३३ सर्गः
युध्यतां तु ततस्तेषां वानराणां महात्मनाम्।रक्षसां संबभूवाथ बलकोपः सुदारुणः॥ १ते हयैः काञ्चनापीडैर्ध्वजैश्चाग्निशिखोपमैः।रथैश्चादित्यसंकाशैः कवचैश्च मनोरमैः॥ २निर्ययू राक्षसव्याघ्रा नादयन्तो दिशो दश।राक्षसा भीमकर्माणो रावणस्य जयैषिणः॥ ३वानराणामपि चमूर्महती जयमिच्चताम्।अभ्यधावत तां सेनां रक्षसां कामरूपिणाम्॥ ४एतस्मिन्नन्तरे तेषामन्योन्यमभिधावताम्।रक्षसां वानराणां च द्वन्द्वयुद्धमवर्तत॥ ५अङ्गदेनेन्द्रजित्सार्धं वालिपुत्रेण राक्षसः।अयुध्यत महातेजास्त्र्यम्बकेण यथान्धकः॥ ६प्रजङ्घेन च संपातिर्नित्यं दुर्मर्षणो रणे।जम्बूमालिनमारब्धो हनूमानपि वानरः॥ ७संगतः सुमहाक्रोधो राक्षसो रावणानुजः।समरे तीक्ष्णवेगेन मित्रघ्नेन विभीषणः॥ ८तपनेन गजः सार्धं राक्षसेन महाबलः।निकुम्भेन महातेजा नीलोऽपि समयुध्यत॥ ९वानरेन्द्रस्तु सुग्रीवः प्रघसेन समागतः।संगतः समरे श्रीमान्विरूपाक्षेण लक्ष्मणः॥ १०अग्निकेतुश्च दुर्धर्षो रश्मिकेतुश्च राक्षसः।सुप्तघ्नो यज्ञकोपश्च रामेण सह संगताः॥ ११वज्रमुष्टिस्तु मैन्देन द्विविदेनाशनिप्रभः।राक्षसाभ्यां सुघोराभ्यां कपिमुख्यौ समागतौ॥ १२वीरः प्रतपनो घोरो राक्षसो रणदुर्धरः।समरे तीक्ष्णवेगेन नलेन समयुध्यत॥ १३धर्मस्य पुत्रो बलवान्सुषेण इति विश्रुतः।स विद्युन्मालिना सार्धमयुध्यत महाकपिः॥ १४वानराश्चापरे भीमा राक्षसैरपरैः सह।द्वन्द्वं समीयुर्बहुधा युद्धाय बहुभिः सह॥ १५तत्रासीत्सुमहद्युद्धं तुमुलं लोमहर्षणम्।रक्षसां वानराणां च वीराणां जयमिच्छताम्॥ १६हरिराक्षसदेहेभ्यः प्रसृताः केशशाड्वलाः।शरीरसंघाटवहाः प्रसुस्रुः शोणितापगाः॥ १७आजघानेन्द्रजित्क्रुद्धो वज्रेणेव शतक्रतुः।अङ्गदं गदया वीरं शत्रुसैन्यविदारणम्॥ १८तस्य काञ्चनचित्राङ्गं रथं साश्वं ससारथिम्।जघान समरे श्रीमानङ्गदो वेगवान्कपिः॥ १९संपातिस्तु त्रिभिर्बाणैः प्रजङ्घेन समाहतः।निजघानाश्वकर्णेन प्रजङ्घं रणमूर्धनि॥ २०जम्बूमाली रथस्थस्तु रथशक्त्या महाबलः।बिभेद समरे क्रुद्धो हनूमन्तं स्तनान्तरे॥ २१तस्य तं रथमास्थाय हनूमान्मारुतात्मजः।प्रममाथ तलेनाशु सह तेनैव रक्षसा॥ २२भिन्नगात्रः शरैस्तीक्ष्णैः क्षिप्रहस्तेन रक्षसा।प्रजघानाद्रिशृङ्गेण तपनं मुष्टिना गजः॥ २३ग्रसन्तमिव सैन्यानि प्रघसं वानराधिपः।सुग्रीवः सप्तपर्णेन निर्बिभेद जघान च॥ २४प्रपीड्य शरवर्षेण राक्षसं भीमदर्शनम्।