१८ सर्गः
तांस्तु तेऽहं प्रवक्ष्यामि प्रेक्षमाणस्य यूथपान्।राघवार्थे पराक्रान्ता ये न रक्षन्ति जीवितम्॥ १स्निग्धा यस्य बहुश्यामा बाला लाङ्गूलमाश्रिताः।ताम्राः पीताः सिताः श्वेताः प्रकीर्णा घोरकर्मणः॥ २प्रगृहीताः प्रकाशन्ते सूर्यस्येव मरीचयः।पृथिव्यां चानुकृष्यन्ते हरो नामैष यूथपः॥ ३यं पृष्ठतोऽनुगच्छन्ति शतशोऽथ सहस्रशः।द्रुमानुद्यम्य सहिता लङ्कारोहणतत्पराः॥ ४एष कोटीसहस्रेण वानराणां महौजसाम्।आकाङ्क्षते त्वां संग्रामे जेतुं परपुरंजय॥ ५नीलानिव महामेघांस्तिष्ठतो यांस्तु पश्यसि।असिताञ्जनसंकाशान्युद्धे सत्यपराक्रमान्॥ ६नखदंष्ट्रायुधान्वीरांस्तीक्ष्णकोपान्भयावहान्।असंख्येयाननिर्देश्यान्परं पारमिवोदधेः॥ ७पर्वतेषु च ये केचिद्विषमेषु नदीषु च।एते त्वामभिवर्तन्ते राजन्नृष्काः सुदारुणाः॥ ८एषां मध्ये स्थितो राजन्भीमाक्षो भीमदर्शनः।पर्जन्य इव जीमूतैः समन्तात्परिवारितः॥ ९ऋक्षवन्तं गिरिश्रेष्ठमध्यास्ते नर्मदां पिबन्।सर्वर्क्षाणामधिपतिर्धूम्रो नामैष यूथपः॥ १०यवीयानस्य तु भ्राता पश्यैनं पर्वतोपमम्।भ्रात्रा समानो रूपेण विशिष्टस्तु पराक्रमे॥ ११स एष जाम्बवान्नाम महायूथपयूथपः।प्रशान्तो गुरुवर्ती च संप्रहारेष्वमर्षणः॥ १२एतेन साह्यं सुमहत्कृतं शक्रस्य धीमता।देवासुरे जाम्बवता लब्धाश्च बहवो वराः॥ १३आरुह्य पर्वताग्रेभ्यो महाभ्रविपुलाः शिलाः।मुञ्चन्ति विपुलाकारा न मृत्योरुद्विजन्ति च॥ १४राक्षसानां च सदृशाः पिशाचानां च रोमशाः।एतस्य सैन्ये बहवो विचरन्त्यग्नितेजसः॥ १५यं त्वेनमभिसंरब्धं प्लवमानमिव स्थितम्।प्रेक्षन्ते वानराः सर्वे स्थितं यूथपयूथपम्॥ १६एष राजन्सहस्राक्षं पर्युपास्ते हरीश्वरः।बलेन बलसंपन्नो रम्भो नामैष यूथपः॥ १७यः स्थितं योजने शैलं गच्छन्पार्श्वेन सेवते।ऊर्ध्वं तथैव कायेन गतः प्राप्नोति योजनम्॥ १८यस्मान्न परमं रूपं चतुष्पादेषु विद्यते।श्रुतः संनादनो नाम वानराणां पितामहः॥ १९येन युद्धं तदा दत्तं रणे शक्रस्य धीमता।पराजयश्च न प्राप्तः सोऽयं यूथपयूथपः।यस्य विक्रममाणस्य शक्रस्येव पराक्रमः॥ २०एष गन्धर्वकन्यायामुत्पन्नः कृष्णवर्त्मना।पुरा देवासुरे युद्धे साह्यार्थं त्रिदिवौकसाम्॥ २१यस्य वैश्रवणो राजा जम्बूमुपनिषेवते।