॥ ॐ श्री गणपतये नमः ॥

४ सर्गः
श्रुत्वा हनूमतो वाक्यं यथावदनुपूर्वशः।ततोऽब्रवीन्महातेजा रामः सत्यपराक्रमः॥ १यां निवेदयसे लङ्कां पुरीं भीमस्य रक्षसः।क्षिप्रमेनां वधिष्यामि सत्यमेतद्ब्रवीमि ते॥ २अस्मिन्मुहूर्ते सुग्रीव प्रयाणमभिरोचये।युक्तो मुहूर्तो विजयः प्राप्तो मध्यं दिवाकरः॥ ३उत्तरा फल्गुनी ह्यद्य श्वस्तु हस्तेन योक्ष्यते।अभिप्रयाम सुग्रीव सर्वानीकसमावृताः॥ ४निमित्तानि च धन्यानि यानि प्रादुर्भवन्ति मे।निहत्य रावणं सीतामानयिष्यामि जानकीम्॥ ५उपरिष्टाद्धि नयनं स्फुरमाणमिदं मम।विजयं समनुप्राप्तं शंसतीव मनोरथम्॥ ६अग्रे यातु बलस्यास्य नीलो मार्गमवेक्षितुम्।वृतः शतसहस्रेण वानराणां तरस्विनाम्॥ ७फलमूलवता नील शीतकाननवारिणा।पथा मधुमता चाशु सेनां सेनापते नय॥ ८दूषयेयुर्दुरात्मानः पथि मूलफलोदकम्।राक्षसाः परिरक्षेथास्तेभ्यस्त्वं नित्यमुद्यतः॥ ९निम्नेषु वनदुर्गेषु वनेषु च वनौकसः।अभिप्लुत्याभिपश्येयुः परेषां निहतं बलम्॥ १०सागरौघनिभं भीममग्रानीकं महाबलाः।कपिसिंहा प्रकर्षन्तु शतशोऽथ सहस्रशः॥ ११गजश्च गिरिसंकाशो गवयश्च महाबलः।गवाक्षश्चाग्रतो यान्तु गवां दृप्ता इवर्षभाः॥ १२यातु वानरवाहिन्या वानरः प्लवतां पतिः।पालयन्दक्षिणं पार्श्वमृषभो वानरर्षभः॥ १३गन्धहस्तीव दुर्धर्षस्तरस्वी गन्धमादनः।यातु वानरवाहिन्याः सव्यं पार्श्वमधिष्ठितः॥ १४यास्यामि बलमध्येऽहं बलौघमभिहर्षयन्।अधिरुह्य हनूमन्तमैरावतमिवेश्वरः॥ १५अङ्गदेनैष संयातु लक्ष्मणश्चान्तकोपमः।सार्वभौमेण भूतेशो द्रविणाधिपतिर्यथा॥ १६जाम्बवांश्च सुषेणश्च वेगदर्शी च वानरः।ऋक्षराजो महासत्त्वः कुक्षिं रक्षन्तु ते त्रयः॥ १७राघवस्य वचः श्रुत्वा सुग्रीवो वाहिनीपतिः।व्यादिदेश महावीर्यान्वानरान्वानरर्षभः॥ १८ते वानरगणाः सर्वे समुत्पत्य युयुत्सवः।गुहाभ्यः शिखरेभ्यश्च आशु पुप्लुविरे तदा॥ १९ततो वानरराजेन लक्ष्मणेन च पूजितः।जगाम रामो धर्मात्मा ससैन्यो दक्षिणां दिशम्॥ २०शतैः शतसहस्रैश्च कोटीभिरयुतैरपि।वारणाभिश्च हरिभिर्ययौ परिवृतस्तदा॥ २१तं यान्तमनुयाति स्म महती हरिवाहिनी॥ २२हृष्टाः प्रमुदिताः सर्वे सुग्रीवेणाभिपालिताः।आप्लवन्तः प्लवन्तश्च गर्जन्तश्च प्लवंगमाः।