२३ सर्गः
सा सीता तच्छिरो दृष्ट्वा तच्च कार्मुकमुत्तमम्।सुग्रीवप्रतिसंसर्गमाख्यातं च हनूमता॥ १नयने मुखवर्णं च भर्तुस्तत्सदृशं मुखम्।केशान्केशान्तदेशं च तं च चूडामणिं शुभम्॥ २एतैः सर्वैरभिज्ञानैरभिज्ञाय सुदुःखिता।विजगर्हेऽथ कैकेयीं क्रोशन्ती कुररी यथा॥ ३सकामा भव कैकेयि हतोऽयं कुलनन्दनः।कुलमुत्सादितं सर्वं त्वया कलहशीलया॥ ४आर्येण किं नु कैकेय्याः कृतं रामेण विप्रियम्।यद्गृहाच्चीरवसनस्तया प्रस्थापितो वनम्॥ ५एवमुक्त्वा तु वैदेही वेपमाना तपस्विनी।जगाम जगतीं बाला छिन्ना तु कदली यथा॥ ६सा मुहूर्तात्समाश्वस्य प्रतिलभ्य च चेतनाम्।तच्छिरः समुपाघ्राय विललापायतेक्षणा॥ ७हा हतास्मि महाबाहो वीरव्रतमनुव्रता।इमां ते पश्चिमावस्थां गतास्मि विधवा कृता॥ ८प्रथमं मरणं नार्या भर्तुर्वैगुण्यमुच्यते।सुवृत्तः साधुवृत्तायाः संवृत्तस्त्वं ममाग्रतः॥ ९दुःखाद्दुःखं प्रपन्नाया मग्नायाः शोकसागरे।यो हि मामुद्यतस्त्रातुं सोऽपि त्वं विनिपातितः॥ १०सा श्वश्रूर्मम कौसल्या त्वया पुत्रेण राघव।वत्सेनेव यथा धेनुर्विवत्सा वत्सला कृता॥ ११आदिष्टं दीर्घमायुस्ते यैरचिन्त्यपराक्रम।अनृतं वचनं तेषामल्पायुरसि राघव॥ १२अथ वा नश्यति प्रज्ञा प्राज्ञस्यापि सतस्तव।पचत्येनं तथा कालो भूतानां प्रभवो ह्ययम्॥ १३अदृष्टं मृत्युमापन्नः कस्मात्त्वं नयशास्त्रवित्।व्यसनानामुपायज्ञः कुशलो ह्यसि वर्जने॥ १४तथा त्वं संपरिष्वज्य रौद्रयातिनृशंसया।कालरात्र्या मयाच्छिद्य हृतः कमललोचनः॥ १५उपशेषे महाबाहो मां विहाय तपस्विनीम्।प्रियामिव शुभां नारीं पृथिवीं पुरुषर्षभ॥ १६अर्चितं सततं यत्नाद्गन्धमाल्यैर्मया तव।इदं ते मत्प्रियं वीर धनुः काञ्चनभूषितम्॥ १७पित्रा दशरथेन त्वं श्वशुरेण ममानघ।पूर्वैश्च पितृभिः सार्धं नूनं स्वर्गे समागतः॥ १८दिवि नक्षत्रभूतस्त्वं महत्कर्म कृतं प्रियम्।पुण्यं राजर्षिवंशं त्वमात्मनः समुपेक्षसे॥ १९किं मान्न प्रेक्षसे राजन्किं मां न प्रतिभाषसे।बालां बालेन संप्राप्तां भार्यां मां सहचारिणीम्॥ २०संश्रुतं गृह्णता पाणिं चरिष्यामीति यत्त्वया।स्मर तन्मम काकुत्स्थ नय मामपि दुःखिताम्॥ २१कस्मान्मामपहाय त्वं गतो गतिमतां वर।अस्माल्लोकादमुं लोकं त्यक्त्वा मामिह दुःखिताम्॥ २२कल्याणैरुचितं यत्तत्परिष्वक्तं मयैव तु।