॥ ॐ श्री गणपतये नमः ॥

३८ सर्गः
भर्तारं निहतं दृष्ट्वा लक्ष्मणं च महाबलम्।विललाप भृशं सीता करुणं शोककर्शिता॥ १ऊचुर्लक्षणिका ये मां पुत्रिण्यविधवेति च।तेऽस्य सर्वे हते रामेऽज्ञानिनोऽनृतवादिनः॥ २यज्वनो महिषीं ये मामूचुः पत्नीं च सत्रिणः।तेऽद्य सर्वे हते रामेऽज्ञानिनोऽनृतवादिनः॥ ३वीरपार्थिवपत्नी त्वं ये धन्येति च मां विदुः।तेऽद्य सर्वे हते रामेऽज्ञानिनोऽनृतवादिनः॥ ४ऊचुः संश्रवणे ये मां द्विजाः कार्तान्तिकाः शुभाम्।तेऽद्य सर्वे हते रामेऽज्ञानिनोऽनृतवादिनः॥ ५इमानि खलु पद्मानि पादयोर्यैः किल स्त्रियः।अधिराज्येऽभिषिच्यन्ते नरेन्द्रैः पतिभिः सह॥ ६वैधव्यं यान्ति यैर्नार्योऽलक्षणैर्भाग्यदुर्लभाः।नात्मनस्तानि पश्यामि पश्यन्ती हतलक्षणा॥ ७सत्यानीमानि पद्मानि स्त्रीणामुक्त्वानि लक्षणे।तान्यद्य निहते रामे वितथानि भवन्ति मे॥ ८केशाः सूक्ष्माः समा नीला भ्रुवौ चासंगते मम।वृत्ते चालोमशे जङ्घे दन्ताश्चाविरला मम॥ ९शङ्खे नेत्रे करौ पादौ गुल्फावूरू च मे चितौ।अनुवृत्ता नखाः स्निग्धाः समाश्चाङ्गुलयो मम॥ १०स्तनौ चाविरलौ पीनौ ममेमौ मग्नचूचुकौ।मग्ना चोत्सङ्गिनी नाभिः पार्श्वोरस्कं च मे चितम्॥ ११मम वर्णो मणिनिभो मृदून्यङ्गरुहाणि च।प्रतिष्ठितां द्वदशभिर्मामूचुः शुभलक्षणाम्॥ १२समग्रयवमच्छिद्रं पाणिपादं च वर्णवत्।मन्दस्मितेत्येव च मां कन्यालक्षणिका विदुः॥ १३अधिराज्येऽभिषेको मे ब्राह्मणैः पतिना सह।कृतान्तकुशलैरुक्तं तत्सर्वं वितथीकृतम्॥ १४शोधयित्वा जनस्थानं प्रवृत्तिमुपलभ्य च।तीर्त्वा सागरमक्षोभ्यं भ्रातरौ गोष्पदे हतौ॥ १५ननु वारुणमाग्नेयमैन्द्रं वायव्यमेव च।अस्त्रं ब्रह्मशिरश्चैव राघवौ प्रत्यपद्यताम्॥ १६अदृश्यमानेन रणे मायया वासवोपमौ।मम नाथावनाथाया निहतौ रामलक्ष्मणौ॥ १७न हि दृष्टिपथं प्राप्य राघवस्य रणे रिपुः।जीवन्प्रतिनिवर्तेत यद्यपि स्यान्मनोजवः॥ १८न कालस्यातिभारोऽस्ति कृतान्तश्च सुदुर्जयः।यत्र रामः सह भ्रात्रा शेते युधि निपाथितः॥ १९नाहं शोचामि भर्तारं निहतं न च लक्ष्मणम्।नात्मानं जननी चापि यथा श्वश्रूं तपस्विनीम्॥ २०सा हि चिन्तयते नित्यं समाप्तव्रतमागतम्।कदा द्रक्ष्यामि सीतां च रामं च सहलक्ष्मणम्॥ २१परिदेवयमानां तां राक्षसी त्रिजटाब्रवीत्।मा विषादं कृथा देवि भर्तायं तव जीवति॥ २२कारणानि च वक्ष्यामि महान्ति सदृशानि च।यथेमौ जीवतो देवि भ्रातरौ रामलक्ष्मणौ॥ २३न हि कोपपरीतानि हर्षपर्युत्सुकानि च।भवन्ति युधि योधानां मुखानि निहते पतौ॥ २४इदं विमानं वैदेहि पुष्पकं नाम नामतः।दिव्यं त्वां धारयेन्नेदं यद्येतौ गजजीवितौ॥ २५हतवीरप्रधाना हि हतोत्साहा निरुद्यमा।सेना भ्रमति संख्येषु हतकर्णेव नौर्जले॥ २६इयं पुनरसंभ्रान्ता निरुद्विग्ना तरस्विनी।सेना रक्षति काकुत्स्थौ मायया निर्जितौ रणे॥ २७सा त्वं भव सुविस्रब्धा अनुमानैः सुखोदयैः।अहतौ पश्य काकुत्स्थौ स्नेहादेतद्ब्रवीमि ते॥ २८अनृतं नोक्तपूर्वं मे न च वक्ष्ये कदाचन।चारित्रसुखशीलत्वात्प्रविष्टासि मनो मम॥ २९नेमौ शक्यौ रणे जेतुं सेन्द्रैरपि सुरासुरैः।एतयोराननं दृष्ट्वा मया चावेदितं तव॥ ३०इदं च सुमहच्चिह्नं शनैः पश्यस्व मैथिलि।निःसंज्ञावप्युभावेतौ नैव लक्ष्मीर्वियुज्यते॥ ३१प्रायेण गतसत्त्वानां पुरुषाणां गतायुषाम्।दृश्यमानेषु वक्त्रेषु परं भवति वैकृतम्॥ ३२त्यज शोकं च दुःखं च मोहं च जनकात्मजे।रामलक्ष्मणयोरर्थे नाद्य शक्यमजीवितुम्॥ ३३श्रुत्वा तु वचनं तस्याः सीता सुरसुतोपमा।कृताञ्जलिरुवाचेदमेवमस्त्विति मैथिली॥ ३४विमानं पुष्पकं तत्तु समिवर्त्य मनोजवम्।दीना त्रिजटया सीता लङ्कामेव प्रवेशिता॥ ३५ततस्त्रिजटया सार्धं पुष्पकादवरुह्य सा।अशोकवनिकामेव रक्षसीभिः प्रवेशिता॥ ३६प्रविश्य सीता बहुवृक्षषण्डांतां राक्षसेन्द्रस्य विहारभूमिम्।संप्रेक्ष्य संचिन्त्य च राजपुत्रौपरं विषादं समुपाजगाम॥ ३७इति श्रीरामायणे युद्धकाण्डे अष्टत्रिंशः सर्गः ॥ ३८
वाल्मीकिरामायणम् Baroda Critical EditionCC0. No rights reserved