॥ ॐ श्री गणपतये नमः ॥

४४ सर्गः
तद्दृष्ट्वा सुमहत्कर्म कृतं वानरसत्तमैः।क्रोधमाहारयामास युधि तीव्रमकम्पनः॥ १क्रोधमूर्छितरूपस्तु ध्नुवन्परमकार्मुकम्।दृष्ट्वा तु कर्म शत्रूणां सारथिं वाक्यमब्रवीत्॥ २तत्रैव तावत्त्वरितं रथं प्रापय सारथे।एतेऽत्र बहवो घ्नन्ति सुबहून्राक्षसान्रणे॥ ३एतेऽत्र बलवन्तो हि भीमकायाश्च वानराः।द्रुमशैलप्रहरणास्तिष्ठन्ति प्रमुखे मम॥ ४एतान्निहन्तुमिच्छामि समरश्लाघिनो ह्यहम्।एतैः प्रमथितं सर्वं दृश्यते राक्षसं बलम्॥ ५ततः प्रजविताश्वेन रथेन रथिनां वरः।हरीनभ्यहनत्क्रोधाच्छरजालैरकम्पनः॥ ६न स्थातुं वानराः शेकुः किं पुनर्योद्धुमाहवे।अकम्पनशरैर्भग्नाः सर्व एव प्रदुद्रुवुः॥ ७तान्मृत्युवशमापन्नानकम्पनवशं गतान्।समीक्ष्य हनुमाञ्ज्ञातीनुपतस्थे महाबलः॥ ८तं महाप्लवगं दृष्ट्वा सर्वे प्लवगयूथपाः।समेत्य समरे वीराः सहिताः पर्यवारयन्॥ ९व्यवस्थितं हनूमन्तं ते दृष्ट्वा हरियूथपाः।बभूवुर्बलवन्तो हि बलवन्तमुपाश्रिताः॥ १०अकम्पनस्तु शैलाभं हनूमन्तमवस्थितम्।महेन्द्र इव धाराभिः शरैरभिववर्ष ह॥ ११अचिन्तयित्वा बाणौघाञ्शरीरे पतिताञ्शितान्।अकम्पनवधार्थाय मनो दध्रे महाबलः॥ १२स प्रहस्य महातेजा हनूमान्मारुतात्मजः।अभिदुद्राव तद्रक्षः कम्पयन्निव मेदिनीम्॥ १३तस्याभिनर्दमानस्य दीप्यमानस्य तेजसा।बभूव रूपं दुर्धर्षं दीप्तस्येव विभावसोः॥ १४आत्मानं त्वप्रहरणं ज्ञात्वा क्रोधसमन्वितः।शैलमुत्पाटयामास वेगेन हरिपुंगवः॥ १५तं गृहीत्वा महाशैलं पाणिनैकेन मारुतिः।विनद्य सुमहानादं भ्रामयामास वीर्यवान्॥ १६ततस्तमभिदुद्राव राक्षसेन्द्रमकम्पनम्।यथा हि नमुचिं संख्ये वज्रेणेव पुरंदरः॥ १७अकम्पनस्तु तद्दृष्ट्वा गिरिशृङ्गं समुद्यतम्।दूरादेव महाबाणैरर्धचन्द्रैर्व्यदारयत्॥ १८तत्पर्वताग्रमाकाशे रक्षोबाणविदारितम्।विकीर्णं पतितं दृष्ट्वा हनूमान्क्रोधमूर्छितः॥ १९सोऽश्वकर्णं समासाद्य रोषदर्पान्वितो हरिः।तूर्णमुत्पाटयामास महागिरिमिवोच्छ्रितम्॥ २०तं गृहीत्वा महास्कन्धं सोऽश्वकर्णं महाद्युतिः।प्रहस्य परया प्रीत्या भ्रामयामास संयुगे॥ २१प्रधावन्नुरुवेगेन प्रभञ्जंस्तरसा द्रुमान्।हनूमान्परमक्रुद्धश्चरणैर्दारयत्क्षितिम्॥ २२गजांश्च सगजारोहान्सरथान्रथिनस्तथा।जघान हनुमान्धीमान्राक्षसांश्च पदातिकान्॥ २३तमन्तकमिव क्रुद्धं समरे प्राणहारिणम्।हनूमन्तमभिप्रेक्ष्य राक्षसा विप्रदुद्रुवुः॥ २४तमापतन्तं संक्रुद्धं राक्षसानां भयावहम्।ददर्शाकम्पनो वीरश्चुक्रोध च ननाद च॥ २५स चतुर्दशभिर्बाणैः शितैर्देहविदारणैः।निर्बिभेद हनूमन्तं महावीर्यमकम्पनः॥ २६स तथा प्रतिविद्धस्तु बह्वीभिः शरवृष्टिभिः।हनूमान्ददृशे वीरः प्ररूढ इव सानुमान्॥ २७ततोऽन्यं वृक्षमुत्पाट्य कृत्वा वेगमनुत्तमम्।शिरस्यभिजघानाशु राक्षसेन्द्रमकम्पनम्॥ २८स वृक्षेण हतस्तेन सक्रोधेन महात्मना।राक्षसो वानरेन्द्रेण पपात स ममार च॥ २९तं दृष्ट्वा निहतं भूमौ राक्षसेन्द्रमकम्पनम्।व्यथिता राक्षसाः सर्वे क्षितिकम्प इव द्रुमाः॥ ३०त्यक्तप्रहरणाः सर्वे राक्षसास्ते पराजिताः।लङ्कामभिययुस्त्रस्ता वानरैस्तैरभिद्रुताः॥ ३१ते मुक्तकेशाः संभ्रान्ता भग्नमानाः पराजिताः।स्रवच्छ्रमजलैरङ्गैः श्वसन्तो विप्रदुद्रुवुः॥ ३२अन्योन्यं प्रममन्तुस्ते विविशुर्नगरं भयात्।पृष्ठतस्ते सुसंमूढाः प्रेक्षमाणा मुहुर्मुहुः॥ ३३तेषु लङ्कां प्रविष्टेषु राक्षसेषु महाबलाः।समेत्य हरयः सर्वे हनूमन्तमपूजयन्॥ ३४सोऽपि प्रहृष्टस्तान्सर्वान्हरीन्संप्रत्यपूजयत्।हनूमान्सत्त्वसंपन्नो यथार्हमनुकूलतः॥ ३५विनेदुश्च यथा प्राणं हरयो जितकाशिनः।चकर्षुश्च पुनस्तत्र सप्राणानेव राक्षसान्॥ ३६स वीरशोभामभजन्महाकपिःसमेत्य रक्षांसि निहत्य मारुतिः।महासुरं भीमममित्रनाशनंयथैव विष्णुर्बलिनं चमूमुखे॥ ३७अपूजयन्देवगणास्तदा कपिंस्वयं च रामोऽतिबलश्च लक्ष्मणः।तथैव सुग्रीवमुखाः प्लवंगमाविभीषणश्चैव महाबलस्तदा॥ ३८इति श्रीरामायणे युद्धकाण्डे चतुश्चत्वारिंशः सर्गः ॥ ४४
वाल्मीकिरामायणम् Baroda Critical EditionCC0. No rights reserved