४० सर्गः
अथोवाच महातेजा हरिराजो महाबलः।किमियं व्यथिता सेना मूढवातेव नौर्जले॥ १सुग्रीवस्य वचः श्रुत्वा वालिपुत्रोऽङ्गदोऽब्रवीत्।न त्वं पश्यसि रामं च लक्ष्मणं च महाबलम्॥ २शरजालाचितौ वीरावुभौ दशरथात्मजौ।शरतल्पे महात्मानौ शयानौ रुधिरोक्षितौ॥ ३अथाब्रवीद्वानरेन्द्रः सुग्रीवः पुत्रमङ्गदम्।नानिमित्तमिदं मन्ये भवितव्यं भयेन तु॥ ४विषण्णवदना ह्येते त्यक्तप्रहरणा दिशः।प्रपलायन्ति हरयस्त्रासादुत्फुल्ललोचनाः॥ ५अन्योन्यस्य न लज्जन्ते न निरीक्षन्ति पृष्ठतः।विप्रकर्षन्ति चान्योन्यं पतितं लङ्घयन्ति च॥ ६एतस्मिन्नन्तरे वीरो गदापाणिर्विभीषणः।सुग्रीवं वर्धयामास राघवं च निरैक्षत॥ ७विभीषणं तं सुग्रीवो दृष्ट्वा वानरभीषणम्।ऋक्षराजं समीपस्थं जाम्बवन्तमुवाच ह॥ ८विभीषणोऽयं संप्राप्तो यं दृष्ट्वा वानरर्षभाः।विद्रवन्ति परित्रस्ता रावणात्मजशङ्कया॥ ९शीघ्रमेतान्सुवित्रस्तान्बहुधा विप्रधावितान्।पर्यवस्थापयाख्याहि विभीषणमुपस्थितम्॥ १०सुग्रीवेणैवमुक्तस्तु जाम्बवानृक्षपार्थिवः।वानरान्सान्त्वयामास संनिवर्त्य प्रहावतः॥ ११ते निवृत्ताः पुनः सर्वे वानरास्त्यक्तसंभ्रमाः।ऋक्षराजवचः श्रुत्वा तं च दृष्ट्वा विभीषणम्॥ १२विभीषणस्तु रामस्य दृष्ट्वा गात्रं शरैश्चितम्।लक्ष्मणस्य च धर्मात्मा बभूव व्यथितेन्द्रियः॥ १३जलक्लिन्नेन हस्तेन तयोर्नेत्रे प्रमृज्य च।शोकसंपीडितमना रुरोद विललाप च॥ १४इमौ तौ सत्त्वसंपन्नौ विक्रान्तौ प्रियसंयुगौ।इमामवस्थां गमितौ राकसैः कूटयोधिभिः॥ १५भ्रातुः पुत्रेण मे तेन दुष्पुत्रेण दुरात्मना।राक्षस्या जिह्मया बुद्ध्या छलितावृजुविक्रमौ॥ १६शरैरिमावलं विद्धौ रुधिरेण समुक्षितौ।वसुधायामिम सुप्तौ दृश्येते शल्यकाविव॥ १७ययोर्वीर्यमुपाश्रित्य प्रतिष्ठा काङ्क्षिता मया।तावुभौ देहनाशाय प्रसुप्तौ पुरुषर्षभौ॥ १८जीवन्नद्य विपन्नोऽस्मि नष्टराज्यमनोरथः।प्राप्तप्रतिज्ञश्च रिपुः सकामो रावणः कृतः॥ १९एवं विलपमानं तं परिष्वज्य विभीषणम्।सुग्रीवः सत्त्वसंपन्नो हरिराजोऽब्रवीदिदम्॥ २०राज्यं प्राप्स्यसि धर्मज्ञ लङ्कायां नात्र संशयः।रावणः सह पुत्रेण स राज्यं नेह लप्स्यते॥ २१शरसंपीडितावेतावुभौ राघवलक्ष्मणौ।त्यक्त्वा मोहं वधिष्येते सगणं रावणं रणे॥ २२तमेवं सान्त्वयित्वा तु समाश्वास्य च राक्षसं।सुषेणं श्वशुरं पार्श्वे सुग्रीवस्तमुवाच ह॥ २३सह शूरैर्हरिगणैर्लब्धसंज्ञावरिंदमौ।गच्छ त्वं भ्रातरौ गृह्य किष्किन्धां रामलक्ष्मणौ॥ २४अहं तु रावणं हत्वा सपुत्रं सहबान्धवम्।मैथिलीमानयिष्यामि शक्रो नष्टामिव श्रियम्॥ २५श्रुत्वैतद्वानरेन्द्रस्य सुषेणो वाक्यमब्रवीत्।देवासुरं महायुद्धमनुभूतं सुदारुणम्॥ २६तदा स्म दानवा देवाञ्शरसंस्पर्शकोविदाः।निजघ्नुः शस्त्रविदुषश्छादयन्तो मुहुर्मुहुः॥ २७तानार्तान्नष्टसंज्ञांश्च परासूंश्च बृहस्पतिः।विध्याभिर्मन्त्रयुक्ताभिरोषधीभिश्चिकित्सति॥ २८तान्यौषधान्यानयितुं क्षीरोदं यान्तु सागरम्।जवेन वानराः शीघ्रं संपाति पनसादयः॥ २९हरयस्तु विजानन्ति पार्वती ते महौषधी।संजीवकरणीं दिव्यां विशल्यां देवनिर्मिताम्॥ ३०चन्द्रश्च नाम द्रोणश्च पर्वतौ सागरोत्तमे।अमृतं यत्र मथितं तत्र ते परमौषधी॥ ३१ते तत्र निहिते देवैः पर्वते परमौषधी।अयं वायुसुतो राजन्हनूमांस्तत्र गच्छतु॥ ३२एतस्मिन्नन्तरे वायुर्मेघांश्चापि सविद्युतः।पर्यस्यन्सागरे तोयं कम्पयन्निव पर्वतान्॥ ३३महता पक्षवातेन सर्वे द्वीपमहाद्रुमाः।निपेतुर्भग्नविटपाः समूला लवणाम्भसि॥ ३४अभवन्पन्नगास्त्रस्ता भोगिनस्तत्रवासिनः।शीघ्रं सर्वाणि यादांसि जग्मुश्च लवणार्णवम्॥ ३५ततो मुहूर्तद्गरुडं वैनतेयं महाबलम्।वानरा ददृशुः सर्वे ज्वलन्तमिव पावकम्॥ ३६तमागतमभिप्रेक्ष्य नागास्ते विप्रदुद्रुवुः।यैस्तौ सत्पुरुषौ बद्धौ शरभूतैर्महाबलौ॥ ३७ततः सुपर्णः काकुत्स्थौ दृष्ट्वा प्रत्यभिनन्द्य च।विममर्श च पाणिभ्यां मुखे चन्द्रसमप्रभे॥ ३८वैनतेयेन संस्पृष्टास्तयोः संरुरुहुर्व्रणाः।सुवर्णे च तनू स्निग्धे तयोराशु बभूवतुः॥ ३९तेजो वीर्यं बलं चौज उत्साहश्च महागुणाः।प्रदर्शनं च बुद्धिश्च स्मृतिश्च द्विगुणं तयोः॥ ४०तावुत्थाप्य महावीर्यौ गरुडो वासवोपमौ।उभौ तौ सस्वजे हृष्टौ रामश्चैनमुवाच ह॥ ४१भवत्प्रसादाद्व्यसनं रावणिप्रभवं महत्।आवामिह व्यतिक्रान्तौ शीघ्रं च बलिनौ कृतौ॥ ४२यथा तातं दशरथं यथाजं च पितामहम्।तथा भवन्तमासाद्य हृषयं मे प्रसीदति॥ ४३को भवान्रूपसंपन्नो दिव्यस्रगनुलेपनः।वसानो विरजे वस्त्रे दिव्याभरणभूषितः॥ ४४तमुवाच महातेजा वैनतेयो महाबलः।पतत्रिराजः प्रीतात्मा हर्षपर्याकुलेक्षणः॥ ४५अहं सखा ते काकुत्स्थ प्रियः प्राणो बहिश्चरः।गरुत्मानिह संप्राप्तो युवयोः साह्यकारणात्॥ ४६असुरा वा महावीर्या दानवा वा महाबलाः।सुराश्चापि सगन्धर्वाः पुरस्कृत्य शतक्रतुम्॥ ४७नेमं मोक्षयितुं शक्ताः शरबन्धं सुदारुणम्।माया बलादिन्द्रजिता निर्मितं क्रूरकर्मणा॥ ४८एते नागाः काद्रवेयास्तीक्ष्णदंष्ट्राविषोल्बणाः।रक्षोमाया प्रभावेन शरा भूत्वा त्वदाश्रिताः॥ ४९सभाग्यश्चासि धर्मज्ञ राम सत्यपराक्रम।लक्ष्मणेन सह भ्रात्रा समरे रिपुघातिना॥ ५०इमं श्रुत्वा तु वृत्तान्तं त्वरमाणोऽहमागतः।सहसा युवयोः स्नेहात्सखित्वमनुपालयन्॥ ५१मोक्षितौ च महाघोरादस्मात्सायकबन्धनात्।अप्रमादश्च कर्तव्यो युवाभ्यां नित्यमेव हि॥ ५२प्रकृत्या राक्षसाः सर्वे संग्रामे कूटयोधिनः।शूराणां शुद्धभावानां भवतामार्जवं बलम्॥ ५३तन्न विश्वसितव्यं वो राक्षसानां रणाजिरे।एतेनैवोपमानेन नित्यजिह्मा हि राक्षसाः॥ ५४एवमुक्त्वा ततो रामं सुपर्णः सुमहाबलः।परिष्वज्य सुहृत्स्निग्धमाप्रष्टुमुपचक्रमे॥ ५५सखे राघव धर्मज्ञ रिपूणामपि वत्सल।अभ्यनुज्ञातुमिच्छामि गमिष्यामि यथागतम्॥ ५६बालवृद्धावशेषां तु लङ्कां कृत्वा शरोर्मिभिः।रावणं च रिपुं हत्वा सीतां समुपलप्स्यसे॥ ५७इत्येवमुक्त्वा वचनं सुपर्णः शीघ्रविक्रमः।रामं च विरुजं कृत्वा मध्ये तेषां वनौकसाम्॥ ५८प्रदक्षिणं ततः कृत्वा परिष्वज्य च वीर्यवान्।जगामाकाशमाविश्य सुपर्णः पवनो यथा॥ ५९विरुजौ राघवौ दृष्ट्वा ततो वानरयूथपाः।सिंहनादांस्तदा नेदुर्लाङ्गूलं दुधुवुश्च ते॥ ६०ततो भेरीः समाजघ्नुर्मृदङ्गांश्च व्यनादयन्।दध्मुः शङ्खान्संप्रहृष्टाः क्ष्वेलन्त्यपि यथापुरम्॥ ६१आस्फोट्यास्फोट्य विक्रान्ता वानरा नगयोधिनः।द्रुमानुत्पाट्य विविधांस्तस्थुः शतसहस्रशः॥ ६२विसृजन्तो महानादांस्त्रासयन्तो निशाचरान्।लङ्काद्वाराण्युपाजग्मुर्योद्धुकामाः प्लवंगमाः॥ ६३ततस्तु भीमस्तुमुलो निनादोबभूव शाखामृगयूथपानाम्।क्षये निदाघस्य यथा घनानांनादः सुभीमो नदतां निशीथे॥ ६४इति श्रीरामायणे युद्धकाण्डे चत्वारिंशः सर्गः ॥ ४०
वाल्मीकिरामायणम् Baroda Critical EditionCC0. No rights reserved