१७ सर्गः
तद्वचः पथ्यमक्लीबं सारणेनाभिभाषितम्।निशम्य रावणो राजा प्रत्यभाषत सारणम्॥ १यदि मामभियुञ्जीरन्देवगन्धर्वदानवाः।नैव सीतां प्रदास्यामि सर्वलोकभयादपि॥ २त्वं तु सौम्य परित्रस्तो हरिभिर्निर्जितो भृशम्।प्रतिप्रदानमद्यैव सीतायाः साधु मन्यसे।को हि नाम सपत्नो मां समरे जेतुमर्हति॥ ३इत्युक्त्वा परुषं वाक्यं रावणो राक्षसाधिपः।आरुरोह ततः श्रीमान्प्रासादं हिमपाण्डुरम्।बहुतालसमुत्सेधं रावणोऽथ दिदृक्षया॥ ४ताभ्यां चराभ्यां सहितो रावणः क्रोधमूर्छितः।पश्यमानः समुद्रं च पर्वतांश्च वनानि च।ददर्श पृथिवीदेशं सुसंपूर्णं प्लवंगमैः॥ ५तदपारमसंख्येयं वानराणां महद्बलम्।आलोक्य रावणो राजा परिपप्रच्छ सारणम्॥ ६एषां वानरमुख्यानां के शूराः के महाबलाः।के पूर्वमभिवर्तन्ते महोत्साहाः समन्ततः॥ ७केषां शृणोति सुग्रीवः के वा यूथपयूथपाः।सारणाचक्ष्व मे सर्वं के प्रधानाः प्लवंगमाः॥ ८सारणो राक्षसेन्द्रस्य वचनं परिपृच्छतः।आचचक्षेऽथ मुख्यज्ञो मुख्यांस्तांस्तु वनौकसः॥ ९एष योऽभिमुखो लङ्कां नर्दंस्तिष्ठति वानरः।यूथपानां सहस्राणां शतेन परिवारितः॥ १०यस्य घोषेण महता सप्राकारा सतोरणा।लङ्का प्रवेपते सर्वा सशैलवनकानना॥ ११सर्वशाखामृगेन्द्रस्य सुग्रीवस्य महात्मनः।बलाग्रे तिष्ठते वीरो नीलो नामैष यूथपः॥ १२बाहू प्रगृह्य यः पद्भ्यां महीं गच्छति वीर्यवान्।लङ्कामभिमुखः कोपादभीक्ष्णं च विजृम्भते॥ १३गिरिशृङ्गप्रतीकाशः पद्मकिञ्जल्कसंनिभः।स्फोटयत्यभिसंरब्धो लाङ्गूलं च पुनः पुनः॥ १४यस्य लाङ्गूलशब्देन स्वनन्तीव दिशो दश।एष वानरराजेन सुर्ग्रीवेणाभिषेचितः।यौवराज्येऽङ्गदो नाम त्वामाह्वयति संयुगे॥ १५ये तु विष्टभ्य गात्राणि क्ष्वेडयन्ति नदन्ति च।उत्थाय च विजृम्भन्ते क्रोधेन हरिपुंगवाः॥ १६एते दुष्प्रसहा घोराश्चण्डाश्चण्डपराक्रमाः।अष्टौ शतसहस्राणि दशकोटिशतानि च॥ १७य एनमनुगच्छन्ति वीराश्चन्दनवासिनः।एष आशंसते लङ्कां स्वेनानीकेन मर्दितुम्॥ १८श्वेतो रजतसंकाशः सबलो भीमविक्रमः।बुद्धिमान्वानरः शूरस्त्रिषु लोकेषु विश्रुतः॥ १९तूर्णं सुग्रीवमागम्य पुनर्गच्छति वानरः।विभजन्वानरीं सेनामनीकानि प्रहर्षयन्॥ २०यः पुरा गोमतीतीरे रम्यं पर्येति पर्वतम्।नाम्ना संकोचनो नाम नानानगयुतो गिरिः॥ २१तत्र राज्यं प्रशास्त्येष कुमुदो नाम यूथपः।योऽसौ शतसहस्राणां सहस्रं परिकर्षति॥ २२यस्य वाला बहुव्यामा दीर्घलाङ्गूलमाश्रिताः।ताम्राः पीताः सिताः श्वेताः प्रकीर्णा घोरकर्मणः॥ २३अदीनो रोषणश्चण्डः संग्राममभिकाङ्क्षति।एषैवाशंसते लङ्कां स्वेनानीकेन मर्दितुम्॥ २४यस्त्वेष सिंहसंकाशः कपिलो दीर्घकेसरः।निभृतः प्रेक्षते लङ्कां दिधक्षन्निव चक्षुषा॥ २५विन्ध्यं कृष्णगिरिं सह्यं पर्वतं च सुदर्शनम्।राजन्सततमध्यास्ते रम्भो नामैष यूथपः॥ २६शतं शतसहस्राणां त्रिंशच्च हरियूथपाः।परिवार्यानुगच्छन्ति लङ्कां मर्दितुमोजसा॥ २७यस्तु कर्णौ विवृणुते जृम्भते च पुनः पुनः।न च संविजते मृत्योर्न च यूथाद्विधावति॥ २८महाबलो वीतभयो रम्यं साल्वेय पर्वतम्।राजन्सततमध्यास्ते शरभो नाम यूथपः॥ २९एतस्य बलिनः सर्वे विहारा नाम यूथपाः।राजञ्शतसहस्राणि चत्वारिंशत्तथैव च॥ ३०यस्तु मेघ इवाकाशं महानावृत्य तिष्ठति।मध्ये वानरवीराणां सुराणामिव वासवः॥ ३१भेरीणामिव संनादो यस्यैष श्रूयते महान्।घोरः शाखामृगेन्द्राणां संग्राममभिकाङ्क्षताम्॥ ३२एष पर्वतमध्यास्ते पारियात्रमनुत्तमम्।युद्धे दुष्प्रसहो नित्यं पनसो नाम यूथपः॥ ३३एनं शतसहस्राणां शतार्धं पर्युपासते।यूथपा यूथपश्रेष्ठं येषां यूथानि भागशः॥ ३४यस्तु भीमां प्रवल्गन्तीं चमूं तिष्ठति शोभयन्।स्थितां तीरे समुद्रस्य द्वितीय इव सागरः॥ ३५एष दर्दरसंकाशो विनतो नाम यूथपः।पिबंश्चरति पर्णाशां नदीनामुत्तमां नदीम्॥ ३६षष्टिः शतसहस्राणि बलमस्य प्लवंगमाः।त्वामाह्वयति युद्धाय क्रथनो नाम यूथपः॥ ३७यस्तु गैरिकवर्णाभं वपुः पुष्यति वानरः।गवयो नाम तेजस्वी त्वां क्रोधादभिवर्तते॥ ३८एनं शतसहस्राणि सप्ततिः पर्युपासते।एष आशंसते लङ्कां स्वेनानीकेन मर्दितुम्॥ ३९एते दुष्प्रसहा घोरा बलिनः कामरूपिणः।यूथपा यूथपश्रेष्ठा येषां संख्या न विद्यते॥ ४०इति श्रीरामायणे युद्धकाण्डे सप्तदशः सर्गः ॥ १७
वाल्मीकिरामायणम् Baroda Critical EditionCC0. No rights reserved