वा उत्पपात महीतलात्॥ २२उत्पतन्तमनूत्पेतुः सर्वे ते हरियूथपाः।कृत्वाकाशं निराकाशं यज्ञोत्क्षिप्ता इवानलाः॥ २३तेऽम्बरं सहसोत्पत्य वेगवन्तः प्लवंगमाः।विनदन्तो महानादं घना वातेरिता यथा॥ २४अङ्गदे ह्यननुप्राप्ते सुग्रीवो वानराधिपः।उवाच शोकोपहतं रामं कमललोचनम्॥ २५समाश्वसिहि भद्रं ते दृष्टा देवी न संशयः।नागन्तुमिह शक्यं तैरतीते समये हि नः॥ २६न मत्सकाशमागच्छेत्कृत्ये हि विनिपातिते।युवराजो महाबाहुः प्लवतां प्रवरोऽङ्गदः॥ २७यद्यप्यकृतकृत्यानामीदृशः स्यादुपक्रमः।भवेत्तु दीनवदनो भ्रान्तविप्लुतमानसः॥ २८पितृपैतामहं चैतत्पूर्वकैरभिरक्षितम्।न मे मधुवनं हन्यादहृष्टः प्लवगेश्वरः॥ २९कौसल्या सुप्रजा राम समाश्वसिहि सुव्रत।दृष्टा देवी न संदेहो न चान्येन हनूमता।न ह्यन्यः कर्मणो हेतुः साधने तद्विधो भवेत्॥ ३०हनूमति हि सिद्धिश्च मतिश्च मतिसत्तम।व्यवसायश्च वीर्यं च सूर्ये तेज इव ध्रुवम्॥ ३१जाम्बवान्यत्र नेता स्यादङ्गदश्च बलेश्वरः।हनूमांश्चाप्यधिष्ठाता न तस्य गतिरन्यथा॥ ३२मा भूश्चिन्ता समायुक्तः संप्रत्यमितविक्रम॥ ३३ततः किल किला शब्दं शुश्रावासन्नमम्बरे।हनूमत्कर्मदृप्तानां नर्दतां काननौकसाम्।किष्किन्धामुपयातानां सिद्धिं कथयतामिव॥ ३४ततः श्रुत्वा निनादं तं कपीनां कपिसत्तमः।आयताञ्चितलाङ्गूलः सोऽभवद्धृष्टमानसः॥ ३५आजग्मुस्तेऽपि हरयो रामदर्शनकाङ्क्षिणः।अङ्गदं पुरतः कृत्वा हनूमन्तं च वानरम्॥ ३६तेऽङ्गदप्रमुखा वीराः प्रहृष्टाश्च मुदान्विताः।निपेतुर्हरिराजस्य समीपे राघवस्य च॥ ३७हनूमांश्च महाबहुः प्रणम्य शिरसा ततः।नियतामक्षतां देवीं राघवाय न्यवेदयत्॥ ३८निश्चितार्थं ततस्तस्मिन्सुग्रीवं पवनात्मजे।लक्ष्मणः प्रीतिमान्प्रीतं बहुमानादवैक्षत॥ ३९प्रीत्या च रममाणोऽथ राघवः परवीरहा।बहु मानेन महता हनूमन्तमवैक्षत॥ ४०इति श्रीरामायणे सुन्दरकाण्डे द्विषष्टितमः सर्गः ॥ ६२
वाल्मीकिरामायणम् Baroda Critical EditionCC0. No rights reserved