॥ ॐ श्री गणपतये नमः ॥

२४ सर्गः
सीतां तु मोहितां दृष्ट्वा सरमा नाम राक्षसी।आससादाशु वैदेहीं प्रियां प्रणयिनी सखी॥ १सा हि तत्र कृता मित्रं सीतया रक्ष्यमाणया।रक्षन्ती रावणादिष्टा सानुक्रोशा दृढव्रता॥ २सा ददर्श सखीं सीतां सरमा नष्टचेतनाम्।उपावृत्योत्थितां ध्वस्तां वडवामिव पांसुषु॥ ३तां समाश्वासयामास सखी स्नेहेन सुव्रता।उक्ता यद्रावणेन त्वं प्रत्युक्तं च स्वयं त्वया॥ ४सखीस्नेहेन तद्भीरु मया सर्वं प्रतिश्रुतम्।लीनया गनहे शूह्ये भयमुत्सृज्य रावणात्।तव हेतोर्विशालाक्षि न हि मे जीवितं प्रियम्॥ ५स संभ्रान्तश्च निष्क्रान्तो यत्कृते राक्षसाधिपः।तच्च मे विदितं सर्वमभिनिष्क्रम्य मैथिलि॥ ६न शक्यं सौप्तिकं कर्तुं रामस्य विदितात्मनः।वधश्च पुरुषव्याघ्रे तस्मिन्नेवोपपद्यते॥ ७न चैव वानरा हन्तुं शक्याः पादपयोधिनः।सुरा देवर्षभेणेव रामेण हि सुरक्षिताः॥ ८दीर्घवृत्तभुजः श्रीमान्महोरस्कः प्रतापवान्।धन्वी संहननोपेतो धर्मात्मा भुवि विश्रुतः॥ ९विक्रान्तो रक्षिता नित्यमात्मनश्च परस्य च।लक्ष्मणेन सह भ्रात्रा कुशली नयशास्त्रवित्॥ १०हन्ता परबलौघानामचिन्त्यबलपौरुषः।न हतो राघवः श्रीमान्सीते शत्रुनिबर्हणः॥ ११अयुक्तबुद्धिकृत्येन सर्वभूतविरोधिना।इयं प्रयुक्ता रौद्रेण माया मायाविदा त्वयि॥ १२शोकस्ते विगतः सर्वः कल्याणं त्वामुपस्थितम्।ध्रुवं त्वां भजते लक्ष्मीः प्रियं प्रीतिकरं शृणु॥ १३उत्तीर्य सागरं रामः सह वानरसेनया।संनिविष्टः समुद्रस्य तीरमासाद्य दक्षिणम्॥ १४दृष्टो मे परिपूर्णार्थः काकुत्स्थः सहलक्ष्मणः।सहितैः सागरान्तस्थैर्बलैस्तिष्ठति रक्षितः॥ १५अनेन प्रेषिता ये च राक्षसा लघुविक्रमः।राघवस्तीर्ण इत्येवं प्रवृत्तिस्तैरिहाहृता॥ १६स तां श्रुत्वा विशालाक्षि प्रवृत्तिं राक्षसाधिपः।एष मन्त्रयते सर्वैः सचिवैः सह रावणः॥ १७इति ब्रुवाणा सरमा राक्षसी सीतया सह।सर्वोद्योगेन सैन्यानां शब्दं शुश्राव भैरवम्॥ १८दण्डनिर्घातवादिन्याः श्रुत्वा भेर्या महास्वनम्।उवाच सरमा सीतामिदं मधुरभाषिणी॥ १९संनाहजननी ह्येषा भैरवा भीरु भेरिका।भेरीनादं च गम्भीरं शृणु तोयदनिस्वनम्॥ २०कल्प्यन्ते मत्तमातंगा युज्यन्ते रथवाजिनः।तत्र तत्र च संनद्धाः संपतन्ति पदातयः॥ २१आपूर्यन्ते राजमार्गाः सैन्यैरद्भुतदर्शनैः।वेगवद्भिर्नदद्भिश्च तोयौघैरिव सागरः॥ २२शास्त्राणां च प्रसन्नानां चर्मणां वर्मणां तथा।रथवाजिगजानां च भूषितानां च रक्षसाम्॥ २३प्रभां विसृजतां पश्य नानावर्णां समुत्थिताम्।वनं निर्दहतो धर्मे यथारूपं विभावसोः॥ २४घण्टानां शृणु निर्घोषं रथानां शृणु निस्वनम्।हयानां हेषमाणानां शृणु तूर्यध्वनिं यथा॥ २५उद्यतायुधहस्तानां राक्षसेन्द्रानुयायिनाम्।संभ्रमो रक्षसामेष तुमुलो लोमहर्षणः॥ २६श्रीस्त्वां भजति शोकघ्नी रक्षसां भयमागतम्।रामात्कमलपत्राक्षि दैत्यानामिव वासवात्॥ २७अवजित्य जितक्रोधस्तमचिन्त्यपराक्रमः।रावणं समरे हत्वा भर्ता त्वाधिगमिष्यति॥ २८विक्रमिष्यति रक्षःसु भर्ता ते सहलक्ष्मणः।यथा शत्रुषु शत्रुघ्नो विष्णुना सह वासवः॥ २९आगतस्य हि रामस्य क्षिप्रमङ्कगतां सतीम्।अहं द्रक्ष्यामि सिद्धार्थां त्वां शत्रौ विनिपातिते॥ ३०अश्रूण्यानन्दजानि त्वं वर्तयिष्यसि शोभने।समागम्य परिष्वक्ता तस्योरसि महोरसः॥ ३१अचिरान्मोक्ष्यते सीते देवि ते जघनं गताम्।धृतामेतां बहून्मासान्वेणीं रामो महाबलः॥ ३२तस्य दृष्ट्वा मुखं देवि पूर्णचन्द्रमिवोदितम्।मोक्ष्यसे शोकजं वारि निर्मोकमिव पन्नगी॥ ३३रावणं समरे हत्वा नचिरादेव मैथिलि।त्वया समग्रं प्रियया सुखार्हो लप्स्यते सुखम्॥ ३४समागता त्वं रामेण मोदिष्यसि महात्मना।सुवर्षेण समायुक्ता यथा सस्येन मेदिनी॥ ३५गिरिवरमभितोऽनुवर्तमानोहय इव मण्डलमाशु यः करोति।तमिह शरणमभ्युपेहि देविदिवसकरं प्रभवो ह्ययं प्रजानाम्॥ ३६इति श्रीरामायणे युद्धकाण्डे चतुर्विंशतितमः सर्गः ॥ २४
वाल्मीकिरामायणम् Baroda Critical EditionCC0. No rights reserved