१९ सर्गः
सारणस्य वचः श्रुत्वा रावणं राक्षसाधिपम्।बलमालोकयन्सर्वं शुको वाक्यमथाब्रवीत्॥ १स्थितान्पश्यसि यानेतान्मत्तानिव महाद्विपान्।न्यग्रोधानिव गाङ्गेयान्सालान्हैमवतीनिव॥ २एते दुष्प्रसहा राजन्बलिनः कामरूपिणः।दैत्यदानवसंकाशा युद्धे देवपराक्रमाः॥ ३एषां कोटिसहस्राणि नव पञ्चच सप्त च।तथा शङ्खसहस्राणि तथा वृन्दशतानि च॥ ४एते सुग्रीवसचिवाः किष्किन्धानिलयाः सदा।हरयो देवगन्धर्वैरुत्पन्नाः कामरूपिणः॥ ५यौ तौ पश्यसि तिष्ठन्तौ कुमारौ देवरूपिणौ।मैन्दश्च द्विविदश्चोभौ ताभ्यां नास्ति समो युधि॥ ६ब्रह्मणा समनुज्ञातावमृतप्राशिनावुभौ।आशंसेते युधा लङ्कामेतौ मर्दितुमोजसा॥ ७यावेतावेतयोः पार्श्वे स्थितौ पर्वतसंनिभौ।सुमुखो विमुखश्चैव मृत्युपुत्रौ पितुः समौ॥ ८यं तु पश्यसि तिष्ठन्तं प्रभिन्नमिव कुञ्जरम्।यो बलात्क्षोभयेत्क्रुद्धः समुद्रमपि वानरः॥ ९एषोऽभिगन्ता लङ्काया वैदेह्यास्तव च प्रभो।एनं पश्य पुरा दृष्टं वानरं पुनरागतम्॥ १०ज्येष्ठः केसरिणः पुत्रो वातात्मज इति श्रुतः।हनूमानिति विख्यातो लङ्घितो येन सागरः॥ ११कामरूपी हरिश्रेष्ठो बलरूपसमन्वितः।अनिवार्यगतिश्चैव यथा सततगः प्रभुः॥ १२उद्यन्तं भास्करं दृष्ट्वा बालः किल पिपासितः।त्रियोजनसहस्रं तु अध्वानमवतीर्य हि॥ १३आदित्यमाहरिष्यामि न मे क्षुत्प्रतियास्यति।इति संचिन्त्य मनसा पुरैष बलदर्पितः॥ १४अनाधृष्यतमं देवमपि देवर्षिदानवैः।अनासाद्यैव पतितो भास्करोदयने गिरौ॥ १५पतितस्य कपेरस्य हनुरेका शिलातले।किंचिद्भिन्ना दृढहनोर्हनूमानेष तेन वै॥ १६सत्यमागमयोगेन ममैष विदितो हरिः।नास्य शक्यं बलं रूपं प्रभावो वानुभाषितुम्॥ १७एष आशंसते लङ्कामेको मर्दितुमोजसा।यश्चैषोऽनन्तरः शूरः श्यामः पद्मनिभेक्षणः॥ १८इक्ष्वाकूणामतिरथो लोके विख्यात पौरुषः।यस्मिन्न चलते धर्मो यो धर्मं नातिवर्तते॥ १९यो ब्राह्ममस्त्रं वेदांश्च वेद वेदविदां वरः।यो भिन्द्याद्गगनं बाणैः पर्वतांश्चापि दारयेत्॥ २०यस्य मृत्योरिव क्रोधः शक्रस्येव पराक्रमः।स एष रामस्त्वां योद्धुं राजन्समभिवर्तते॥ २१यश्चैष दक्षिणे पार्श्वे शुद्धजाम्बूनदप्रभः।विशालवक्षास्ताम्राक्षो नीलकुञ्चितमूर्धजः॥ २२एषोऽस्य लक्ष्मणो नाम भ्राता प्राणसमः प्रियः।नये युद्धे च कुशलः सर्वशास्त्रविशारदः॥ २३अमर्षी दुर्जयो जेता विक्रान्तो बुद्धिमान्बली।रामस्य दक्षिणो बाहुर्नित्यं प्राणो बहिश्चरः॥ २४न ह्येष राघवस्यार्थे जीवितं परिरक्षति।एषैवाशंसते युद्धे निहन्तुं सर्वराक्षसान्॥ २५यस्तु सव्यमसौ पक्षं रामस्याश्रित्य तिष्ठति।रक्षोगणपरिक्षिप्तो राजा ह्येष विभीषणः॥ २६श्रीमता राजराजेन लङ्कायामभिषेचितः।त्वामेव प्रतिसंरब्धो युद्धायैषोऽभिवर्तते॥ २७यं तु पश्यसि तिष्ठन्तं मध्ये गिरिमिवाचलम्।सर्वशाखामृगेन्द्राणां भर्तारमपराजितम्॥ २८तेजसा यशसा बुद्ध्या ज्ञानेनाभिजनेन च।यः कपीनति बभ्राज हिमवानिव पर्वतान्॥ २९किष्किन्धां यः समध्यास्ते गुहां सगहनद्रुमाम्।दुर्गां पर्वतदुर्गस्थां प्रधानैः सह यूथपैः॥ ३०यस्यैषा काञ्चनी माला शोभते शतपुष्करा।कान्ता देवमनुष्याणां यस्यां लक्ष्मीः प्रतिष्ठिता॥ ३१एतां च मालां तारां च कपिराज्यं च शाश्वतम्।सुग्रीवो वालिनं हत्वा रामेण प्रतिपादितः॥ ३२एवं कोटिसहस्रेण शङ्कूनां च शतेन च।सुग्रीवो वानरेन्द्रस्त्वां युद्धार्थमभिवर्तते॥ ३३इमां महाराजसमीक्ष्य वाहिनीमुपस्थितां प्रज्वलितग्रहोपमाम्।ततः प्रयत्नः परमो विधीयतांयथा जयः स्यान्न परैः पराजयः॥ ३४इति श्रीरामायणे युद्धकाण्डे नवदशः सर्गः ॥ १९
वाल्मीकिरामायणम् Baroda Critical EditionCC0. No rights reserved