यो राजा पर्वतेन्द्राणां बहुकिंनरसेविनाम्॥ २२विहारसुखदो नित्यं भ्रातुस्ते राक्षसाधिप।तत्रैष वसति श्रीमान्बलवान्वानरर्षभः।युद्धेष्वकत्थनो नित्यं क्रथनो नाम यूथपः॥ २३वृतः कोटिसहस्रेण हरीणां समुपस्थितः।एषैवाशंसते लङ्कां स्वेनानीकेन मर्दितुम्॥ २४यो गङ्गामनु पर्येति त्रासयन्हस्तियूथपान्।हस्तिनां वानराणां च पूर्ववैरमनुस्मरन्॥ २५एष यूथपतिर्नेता गच्छन्गिरिगुहाशयः।हरीणां वाहिनी मुख्यो नदीं हैमवतीमनु॥ २६उशीर बीजमाश्रित्य पर्वतं मन्दरोपमम्।रमते वानरश्रेष्ठो दिवि शक्र इव स्वयम्॥ २७एनं शतसहस्राणां सहस्रमभिवर्तते।एष दुर्मर्षणो राजन्प्रमाथी नाम यूथपः॥ २८वातेनेवोद्धतं मेघं यमेनमनुपश्यसि।विवर्तमानं बहुशो यत्रैतद्बहुलं रजः॥ २९एतेऽसितमुखा घोरा गोलाङ्गूला महाबलाः।शतं शतसहस्राणि दृष्ट्वा वै सेतुबन्धनम्॥ ३०गोलाङ्गूलं महावेगं गवाक्षं नाम यूथपम्।परिवार्याभिवर्तन्ते लङ्कां मर्दितुमोजसा॥ ३१भ्रमराचरिता यत्र सर्वकामफलद्रुमाः।यं सूर्यतुल्यवर्णाभमनुपर्येति पर्वतम्॥ ३२यस्य भासा सदा भान्ति तद्वर्णा मृगपक्षिणः।यस्य प्रस्थं महात्मानो न त्यजन्ति महर्षयः॥ ३३तत्रैष रमते राजन्रम्ये काञ्चनपर्वते।मुख्यो वानरमुख्यानां केसरी नाम यूथपः॥ ३४षष्टिर्गिरिसहस्राणां रम्याः काञ्चनपर्वताः।तेषां मध्ये गिरिवरस्त्वमिवानघ रक्षसाम्॥ ३५तत्रैते कपिलाः श्वेतास्ताम्रास्या मधुपिङ्गलाः।निवसन्त्युत्तमगिरौ तीक्ष्णदंष्ट्रानखायुधाः॥ ३६सिंह इव चतुर्दंष्ट्रा व्याघ्रा इव दुरासदाः।सर्वे वैश्वनरसमा ज्वलिताशीविषोपमाः॥ ३७सुदीर्घाञ्चितलाङ्गूला मत्तमातंगसंनिभाः।महापर्वतसंकाशा महाजीमूतनिस्वनाः॥ ३८एष चैषामधिपतिर्मध्ये तिष्ठति वीर्यवान्।नाम्ना पृथिव्यां विख्यातो राजञ्शतबलीति यः।एषैवाशंसते लङ्कां स्वेनानीकेन मर्दितुम्॥ ३९गजो गवाक्षो गवयो नलो नीलश्च वानरः।एकैक एव यूथानां कोटिभिर्दशभिर्वृतः॥ ४०तथान्ये वानरश्रेष्ठा विन्ध्यपर्वतवासिनः।न शक्यन्ते बहुत्वात्तु संख्यातुं लघुविक्रमाः॥ ४१सर्वे महाराज महाप्रभावाःसर्वे महाशैलनिकाशकायाः।सर्वे समर्थाः पृथिवीं क्षणेनकर्तुं प्रविध्वस्तविकीर्णशैलाम्॥ ४२इति श्रीरामायणे युद्धकाण्डे अष्टादशः सर्गः ॥ १८
वाल्मीकिरामायणम् Baroda Critical EditionCC0. No rights reserved