क्ष्वेलन्तो निनदन्तश्च जग्मुर्वै दक्षिणां दिशम्॥ २३भक्षयन्तः सुगन्धीनि मधूनि च फलानि च।उद्वहन्तो महावृक्षान्मञ्जरीपुञ्जधारिणः॥ २४अन्योन्यं सहसा दृष्टा निर्वहन्ति क्षिपन्ति च।पतन्तश्चोत्पतन्त्यन्ये पातयन्त्यपरे परान्॥ २५रावणो नो निहन्तव्यः सर्वे च रजनीचराः।इति गर्जन्ति हरयो राघवस्य समीपतः॥ २६पुरस्तादृषभो वीरो नीलः कुमुद एव च।पथानं शोधयन्ति स्म वानरैर्बहुभिः सह॥ २७मध्ये तु राजा सुग्रीवो रामो लक्ष्मण एव च।बहुभिर्बलिभिर्भीमैर्वृताः शत्रुनिबर्हणः॥ २८हरिः शतबलिर्वीरः कोटीभिर्दशभिर्वृतः।सर्वामेको ह्यवष्टभ्य ररक्ष हरिवाहिनीम्॥ २९कोटीशतपरीवारः केसरी पनसो गजः।अर्कश्चातिबलः पार्श्वमेकं तस्याभिरक्षति॥ ३०सुषेणो जाम्बवांश्चैव ऋक्षैर्बहुभिरावृतः।सुग्रीवं पुरतः कृत्वा जघनं संररक्षतुः॥ ३१तेषां सेनापतिर्वीरो नीलो वानरपुंगवः।संपतन्पततां श्रेष्ठस्तद्बलं पर्यपालयत्॥ ३२दरीमिखः प्रजङ्घश्च जम्भोऽथ रभसः कपिः।सर्वतश्च ययुर्वीरास्त्वरयन्तः प्लवंगमान्॥ ३३एवं ते हरिशार्दूला गच्छन्तो बलदर्पिताः।अपश्यंस्ते गिरिश्रेष्ठं सह्यं द्रुमलतायुतम्॥ ३४सागरौघनिभं भीमं तद्वानरबलं महत्।निःससर्प महाघोषं भीमवेग इवार्णवः॥ ३५तस्य दाशरथेः पार्श्वे शूरास्ते कपिकुञ्जराः।तूर्णमापुप्लुवुः सर्वे सदश्वा इव चोदिताः॥ ३६कपिभ्यामुह्यमानौ तौ शुशुभते नरर्षभौ।महद्भ्यामिव संस्पृष्टौ ग्राहाभ्यां चन्द्रभास्करौ॥ ३७तमङ्गदगतो रामं लक्ष्मणः शुभया गिरा।उवाच प्रतिपूर्णार्थः स्मृतिमान्प्रतिभानवान्॥ ३८हृतामवाप्य वैदेहीं क्षिप्रं हत्वा च रावणम्।समृद्धार्थः समृद्धार्थामयोध्यां प्रतियास्यसि॥ ३९महान्ति च निमित्तानि दिवि भूमौ च राघव।शुभान्ति तव पश्यामि सर्वाण्येवार्थसिद्धये॥ ४०अनु वाति शुभो वायुः सेनां मृदुहितः सुखः।पूर्णवल्गुस्वराश्चेमे प्रवदन्ति मृगद्विजाः॥ ४१प्रसन्नाश्च दिशः सर्वा विमलश्च दिवाकरः।उशना च प्रसन्नार्चिरनु त्वां भार्गवो गतः॥ ४२ब्रह्मराशिर्विशुद्धश्च शुद्धाश्च परमर्षयः।अर्चिष्मन्तः प्रकाशन्ते ध्रुवं सर्वे प्रदक्षिणम्॥ ४३त्रिशङ्कुर्विमलो भाति राजर्षिः सपुरोहितः।पितामहवरोऽस्माकमिष्क्वाकूणां महात्मनाम्॥ ४४विमले च प्रकाशेते विशाखे निरुपद्रवे।