॥ ॐ श्री गणपतये नमः ॥

३६ सर्गः
ततो द्यां पृथिवीं चैव वीक्षमाणा वनौकसः।ददृशुः संततौ बाणैर्भ्रातरौ रामलक्ष्मणौ॥ १वृष्ट्वेवोपरते देवे कृतकर्मणि राक्षसे।आजगामाथ तं देशं ससुग्रीवो विभीषणः॥ २नीलद्विविदमैन्दाश्च सुषेणसुमुखाङ्गदाः।तूर्णं हनुमता सार्धमन्वशोचन्त राघवौ॥ ३निश्चेष्टौ मन्दनिःश्वासौ शोणितौघपरिप्लुतौ।शरजालाचितौ स्तब्धौ शयानौ शरतल्पयोः॥ ४निःश्वसन्तौ यथा सर्पौ निश्चेष्टौ मन्दविक्रमौ।रुधिरस्रावदिग्धाङ्गौ तापनीयाविव ध्वजौ॥ ५तौ वीरशयने वीरौ शयानौ मन्दचेष्टितौ।यूथपैस्तैः परिवृतौ बाष्पव्याकुललोचनैः॥ ६राघवौ पतितौ दृष्ट्वा शरजालसमावृतौ।बभूवुर्व्यथिताः सर्वे वानराः सविभीषणाः॥ ७अन्तरिक्षं निरीक्षन्तो दिशः सर्वाश्च वानराः।न चैनं मायया छन्नं ददृशू रावणिं रणे॥ ८तं तु मायाप्रतिच्छिन्नं माययैव विभीषणः।वीक्षमाणो ददर्शाथ भ्रातुः पुत्रमवस्थितम्॥ ९तमप्रतिम कर्माणमप्रतिद्वन्द्वमाहवे।ददर्शान्तर्हितं वीरं वरदानाद्विभीषणः॥ १०इन्द्रजित्त्वात्मनः कर्म तौ शयानौ समीक्ष्य च।उवाच परमप्रीतो हर्षयन्सर्वनैरृतान्॥ ११दूषणस्य च हन्तारौ खरस्य च महाबलौ।सादितौ मामकैर्बाणैर्भ्रातरौ रामलक्ष्मणौ॥ १२नेमौ मोक्षयितुं शक्यावेतस्मादिषुबन्धनात्।सर्वैरपि समागम्य सर्षिसङ्घैः सुरासुरैः॥ १३यत्कृते चिन्तयानस्य शोकार्तस्य पितुर्मम।अस्पृष्ट्वा शयनं गात्रैस्त्रियामा याति शर्वती॥ १४कृत्स्नेयं यत्कृते लङ्का नदी वर्षास्विवाकुला।सोऽयं मूलहरोऽनर्थः सर्वेषां निहतो मया॥ १५रामस्य लक्ष्मणस्यैव सर्वेषां च वनौकसाम्।विक्रमा निष्फलाः सर्वे यथा शरदि तोयदाः॥ १६एवमुक्त्वा तु तान्सर्वान्राक्षसान्परिपार्श्वगान्।यूथपानपि तान्सर्वांस्ताडयामास रावणिः॥ १७तानर्दयित्वा बाणौघैस्त्रासयित्वा च वानरान्।प्रजहास महाबाहुर्वचनं चेदमब्रवीत्॥ १८शरबन्धेन घोरेण मया बद्धौ चमूमुखे।सहितौ भ्रातरावेतौ निशामयत राक्षसाः॥ १९एवमुक्तास्तु ते सर्वे राक्षसाः कूटयोधिनः।परं विस्मयमाजग्मुः कर्मणा तेन तोषिताः॥ २०विनेदुश्च महानादान्सर्वे ते जलदोपमाः।हतो राम इति ज्ञात्वा रावणिं समपूजयन्॥ २१निष्पन्दौ तु तदा दृष्ट्वा तावुभौ रामलक्ष्मणौ।वसुधायां निरुच्छ्वासौ हतावित्यन्वमन्यत॥ २२हर्षेण तु समाविष्ट इन्द्रजित्समितिंजयः।