११ सर्गः
इत्युक्त्वा परुषं वाक्यं रावणं रावणानुजः।आजगाम मुहूर्तेन यत्र रामः सलक्ष्मणः॥ १तं मेरुशिखराकारं दीप्तामिव शतह्रदाम्।गगनस्थं महीस्थास्ते ददृशुर्वानराधिपाः॥ २तमात्मपञ्चमं दृष्ट्वा सुग्रीवो वानराधिपः।वानरैः सह दुर्धर्षश्चिन्तयामास बुद्धिमान्॥ ३चिन्तयित्वा मुहूर्तं तु वानरांस्तानुवाच ह।हनूमत्प्रमुखान्सर्वानिदं वचनमुत्तमम्॥ ४एष सर्वायुधोपेतश्चतुर्भिः सह राक्षसैः।राक्षसोऽभ्येति पश्यध्वमस्मान्हन्तुं न संशयः॥ ५सुग्रीवस्य वचः श्रुत्वा सर्वे ते वानरोत्तमाः।सालानुद्यम्य शैलांश्च इदं वचनमब्रुवन्॥ ६शीघ्रं व्यादिश नो राजन्वधायैषां दुरात्मनाम्।निपतन्तु हताश्चैते धरण्यामल्पजीविताः॥ ७तेषां संभाषमाणानामन्योन्यं स विभीषणः।उत्तरं तीरमासाद्य खस्थ एव व्यतिष्ठत॥ ८उवाच च महाप्राज्ञः स्वरेण महता महान्।सुग्रीवं तांश्च संप्रेक्ष्य खस्थ एव विभीषणः॥ ९रावणो नाम दुर्वृत्तो राक्षसो राक्षसेश्वरः।तस्याहमनुजो भ्राता विभीषण इति श्रुतः॥ १०तेन सीता जनस्थानाद्धृता हत्वा जटायुषम्।रुद्ध्वा च विवशा दीना राक्षसीभिः सुरक्षिता॥ ११तमहं हेतुभिर्वाक्यैर्विविधैश्च न्यदर्शयम्।साधु निर्यात्यतां सीता रामायेति पुनः पुनः॥ १२स च न प्रतिजग्राह रावणः कालचोदितः।उच्यमानो हितं वाक्यं विपरीत इवौषधम्॥ १३सोऽहं परुषितस्तेन दासवच्चावमानितः।त्यक्त्वा पुत्रांश्च दारांश्च राघवं शरणं गतः॥ १४सर्वलोकशरण्याय राघवाय महात्मने।निवेदयत मां क्षिप्रं विभीषणमुपस्थितम्॥ १५एतत्तु वचनं श्रुत्वा सुग्रीवो लघुविक्रमः।लक्ष्मणस्याग्रतो रामं संरब्धमिदमब्रवीत्॥ १६रावणस्यानुजो भ्राता विभीषण इति श्रुतः।चतुर्भिः सह रक्षोभिर्भवन्तं शरणं गतः॥ १७रावणेन प्रणिहितं तमवेहि विभीषणम्।तस्याहं निग्रहं मन्ये क्षमं क्षमवतां वर॥ १८राक्षसो जिह्मया बुद्ध्या संदिष्टोऽयमुपस्थितः।प्रहर्तुं मायया छन्नो विश्वस्ते त्वयि राघव॥ १९बध्यतामेष तीव्रेण दण्डेन सचिवैः सह।रावणस्य नृशंसस्य भ्राता ह्येष विभीषणः॥ २०एवमुक्त्वा तु तं रामं संरब्धो वाहिनीपतिः।वाक्यज्ञो वाक्यकुशलं ततो मौनमुपागमत्॥ २१सुग्रीवस्य तु तद्वाक्यं श्रुत्वा रामो महाबलः।समीपस्थानुवाचेदं हनूमत्प्रमुखान्हरीन्॥ २२यदुक्तं कपिराजेन रावणावरजं प्रति।वाक्यं हेतुमदत्यर्थं भवद्भिरपि तच्छ्रुतम्॥ २३सुहृदा ह्यर्थकृच्छेषु युक्तं बुद्धिमता सता।समर्थेनापि संदेष्टुं शाश्वतीं भूतिमिच्छता॥ २४इत्येवं परिपृष्टास्ते स्वं स्वं मतमतन्द्रिताः।सोपचारं तदा राममूचुर्हितचिकीर्षवः॥ २५अज्ञातं नास्ति ते किंचित्त्रिषु लोकेषु राघव।आत्मानं पूजयन्राम पृच्छस्यस्मान्सुहृत्तया॥ २६त्वं हि सत्यव्रतः शूरो धार्मिको दृढविक्रमः।परीक्ष्य कारा स्मृतिमान्निसृष्टात्मा सुहृत्सु च॥ २७तस्मादेकैकशस्तावद्ब्रुवन्तु सचिवास्तव।हेतुतो मतिसंपन्नाः समर्थाश्च पुनः पुनः॥ २८इत्युक्ते राघवायाथ मतिमानङ्गदोऽग्रतः।विभीषणपरीक्षार्थमुवाच वचनं हरिः॥ २९शत्रोः सकाशात्संप्राप्तः सर्वथा शङ्क्य एव हि।विश्वासयोग्यः सहसा न कर्तव्यो विभीषणः॥ ३०छादयित्वात्मभावं हि चरन्ति शठबुद्धयः।