नक्षत्रं परमस्माकमिक्ष्वाकूणां महात्मनाम्॥ ४५नैरृतं नैरृतानां च नक्षत्रमभिपीड्यते।मूलं मूलवता स्पृष्टं धूप्यते धूमकेतुना॥ ४६सरं चैतद्विनाशाय राक्षसानामुपस्थितम्।काले कालगृहीतानां नकत्रं ग्रहपीडितम्॥ ४७प्रसन्नाः सुरसाश्चापो वनानि फलवन्ति च।प्रवान्त्यभ्यधिकं गन्धा यथर्तुकुसुमा द्रुमाः॥ ४८व्यूढानि कपिसैन्यानि प्रकाशन्तेऽधिकं प्रभो।देवानामिव सैन्यानि संग्रामे तारकामये॥ ४९एवमार्य समीक्ष्यैतान्प्रीतो भवितुमर्हसि।इति भ्रातरमाश्वास्य हृष्टः सौमित्रिरब्रवीत्॥ ५०अथावृत्य महीं कृत्स्नां जगाम महती चमूः।ऋक्षवानरशार्दूलैर्नखदंष्ट्रायुधैर्वृता॥ ५१कराग्रैश्चरणाग्रैश्च वानरैरुद्धतं रजः।भौममन्तर्दधे लोकं निवार्य सवितुः प्रभाम्॥ ५२सा स्म याति दिवारात्रं महती हरिवाहिनी।हृष्टप्रमुदिता सेना सुग्रीवेणाभिरक्षिता॥ ५३वनरास्त्वरितं यान्ति सर्वे युद्धाभिनन्दनः।मुमोक्षयिषवः सीतां मुहूर्तं क्वापि नासत॥ ५४ततः पादपसंबाधं नानामृगसमाकुलम्।सह्यपर्वतमासेदुर्मलयं च मही धरम्॥ ५५काननानि विचित्राणि नदीप्रस्रवणानि च।पश्यन्नपि ययौ रामः सह्यस्य मलयस्य च॥ ५६चम्पकांस्तिलकांश्चूतानशोकान्सिन्दुवारकान्।करवीरांश्च तिमिशान्भञ्जन्ति स्म प्लवंगमाः॥ ५७फलान्यमृतगन्धीनि मूलानि कुसुमानि च।बुभुजुर्वानरास्तत्र पादपानां बलोत्कटाः॥ ५८द्रोणमात्रप्रमाणानि लम्बमानानि वानराः।ययुः पिबन्तो हृष्टास्ते मधूनि मधुपिङ्गलाः॥ ५९पादपानवभञ्जन्तो विकर्षन्तस्तथा लताः।विधमन्तो गिरिवरान्प्रययुः प्लवगर्षभाः॥ ६०वृक्षेभ्योऽन्ये तु कपयो नर्दन्तो मधुदर्पिताः।अन्ये वृक्षान्प्रपद्यन्ते प्रपतन्त्यपि चापरे॥ ६१बभूव वसुधा तैस्तु संपूर्णा हरिपुंगवैः।यथा कमलकेदारैः पक्वैरिव वसुंधरा॥ ६२महेन्द्रमथ संप्राप्य रामो राजीवलोचनः।अध्यारोहन्महाबाहुः शिखरं द्रुमभूषितम्॥ ६३ततः शिखरमारुह्य रामो दशरथात्मजः।कूर्ममीनसमाकीर्णमपश्यत्सलिलाशयम्॥ ६४ते सह्यं समतिक्रम्य मलयं च महागिरिम्।आसेदुरानुपूर्व्येण समुद्रं भीमनिःस्वनम्॥ ६५अवरुह्य जगामाशु वेलावनमनुत्तमम्।रामो रमयतां श्रेष्ठः ससुग्रीवः सलक्ष्मणः॥ ६६अथ धौतोपलतलां तोयौघैः सहसोत्थितैः।वेलामासाद्य विपुलां रामो वचनमब्रवीत्॥ ६७एते वयमनुप्राप्ताः सुग्रीव वरुणालयम्।इहेदानीं विचिन्ता सा या न पूर्वं समुत्थिता॥ ६८अतः परमतीरोऽयं सागरः सरितां पति।न चायमनुपायेन शक्यस्तरितुमर्णवः॥ ६९तदिहैव निवेशोऽस्तु मन्त्रः प्रस्तूयतामिह।यथेदं वानरबलं परं पारमवाप्नुयात्॥ ७०इतीव स महाबाहुः सीताहरणकर्शितः।रामः सागरमासाद्य वासमाज्ञापयत्तदा॥ ७१संप्राप्तो मन्त्रकालो नः सागरस्येह लङ्घने।स्वां स्वां सेनां समुत्सृज्य मा च कश्चित्कुतो व्रजेत्।गच्छन्तु वानराः शूरा ज्ञेयं छन्नं भयं च नः॥ ७२रामस्य वचनं श्रुत्वा सुग्रीवः सहलक्ष्मणः।सेनां न्यवेशयत्तीरे सागरस्य द्रुमायुते॥ ७३विरराज समीपस्थं सागरस्य तु तद्बलम्।मधुपाण्डुजलः श्रीमान्द्वितीय इव सागरः॥ ७४वेलावनमुपागम्य ततस्ते हरिपुंगवाः।विनिविष्टाः परं पारं काङ्क्षमाणा महोदधेः॥ ७५सा महार्णवमासाद्य हृष्टा वानरवाहिनी।वायुवेगसमाधूतं पश्यमाना महार्णवम्॥ ७६दूरपारमसंबाधं रक्षोगणनिषेवितम्।पश्यन्तो वरुणावासं निषेदुर्हरियूथपाः॥ ७७चण्डनक्रग्रहं घोरं क्षपादौ दिवसक्षये।चन्द्रोदये समाधूतं प्रतिचन्द्रसमाकुलम्॥ ७८चण्डानिलमहाग्राहैः कीर्णं तिमितिमिंगिलैः।दीप्तभोगैरिवाक्रीर्णं भुजंगैर्वरुणालयम्॥ ७९अवगाढं महासत्तैर्नानाशैलसमाकुलम्।दुर्गं द्रुगममार्गं तमगाधमसुरालयम्॥ ८०मकरैर्नागभोगैश्च विगाढा वातलोहिताः।उत्पेतुश्च निपेतुश्च प्रवृद्धा जलराशयः॥ ८१अग्निचूर्णमिवाविद्धं भास्कराम्बुमनोरगम्।सुरारिविषयं घोरं पातालविषमं सदा॥ ८२सागरं चाम्बरप्रख्यमम्बरं सागरोपमम्।सागरं चाम्बरं चेति निर्विशेषमदृश्यत॥ ८३संपृक्तं नभसा ह्यम्भः संपृक्तं च नभोऽम्भसा।तादृग्रूपे स्म दृश्येते तारा रत्नसमाकुले॥ ८४समुत्पतितमेघस्य वीच्चि मालाकुलस्य च।विशेषो न द्वयोरासीत्सागरस्याम्बरस्य च॥ ८५अन्योन्यैराहताः सक्ताः सस्वनुर्भीमनिःस्वनाः।ऊर्मयः सिन्धुराजस्य महाभेर्य इवाहवे॥ ८६रत्नौघजलसंनादं विषक्तमिव वायुना।उत्पतन्तमिव क्रुद्धं यादोगणसमाकुलम्॥ ८७ददृशुस्ते महात्मानो वाताहतजलाशयम्।अनिलोद्धूतमाकाशे प्रवल्गतमिवोर्मिभिः।भ्रान्तोर्मिजलसंनादं प्रलोलमिव सागरम्॥ ८८इति श्रीरामायणे युद्धकाण्डे चतुर्थः सर्गः ॥ ४
वाल्मीकिरामायणम् Baroda Critical EditionCC0. No rights reserved