॥ ॐ श्री गणपतये नमः ॥

२२ सर्गः
ततस्तमक्षोभ्यबलं लङ्कायां नृपतेश्चरः।सुवेले राघवं शैले निविष्टं प्रत्यवेदयन्॥ १चाराणां रावणः श्रुत्वा प्राप्तं रामं महाबलम्।जातोद्वेगोऽभवत्किंचित्सचिवांश्चेदमब्रवीत्॥ २मन्त्रिणः शीघ्रमायान्तु सर्वे वै सुसमाहिताः।अयं नो मन्त्रकालो हि संप्राप्त इव राक्षसाः॥ ३तस्य तच्छासनं श्रुत्वा मन्त्रिणोऽभ्यागमन्द्रुतम्।ततः संमन्त्रयामास सचिवै राक्षसैः सह॥ ४मन्त्रयित्वा स दुर्धर्षः क्षमं यत्समनन्तरम्।विसर्जयित्वा सचिवान्प्रविवेश स्वमालयम्॥ ५ततो राक्षसमाहूय विद्युज्जिह्वं महाबलम्।मायाविदं महामायः प्राविशद्यत्र मैथिली॥ ६विद्युज्जिह्वं च मायाज्ञमब्रवीद्राक्षसाधिपः।मोहयिष्यामहे सीतां मायया जनकात्मजाम्॥ ७शिरो मायामयं गृह्य राघवस्य निशाचर।मां त्वं समुपतिष्ठस्व महच्च सशरं धनुः॥ ८एवमुक्तस्तथेत्याह विद्युज्जिह्वो निशाचरः।तस्य तुष्टोऽभवद्राजा प्रददौ च विभूषणम्॥ ९अशोकवनिकायां तु प्रविवेश महाबलः।ततो दीनामदैन्यार्हां ददर्श धनदानुजः।अधोमुखीं शोकपरामुपविष्टां महीतले॥ १०भर्तारमेव ध्यायन्तीमशोकवनिकां गताम्।उपास्यमानां घोराभी राक्षसीभिरदूरतः॥ ११उपसृत्य ततः सीतां प्रहर्षन्नाम कीर्तयन्।इदं च वचनं धृष्टमुवाच जनकात्मजाम्॥ १२सान्त्व्यमाना मया भद्रे यमुपाश्रित्य वल्गसे।खर हन्ता स ते भर्ता राघवः समरे हतः॥ १३छिन्नं ते सर्वतो मूलं दर्पस्ते निहतो मया।व्यसनेनात्मनः सीते मम भार्या भविष्यसि॥ १४अल्पपुण्ये निवृत्तार्थे मूढे पण्डितमानिनि।शृणु भर्तृबधं सीते घोरं वृत्रवधं यथा॥ १५समायातः समुद्रान्तं मां हन्तुं किल राघवः।वानरेन्द्रप्रणीतेन बलेन महता वृतः॥ १६संनिविष्टः समुद्रस्य तीरमासाद्य दक्षिणम्।बलेन महता रामो व्रजत्यस्तं दिवाकरे॥ १७अथाध्वनि परिश्रान्तमर्धरात्रे स्थितं बलम्।सुखसुप्तं समासाद्य चारितं प्रथमं चरैः॥ १८तत्प्रहस्तप्रणीतेन बलेन महता मम।बलमस्य हतं रात्रौ यत्र रामः सुलक्ष्मणः॥ १९पट्टसान्परिघान्खड्गांश्चक्रान्दण्डान्महायसान्।बाणजालानि शूलानि भास्वरान्कूटमुद्गरान्॥ २०यष्टीश्च तोमरान्प्रासंश्चक्राणि मुसलानि च।उद्यम्योद्यम्य रक्षोभिर्वानरेषु निपातिताः॥ २१अथ सुप्तस्य रामस्य प्रहस्तेन प्रमाथिना।असक्तं कृतहस्तेन शिरश्छिन्नं महासिना॥ २२विभीषणः समुत्पत्य निगृहीतो यदृच्छया।दिशः प्रव्राजितः सर्वैर्लक्ष्मणः प्लवगैः सह॥ २३सुग्रीवो ग्रीवया शेते भग्नया प्लवगाधिपः।निरस्तहनुकः शेते हनूमान्राक्षसैर्हतः॥ २४जाम्बवानथ जानुभ्यामुत्पतन्निहतो युधि।पट्टसैर्बहुभिश्छिन्नो निकृत्तः पादपो यथा॥ २५मैन्दश्च द्विविदश्चोभौ निहतौ वानरर्षभौ।निःश्वसन्तौ रुदन्तौ च रुधिरेण समुक्षितौ॥ २६असिनाभ्याहतश्छिन्नो मध्ये रिपुनिषूदनः।अभिष्टनति मेदिन्यां पनसः पनसो यथा॥ २७नाराचैर्बहुभिश्छिन्नः शेते दर्यां दरीमुखः।कुमुदस्तु महातेजा निष्कूजन्सायकैर्हतः॥ २८अङ्गदो बहुभिश्छिन्नः शरैरासाद्य राक्षसैः।पातितो रुधिरोद्गारी क्षितौ निपतितोऽङ्गदः॥ २९हरयो मथिता नागै रथजालैस्तथापरे।शायिता मृदितास्तत्र वायुवेगैरिवाम्बुदाः॥ ३०प्रद्रुताश्च परे त्रस्ता हन्यमाना जघन्यतः।अभिद्रुतास्तु रक्षोभिः सिंहैरिव महाद्विपाः॥ ३१सागरे पतिताः केचित्केचिद्गगनमाश्रिताः।ऋक्षा वृक्षानुपारूढा वानरैस्तु विमिश्रिताः॥ ३२सागरस्य च तीरेषु शैलेषु च वनेषु च।पिङ्गाक्षास्ते विरूपाक्षैर्बहुभिर्बहवो हताः॥ ३३एवं तव हतो भर्ता ससैन्यो मम सेनया।क्षतजार्द्रं रजोध्वस्तमिदं चास्याहृतं शिरः॥ ३४ततः परमदुर्धर्षो रावणो राक्षसेश्वरः।सीतायामुपशृण्वन्त्यां राक्षसीमिदमब्रवीत्॥ ३५राक्षसं क्रूरकर्माणं विद्युज्जिह्वं त्वमानय।येन तद्राघवशिरः संग्रामात्स्वयमाहृतम्॥ ३६विद्युज्जिह्वस्ततो गृह्य शिरस्तत्सशरासनम्।प्रणामं शिरसा कृत्वा रावणस्याग्रतः स्थितः॥ ३७तमब्रवीत्ततो राजा रावणो राक्षसं स्थितम्।विद्युज्जिह्वं महाजिह्वं समीपपरिवर्तिनम्॥ ३८अग्रतः कुरु सीतायाः शीघ्रं दाशरथेः शिरः।अवस्थां पश्चिमां भर्तुः कृपणा साधु पश्यतु॥ ३९एवमुक्तं तु तद्रक्षः शिरस्तत्प्रियदर्शनम्।उपनिक्षिप्य सीतायाः क्षिप्रमन्तरधीयत॥ ४०रावणश्चापि चिक्षेप भास्वरं कार्मुकं महत्।त्रिषु लोकेषु विख्यातं सीतामिदमुवाच ह॥ ४१इदं तत्तव रामस्य कार्मुकं ज्यासमन्वितम्।इह प्रहस्तेनानीतं हत्वा तं निशि मानुषम्॥ ४२स विद्युज्जिह्वेन सहैव तच्छिरोधनुश्च भूमौ विनिकीर्य रावणः।विदेहराजस्य सुतां यशस्विनींततोऽब्रवीत्तां भव मे वशानुगा॥ ४३इति श्रीरामायणे युद्धकाण्डे द्वाविंशतितमः सर्गः ॥ २२
वाल्मीकिरामायणम् Baroda Critical EditionCC0. No rights reserved