प्रहरन्ति च रन्ध्रेषु सोऽनर्थः सुमहान्भवेत्॥ ३१अर्थानर्थौ विनिश्चित्य व्यवसायं भजेत ह।गुणतः संग्रहं कुर्याद्दोषतस्तु विसर्जयेत्॥ ३२यदि दोषो महांस्तस्मिंस्त्यज्यतामविशङ्कितम्।गुणान्वापि बहूञ्ज्ञात्वा संग्रहः क्रियतां नृप॥ ३३शरभस्त्वथ निश्चित्य सार्थं वचनमब्रवीत्।क्षिप्रमस्मिन्नरव्याघ्र चारः प्रतिविधीयताम्॥ ३४प्रणिधाय हि चारेण यथावत्सूक्ष्मबुद्धिना।परीक्ष्य च ततः कार्यो यथान्यायं परिग्रहः॥ ३५जाम्बवांस्त्वथ संप्रेक्ष्य शास्त्रबुद्ध्या विचक्षणः।वाक्यं विज्ञापयामास गुणवद्दोषवर्जितम्॥ ३६बद्धवैराच्च पापाच्च राक्षसेन्द्राद्विभीषणः।अदेश काले संप्राप्तः सर्वथा शङ्क्यतामयम्॥ ३७ततो मैन्दस्तु संप्रेक्ष्य नयापनयकोविदः।वाक्यं वचनसंपन्नो बभाषे हेतुमत्तरम्॥ ३८वचनं नाम तस्यैष रावणस्य विभीषणः।पृच्छ्यतां मधुरेणायं शनैर्नरवरेश्वर॥ ३९भावमस्य तु विज्ञाय ततस्तत्त्वं करिष्यसि।यदि दृष्टो न दुष्टो वा बुद्धिपूर्वं नरर्षभ॥ ४०अथ संस्कारसंपन्नो हनूमान्सचिवोत्तमः।उवाच वचनं श्लक्ष्णमर्थवन्मधुरं लघु॥ ४१न भवन्तं मतिश्रेष्ठं समर्थं वदतां वरम्।अतिशाययितुं शक्तो बृहस्पतिरपि ब्रुवन्॥ ४२न वादान्नापि संघर्षान्नाधिक्यान्न च कामतः।वक्ष्यामि वचनं राजन्यथार्थं रामगौरवात्॥ ४३अर्थानर्थनिमित्तं हि यदुक्तं सचिवैस्तव।तत्र दोषं प्रपश्यामि क्रिया न ह्युपपद्यते॥ ४४ऋते नियोगात्सामर्थ्यमवबोद्धुं न शक्यते।सहसा विनियोगो हि दोषवान्प्रतिभाति मे॥ ४५चारप्रणिहितं युक्तं यदुक्तं सचिवैस्तव।अर्थस्यासंभवात्तत्र कारणं नोपपद्यते॥ ४६अदेश काले संप्राप्त इत्ययं यद्विभीषणः।विवक्षा चात्र मेऽस्तीयं तां निबोध यथा मति॥ ४७स एष देशः कालश्च भवतीह यथा तथा।पुरुषात्पुरुषं प्राप्य तथा दोषगुणावपि॥ ४८दौरात्म्यं रावणे दृष्ट्वा विक्रमं च तथा त्वयि।युक्तमागमनं तस्य सदृशं तस्य बुद्धितः॥ ४९अज्ञातरूपैः पुरुषैः स राजन्पृच्छ्यतामिति।यदुक्तमत्र मे प्रेक्षा काचिदस्ति समीक्षिता॥ ५०पृच्छ्यमानो विशङ्केत सहसा बुद्धिमान्वचः।तत्र मित्रं प्रदुष्येत मिथ्यपृष्टं सुखागतम्॥ ५१अशक्यः सहसा राजन्भावो वेत्तुं परस्य वै।अन्तः स्वभावैर्गीतैस्तैर्नैपुण्यं पश्यता भृशम्॥ ५२न त्वस्य ब्रुवतो जातु लक्ष्यते दुष्टभावता।प्रसन्नं वदनं चापि तस्मान्मे नास्ति संशयः॥ ५३अशङ्कितमतिः स्वस्थो न शठः परिसर्पति।न चास्य दुष्टा वाक्चापि तस्मान्नास्तीह संशयः॥ ५४आकारश्छाद्यमानोऽपि न शक्यो विनिगूहितुम्।बलाद्धि विवृणोत्येव भावमन्तर्गतं नृणाम्॥ ५५देशकालोपपन्नं च कार्यं कार्यविदां वर।सफलं कुरुते क्षिप्रं प्रयोगेणाभिसंहितम्॥ ५६उद्योगं तव संप्रेक्ष्य मिथ्यावृत्तं च रावणम्।वालिनश्च वधं श्रुत्वा सुग्रीवं चाभिषेचितम्॥ ५७राज्यं प्रार्थयमानश्च बुद्धिपूर्वमिहागतः।एतावत्तु पुरस्कृत्य युज्यते त्वस्य संग्रहः॥ ५८यथाशक्ति मयोक्तं तु राक्षसस्यार्जवं प्रति।त्वं प्रमाणं तु शेषस्य श्रुत्वा बुद्धिमतां वर॥ ५९इति श्रीरामायणे युद्धकाण्डे एकादशः सर्गः ॥ ११
वाल्मीकिरामायणम् Baroda Critical EditionCC0. No rights reserved