॥ ॐ श्री गणपतये नमः ॥

४१ सर्गः
तेषां सुतुमुलं शब्दं वानराणां तरस्विनाम्।नर्दतां राक्षसैः सार्धं तदा शुश्राव रावणः॥ १स्निग्धगम्भीरनिर्घोषं श्रुत्वा स निनदं भृशम्।सचिवानां ततस्तेषां मध्ये वचनमब्रवीत्॥ २यथासौ संप्रहृष्टानां वानराणां समुत्थितः।बहूनां सुमहान्नादो मेघानामिव गर्जताम्॥ ३व्यक्तं सुमहती प्रीतिरेतेषां नात्र संशयः।तथा हि विपुलैर्नादैश्चुक्षुभे वरुणालयः॥ ४तौ तु बद्धौ शरैस्तीष्क्णैर्भ्रातरौ रामलक्ष्मणौ।अयं च सुमहान्नादः शङ्कां जनयतीव मे॥ ५एतत्तु वचनं चोक्त्वा मन्त्रिणो राक्षसेश्वरः।उवाच नैरृतांस्तत्र समीपपरिवर्तिनः॥ ६ज्ञायतां तूर्णमेतषां सर्वेषां वनचारिणाम्।शोककाले समुत्पन्ने हर्षकारणमुत्थितम्॥ ७तथोक्तास्तेन संभ्रान्ताः प्राकारमधिरुह्य ते।ददृशुः पालितां सेनां सुग्रीवेण महात्मना॥ ८तौ च मुक्तौ सुघोरेण शरबन्धेन राघवौ।समुत्थितौ महाभागौ विषेदुः प्रेक्ष्य राक्षसाः॥ ९संत्रस्तहृदया सर्वे प्राकारादवरुह्य ते।विषण्णवदनाः सर्वे राक्षसेन्द्रमुपस्थिताः॥ १०तदप्रियं दीनमुखा रावणस्य निशाचराः।कृत्स्नं निवेदयामासुर्यथावद्वाक्यकोविदाः॥ ११यौ ताविन्द्रजिता युद्धे भ्रातरौ रामलक्ष्मणौ।निबद्धौ शरबन्धेन निष्प्रकम्पभुजौ कृतौ॥ १२विमुक्तौ शरबन्धेन तौ दृश्येते रणाजिरे।पाशानिव गजौ छित्त्वा गजेन्द्रसमविक्रमौ॥ १३तच्छ्रुत्वा वचनं तेषां राक्षसेन्द्रो महाबलः।चिन्ताशोकसमाक्रान्तो विषण्णवदनोऽब्रवीत्॥ १४घोरैर्दत्तवरैर्बद्धौ शरैराशीविषोमपैः।अमोघैः सूर्यसंकाशैः प्रमथ्येन्द्रजिता युधि॥ १५तमस्त्रबन्धमासाद्य यदि मुक्तौ रिपू मम।संशयस्थमिदं सर्वमनुपश्याम्यहं बलम्॥ १६निष्फलाः खलु संवृत्ताः शरा वासुकितेजसः।आदत्तं यैस्तु संग्रामे रिपूणां मम जीवितम्॥ १७एवमुक्त्वा तु संक्रुद्धो निश्वसन्नुरगो यथा।अब्रवीद्रक्षसां मध्ये धूम्राक्षं नाम राकसं॥ १८बलेन महता युक्तो रक्षसां भीमकर्मणाम्।त्वं वधायाभिनिर्याहि रामस्य सह वानरैः॥ १९एवमुक्तस्तु धूम्राक्षो राक्षसेन्द्रेण धीमता।कृत्वा प्रणामं संहृष्टो निर्जगाम नृपालयात्॥ २०अभिनिष्क्रम्य तद्द्वारं बलाध्यक्षमुवाच ह।त्वरयस्व बलं तूर्णं किं चिरेण युयुत्सतः॥ २१धूम्राक्षस्य वचः श्रुत्वा बलाध्यक्षो बलानुगः।बलमुद्योजयामास रावणस्याज्ञया द्रुतम्॥ २२ते बद्धघण्टा बलिनो घोररूपा निशाचराः।विनर्दमानाः संहृष्टा धूम्राक्षं पर्यवारयन्॥ २३विविधायुधहस्ताश्च शूलमुद्गरपाणयः।गदाभिः पट्टसैर्दण्डैरायसैर्मुसलैर्भृशम्॥ २४परिघैर्भिण्डिपालैश्च भल्लैः प्रासैः परश्वधैः।निर्ययू राक्षसा घोरा नर्दन्तो जलदा यथा॥ २५रथैः कवचिनस्त्वन्ये ध्वजैश्च समलंकृतैः।सुवर्णजालविहितैः खरैश्च विविधाननैः॥ २६हयैः परमशीघ्रैश्च गजेन्द्रैश्च मदोत्कटैः।निर्ययू राक्षसव्याघ्रा व्याघ्रा इव दुरासदाः॥ २७वृकसिंहमुखैर्युक्तं खरैः कनकभूषणैः।आरुरोह रथं दिव्यं धूम्राक्षः खरनिस्वनः॥ २८स निर्यातो महावीर्यो धूम्राक्षो राक्षसैर्वृतः।प्रहसन्पश्चिमद्वारं हनूमान्यत्र यूथपः॥ २९प्रयान्तं तु महाघोरं राक्षसं भीमदर्शनम्।अन्तरिक्षगताः क्रूराः शकुनाः प्रत्यवारयन्॥ ३०रथशीर्षे महाभीमो गृध्रश्च निपपात ह।ध्वजाग्रे ग्रथिताश्चैव निपेतुः कुणपाशनाः॥ ३१रुधिरार्द्रो महाञ्श्वेतः कबन्धः पतितो भुवि।विस्वरं चोत्सृजन्नादं धूम्राक्षस्य समीपतः॥ ३२ववर्ष रुधिरं देवः संचचाल च मेदिनी।प्रतिलोमं ववौ वायुर्निर्घातसमनिस्वनः।तिमिरौघावृतास्तत्र दिशश्च न चकाशिरे॥ ३३स तूत्पातांस्ततो दृष्ट्वा राक्षसानां भयावहान्।प्रादुर्भूतान्सुघोरांश्च धूम्राक्षो व्यथितोऽभवत्॥ ३४ततः सुभीमो बहुभिर्निशाचरैर्वृतोऽभिनिष्क्रम्य रणोत्सुको बली।ददर्श तां राघवबाहुपालितांसमुद्रकल्पां बहुवानरीं चमूम्॥ ३५इति श्रीरामायणे युद्धकाण्डे एकचत्वारिंशः सर्गः ॥ ४१
वाल्मीकिरामायणम् Baroda Critical EditionCC0. No rights reserved