६५ सर्गः
एवमुक्तस्तु हनुमान्राघवेण महात्मना।सीताया भाषितं सर्वं न्यवेदयत राघवे॥ १इदमुक्तवती देवी जानकी पुरुषर्षभ।पूर्ववृत्तमभिज्ञानं चित्रकूटे यथा तथम्॥ २सुखसुप्ता त्वया सार्धं जानकी पूर्वमुत्थिता।वायसः सहसोत्पत्य विरराद स्तनान्तरे॥ ३पर्यायेण च सुप्तस्त्वं देव्यङ्के भरताग्रज।पुनश्च किल पक्षी स देव्या जनयति व्यथाम्॥ ४ततः पुनरुपागम्य विरराद भृशं किल।ततस्त्वं बोधितस्तस्याः शोणितेन समुक्षितः॥ ५वायसेन च तेनैव सततं बाध्यमानया।बोधितः किल देव्यास्त्वं सुखसुप्तः परंतप॥ ६तां तु दृष्ट्वा महाबाहो रादितां च स्तनान्तरे।आशीविष इव क्रुद्धो निःश्वसन्नभ्यभाषथाः॥ ७नखाग्रैः केन ते भीरु दारितं तु स्तनान्तरम्।कः क्रीडति सरोषेण पञ्चवक्त्रेण भोगिना॥ ८निरीक्षमाणः सहसा वायसं समवैक्षताः।नखैः सरुधिरैस्तीक्ष्णैर्मामेवाभिमुखं स्थितम्॥ ९सुतः किल स शक्रस्य वायसः पततां वरः।धरान्तरचरः शीघ्रं पवनस्य गतौ समः॥ १०ततस्तस्मिन्महाबाहो कोपसंवर्तितेक्षणः।वायसे त्वं कृत्वाः क्रूरां मतिं मतिमतां वर॥ ११स दर्भं संस्तराद्गृह्य ब्रह्मास्त्रेण न्ययोजयः।स दीप्त इव कालाग्निर्जज्वालाभिमुखः खगम्॥ १२स त्वं प्रदीप्तं चिक्षेप दर्भं तं वायसं प्रति।ततस्तु वायसं दीप्तः स दर्भोऽनुजगाम ह॥ १३स पित्रा च परित्यक्तः सुरैः सर्वैर्महर्षिभिः।त्रीँल्लोकान्संपरिक्रम्य त्रातारं नाधिगच्छति॥ १४तं त्वं निपतितं भूमौ शरण्यः शरणागतम्।वधार्हमपि काकुत्स्थ कृपया परिपालयः॥ १५मोघमस्त्रं न शक्यं तु कर्तुमित्येव राघव।ततस्तस्याक्षिकाकस्य हिनस्ति स्म स दक्षिणम्॥ १६राम त्वां स नमस्कृत्वा राज्ञो दशरथस्य च।विसृष्टस्तु तदा काकः प्रतिपेदे खमालयम्॥ १७एवमस्त्रविदां श्रेष्ठः सत्त्ववाञ्शीलवानपि।किमर्थमस्त्रं रक्षःसु न योजयसि राघव॥ १८न नागा नापि गन्धर्वा नासुरा न मरुद्गणाः।तव राम मुखे स्थातुं शक्ताः प्रतिसमाधितुम्॥ १९तव वीर्यवतः कच्चिन्मयि यद्यस्ति संभ्रमः।क्षिप्रं सुनिशितैर्बाणैर्हन्यतां युधि रावणः॥ २०भ्रातुरादेशमादाय लक्ष्मणो वा परंतपः।स किमर्थं नरवरो न मां रक्षति राघवः॥ २१शक्तौ तौ पुरुषव्याघ्रौ वाय्वग्निसमतेजसौ।सुराणामपि दुर्धर्षौ किमर्थं मामुपेक्षतः॥ २२ममैव दुष्कृतं किंचिन्महदस्ति न संशयः।समर्थौ सहितौ यन्मां नापेक्षेते परंतपौ॥ २३वैदेह्या वचनं श्रुत्वा करुणं साश्रुभाषितम्।पुनरप्यहमार्यां तामिदं वचनमब्रुवम्॥ २४त्वच्छोकविमुखो रामो देवि सत्येन ते शपे।रामे दुःखाभिभूते च लक्ष्मणः परितप्यते॥ २५कथंचिद्भवती दृष्टा न कालः परिशोचितुम्।इमं मुहूर्तं दुःखानामन्तं द्रक्ष्यसि भामिनि॥ २६तावुभौ नरशार्दूलौ राजपुत्रावरिंदमौ।त्वद्दर्शनकृतोत्साहौ लङ्कां भस्मीकरिष्यतः॥ २७हत्वा च समरे रौद्रं रावणं सह बान्धवम्।राघवस्त्वां महाबाहुः स्वां पुरीं नयते ध्रुवम्॥ २८यत्तु रामो विजानीयादभिज्ञानमनिन्दिते।प्रीतिसंजननं तस्य प्रदातुं तत्त्वमर्हसि॥ २९साभिवीक्ष्य दिशः सर्वा वेण्युद्ग्रथनमुत्तमम्।मुक्त्वा वस्त्राद्ददौ मह्यं मणिमेतं महाबल॥ ३०प्रतिगृह्य मणिं दिव्यं तव हेतो रघूत्तम।शिरसा संप्रणम्यैनामहमागमने त्वरे॥ ३१गमने च कृतोत्साहमवेक्ष्य वरवर्णिनी।विवर्धमानं च हि मामुवाच जनकात्मजा।अश्रुपूर्णमुखी दीना बाष्पसंदिग्धभाषिणी॥ ३२हनुमन्सिंहसंकाशौ तावुभौ रामलक्ष्मणौ।सुग्रीवं च सहामात्यं सर्वान्ब्रूया अनामयम्॥ ३३यथा च स महाबाहुर्मां तारयति राघवः।अस्माद्दुःखाम्बुसंरोधात्तत्समाधातुमर्हसि॥ ३४इमं च तीव्रं मम शोकवेगंरक्षोभिरेभिः परिभर्त्सनं च।ब्रूयास्तु रामस्य गतः समीपंशिवश्च तेऽध्वास्तु हरिप्रवीर॥ ३५एतत्तवार्या नृपराजसिंहसीता वचः प्राह विषादपूर्वम्।एतच्च बुद्ध्वा गदितं मया त्वंश्रद्धत्स्व सीतां कुशलां समग्राम्॥ ३६इति श्रीरामायणे सुन्दरकाण्डे पञ्चषष्टितमः सर्गः ॥ ६५
वाल्मीकिरामायणम् Baroda Critical EditionCC0. No rights reserved