प्रविवेश पुरीं लङ्कां हर्षयन्सर्वनैरृतान्॥ २३रामलक्ष्मणयोर्दृष्ट्वा शरीरे सायकैश्चिते।सर्वाणि चाङ्गोपाङ्गानि सुग्रीवं भयमाविशत्॥ २४तमुवाच परित्रस्तं वानरेन्द्रं विभीषणः।सबाष्पवदनं दीनं शोकव्याकुललोचनम्॥ २५अलं त्रासेन सुग्रीव बाष्पवेगो निगृह्यताम्।एवं प्रायाणि युद्धानि विजयो नास्ति नैष्ठिकः॥ २६सशेषभाग्यतास्माकं यदि वीर भविष्यति।मोहमेतौ प्रहास्येते भ्रातरौ रामलक्ष्मणौ॥ २७पर्यवस्थापयात्मानमनाथं मां च वानर।सत्यधर्मानुरक्तानां नास्ति मृत्युकृतं भयम्॥ २८एवमुक्त्वा ततस्तस्य जलक्लिन्नेन पाणिना।सुग्रीवस्य शुभे नेत्रे प्रममार्ज विभीषणः॥ २९प्रमृज्य वदनं तस्य कपिराजस्य धीमतः।अब्रवीत्कालसंप्रातमसंभ्रान्तमिदं वचः॥ ३०न कालः कपिराजेन्द्र वैक्लव्यमनुवर्तितुम्।अतिस्नेहोऽप्यकालेऽस्मिन्मरणायोपपद्यते॥ ३१तस्मादुत्सृज्य वैक्लव्यं सर्वकार्यविनाशनम्।हितं रामपुरोगाणां सैन्यानामनुचिन्त्यताम्॥ ३२अथ वा रक्ष्यतां रामो यावत्संज्ञा विपर्ययः।लब्धसंज्ञौ तु काकुत्स्थौ भयं नो व्यपनेष्यतः॥ ३३नैतत्किंचन रामस्य न च रामो मुमूर्षति।न ह्येनं हास्यते लक्ष्मीर्दुर्लभा या गतायुषाम्॥ ३४तस्मादाश्वासयात्मानं बलं चाश्वासय स्वकम्।यावत्सर्वाणि सैन्यानि पुनः संस्थापयाम्यहम्॥ ३५एते ह्युत्फुल्लनयनास्त्रासादागतसाध्वसाः।कर्णे कर्णे प्रकथिता हरयो हरिपुंगव॥ ३६मां तु दृष्ट्वा प्रधावन्तमनीकं संप्रहर्षितुम्।त्यजन्तु हरयस्त्रासं भुक्तपूर्वामिव स्रजम्॥ ३७समाश्वास्य तु सुग्रीवं राक्षसेन्द्रो विभीषणः।विद्रुतं वानरानीकं तत्समाश्वासयत्पुनः॥ ३८इन्द्रजित्तु महामायः सर्वसैन्यसमावृतः।विवेश नगरीं लङ्कां पितरं चाभ्युपागमत्॥ ३९तत्र रावणमासीनमभिवाद्य कृताञ्जलिः।आचचक्षे प्रियं पित्रे निहतौ रामलक्ष्मणौ॥ ४०उत्पपात ततो हृष्टः पुत्रं च परिषस्वजे।रावणो रक्षसां मध्ये श्रुत्वा शत्रू निपातितौ॥ ४१उपाघ्राय स मूर्ध्न्येनं पप्रच्छ प्रीतमानसः।पृच्छते च यथावृत्तं पित्रे सर्वं न्यवेदयत्॥ ४२स हर्षवेगानुगतान्तरात्माश्रुत्वा वचस्तस्य महारथस्य।जहौ ज्वरं दाशरथेः समुत्थितंप्रहृष्य वाचाभिननन्द पुत्रम्॥ ४३इति श्रीरामायणे युद्धकाण्डे षट्त्रिंशः सर्गः ॥ ३६
वाल्मीकिरामायणम् Baroda Critical EditionCC0. No rights reserved