निजघान विरूपाक्षं शरेणैकेन लक्ष्मणः॥ २५अग्निकेतुश्च दुर्धर्षो रश्मिकेतुश्च राक्षसः।सुप्तिघ्नो यज्ञकोपश्च रामं निर्बिभिदुः शरैः॥ २६तेषां चतुर्णां रामस्तु शिरांसि समरे शरैः।क्रुद्धश्चतुर्भिश्चिच्छेद घोरैरग्निशिखोपमैः॥ २७वज्रमुष्टिस्तु मैन्देन मुष्टिना निहतो रणे।पपात सरथः साश्वः पुराट्ट इव भूतले॥ २८वज्राशनिसमस्पर्शो द्विविदोऽप्यशनिप्रभम्।जघान गिरिशृङ्गेण मिषतां सर्वरक्षसाम्॥ २९द्विविदं वानरेन्द्रं तु द्रुमयोधिनमाहवे।शरैरशनिसंकाशैः स विव्याधाशनिप्रभः॥ ३०स शरैरतिविद्धाङ्गो द्विविदः क्रोधमूर्छितः।सालेन सरथं साश्वं निजघानाशनिप्रभम्॥ ३१निकुम्भस्तु रणे नीलं नीलाञ्जनचयप्रभम्।निर्बिभेद शरैस्तीक्ष्णैः करैर्मेघमिवांशुमान्॥ ३२पुनः शरशतेनाथ क्षिप्रहस्तो निशाचरः।बिभेद समरे नीलं निकुम्भः प्रजहास च॥ ३३तस्यैव रथचक्रेण नीलो विष्णुरिवाहवे।शिरश्चिच्छेद समरे निकुम्भस्य च सारथेः॥ ३४विद्युन्माली रथस्थस्तु शरैः काञ्चनभूषणैः।सुषेणं ताडयामास ननाद च मुहुर्मुहुः॥ ३५तं रथस्थमथो दृष्ट्वा सुषेणो वानरोत्तमः।गिरिशृङ्गेण महता रथमाशु न्यपातयत्॥ ३६लाघवेन तु संयुक्तो विद्युन्माली निशाचरः।अपक्रम्य रथात्तूर्णं गदापाणिः क्षितौ स्थितः॥ ३७ततः क्रोधसमाविष्टः सुषेणो हरिपुंगवः।शिलां सुमहतीं गृह्य निशाचरमभिद्रवत्॥ ३८तमापतन्तं गदया विद्युन्माली निशाचरः।वक्षस्यभिजग्नानाशु सुषेणं हरिसत्तमम्॥ ३९गदाप्रहारं तं घोरमचिन्त्यप्लवगोत्तमः।तां शिलां पातयामास तस्योरसि महामृधे॥ ४०शिलाप्रहाराभिहतो विद्युन्माली निशाचरः।निष्पिष्टहृदयो भूमौ गतासुर्निपपात ह॥ ४१एवं तैर्वानरैः शूरैः शूरास्ते रजनीचराः।द्वन्द्वे विमृदितास्तत्र दैत्या इव दिवौकसैः॥ ४२भल्लैः खड्गैर्गदाभिश्च शक्तितोमर पट्टसैः।अपविद्धश्च भिन्नश्च रथैः सांग्रामिकैर्हयैः॥ ४३निहतैः कुञ्जरैर्मत्तैस्तथा वानरराक्षसैः।चक्राक्षयुगदण्डैश्च भग्नैर्धरणिसंश्रितैः।बभूवायोधनं घोरं गोमायुगणसेवितम्॥ ४४कबन्धानि समुत्पेतुर्दिक्षु वानररक्षसाम्।विमर्दे तुमुले तस्मिन्देवासुररणोपमे॥ ४५विदार्यमाणा हरिपुंगवैस्तदानिशाचराः शोणितदिग्धगात्राः।पुनः सुयुद्धं तरसा समाश्रितादिवाकरस्यास्तमयाभिकाङ्क्षिणः॥ ४६इति श्रीरामायणे युद्धकाण्डे त्रयस्त्रिंशः सर्गः ॥ ३३
वाल्मीकिरामायणम् Baroda Critical EditionCC0. No rights reserved