क्रव्यादैस्तच्छरीरं ते नूनं विपरिकृष्यते॥ २३अग्निष्टोमादिभिर्यज्ञैरिष्टवानाप्तदक्षिणैः।अग्निहोत्रेण संस्कारं केन त्वं तु न लप्स्यसे॥ २४प्रव्रज्यामुपपन्नानां त्रयाणामेकमागतम्।परिप्रक्ष्यति कौसल्या लक्ष्मणं शोकलालसा॥ २५स तस्याः परिपृच्छन्त्या वधं मित्रबलस्य ते।तव चाख्यास्यते नूनं निशायां राक्षसैर्वधम्॥ २६सा त्वां सुप्तं हतं श्रुत्वा मां च रक्षोगृहं गताम्।हृदयेन विदीर्णेन न भविष्यति राघव॥ २७साधु पातय मां क्षिप्रं रामस्योपरि रावणः।समानय पतिं पत्न्या कुरु कल्याणमुत्तमम्॥ २८शिरसा मे शिरश्चास्य कायं कायेन योजय।रावणानुगमिष्यामि गतिं भर्तुर्महात्मनः।मुहूर्तमपि नेच्छामि जीवितुं पापजीविना॥ २९श्रुतं मया वेदविदां ब्राह्मणानां पितुर्गृहे।यासां स्त्रीणां प्रियो भर्ता तासां लोका महोदयाः॥ ३०क्षमा यस्मिन्दमस्त्यागः सत्यं धर्मः कृतज्ञता।अहिंसा चैव भूतानां तमृते का गतिर्मम॥ ३१इति सा दुःखसंतप्ता विललापायतेक्षणा।भर्तुः शिरो धनुस्तत्र समीक्ष्य जनकात्मजा॥ ३२एवं लालप्यमानायां सीतायां तत्र राक्षसः।अभिचक्राम भर्तारमनीकस्थः कृताञ्जलिः॥ ३३विजयस्वार्यपुत्रेति सोऽभिवाद्य प्रसाद्य च।न्यवेदयदनुप्राप्तं प्रहस्तं वाहिनीपतिम्॥ ३४अमात्यैः सहितः सर्वैः प्रहस्तः समुपस्थितः।किंचिदात्ययिकं कार्यं तेषां त्वं दर्शनं कुरु॥ ३५एतच्छ्रुत्वा दशग्रीवो राक्षसप्रतिवेदितम्।अशोकवनिकां त्यक्त्वा मन्त्रिणां दर्शनं ययौ॥ ३६स तु सर्वं समर्थ्यैव मन्त्रिभिः कृत्यमात्मनः।सभां प्रविश्य विदधे विदित्वा रामविक्रमम्॥ ३७अन्तर्धानं तु तच्छीर्षं तच्च कार्मुकमुत्तमम्।जगाम रावणस्यैव निर्याणसमनन्तरम्॥ ३८राक्षसेन्द्रस्तु तैः सार्धं मन्त्रिभिर्भीमविक्रमैः।समर्थयामास तदा रामकार्यविनिश्चयम्॥ ३९अविदूरस्थितान्सर्वान्बलाध्यक्षान्हितैषिणः।अब्रवीत्कालसदृशो रावणो राक्षसाधिपः॥ ४०शीघ्रं भेरीनिनादेन स्फुटकोणाहतेन मे।समानयध्वं सैन्यानि वक्तव्यं च न कारणम्॥ ४१ततस्तथेति प्रतिगृह्य तद्वचोबलाधिपास्ते महदात्मनो बलम्।समानयंश्चैव समागतं च तेन्यवेदयन्भर्तरि युद्धकाङ्क्षिणि॥ ४२इति श्रीरामायणे युद्धकाण्डे त्रयोविंशतितमः सर्गः ॥ २३
वाल्मीकिरामायणम् Baroda Critical EditionCC0. No rights reserved