४९ सर्गः
ततो रामो महातेजा धनुरादाय वीर्यवान्।किरीटिनं महाकायं कुम्भकर्णं ददर्श ह॥ १तं दृष्ट्वा राक्षसश्रेष्ठं पर्वताकारदर्शनम्।क्रममाणमिवाकाशं पुरा नारायणं प्रभुम्॥ २सतोयाम्बुदसंकाशं काञ्चनाङ्गदभूषणम्।दृष्ट्वा पुनः प्रदुद्राव वानराणां महाचमूः॥ ३विद्रुतां वाहिनीं दृष्ट्वा वर्धमानं च राक्षसं।सविस्मयमिदं रामो विभीषणमुवाच ह॥ ४कोऽसौ पर्वतसंकशः किरीटी हरिलोचनः।लङ्कायां दृश्यते वीरः सविद्युदिव तोयदः॥ ५पृथिव्याः केतुभूतोऽसौ महानेकोऽत्र दृश्यते।यं दृष्ट्वा वानराः सर्वे विद्रवन्ति ततस्ततः॥ ६आचक्ष्व मे महान्कोऽसौ रक्षो वा यदि वासुरः।न मयैवंविधं भूतं दृष्टपूर्वं कदाचन॥ ७स पृष्टो राजपुत्रेण रामेणाक्लिष्टकारिणा।विभीषणो महाप्राज्ञः काकुत्स्थमिदमब्रवीत्॥ ८येन वैवस्वतो युद्धे वासवश्च पराजितः।सैष विश्रवसः पुत्रः कुम्भकर्णः प्रतापवान्॥ ९एतेन देवा युधि दानवाश्चयक्षा भुजंगाः पिशिताशनाश्च।गन्धर्वविद्याधरकिंनराश्चसहस्रशो राघव संप्रभग्नाः॥ १०शूलपाणिं विरूपाक्षं कुम्भकर्णं महाबलम्।हन्तुं न शेकुस्त्रिदशाः कालोऽयमिति मोहिताः॥ ११प्रकृत्या ह्येष तेजस्वी कुम्भकर्णो महाबलः।अन्येषां राक्षसेन्द्राणां वरदानकृतं बलम्॥ १२एतेन जातमात्रेण क्षुधार्तेन महात्मना।भक्षितानि सहस्राणि सत्त्वानां सुबहून्यपि॥ १३तेषु संभक्ष्यमाणेषु प्रजा भयनिपीडिताः।यान्ति स्म शरणं शक्रं तमप्यर्थं न्यवेदयन्॥ १४स कुम्भकर्णं कुपितो महेन्द्रोजघान वज्रेण शितेन वज्री।स शक्रवज्राभिहतो महात्माचचाल कोपाच्च भृशं ननाद॥ १५तस्य नानद्यमानस्य कुम्भकर्णस्य धीमतः।श्रुत्वा निनादं वित्रस्ता भूयो भूमिर्वितत्रसे॥ १६ततः कोपान्महेन्द्रस्य कुम्भकर्णो महाबलः।विकृष्यैरावताद्दन्तं जघानोरसि वासवम्॥ १७कुम्भकर्णप्रहारार्तो विचचाल स वासवः।ततो विषेदुः सहसा देवब्रह्मर्षिदानवाः॥ १८प्रजाभिः सह शक्रश्च ययौ स्थानं स्वयम्भुवः।कुम्भकर्णस्य दौरात्म्यं शशंसुस्ते प्रजापतेः।प्रजानां भक्षणं चापि देवानां चापि धर्षणम्॥ १९एवं प्रजा यदि त्वेष भक्षयिष्यति नित्यशः।अचिरेणैव कालेन शून्यो लोको भविष्यति॥ २०वासवस्य वचः श्रुत्वा सर्वलोकपितामहः।रक्षांस्यावाहयामास कुम्भकर्णं ददर्श ह॥ २१कुम्भकर्णं समीक्ष्यैव वितत्रास प्रजापतिः।दृष्ट्वा निश्वस्य चैवेदं स्वयम्भूरिदमब्रवीत्॥ २२ध्रुवं लोकविनाशाय पौरस्त्येनासि निर्मितः।तस्मात्त्वमद्य प्रभृति मृतकल्पः शयिष्यसि।ब्रह्मशापाभिभूतोऽथ निपपाताग्रतः प्रभोः॥ २३ततः परमसंभ्रान्तो रावणो वाक्यमब्रवीत्।विवृद्धः काञ्चनो वृक्षः फलकाले निकृत्यते॥ २४न नप्तारं स्वकं न्याय्यं शप्तुमेवं प्रजापते।न मिथ्यावचनश्च त्वं स्वप्स्यत्येष न संशयः।कालस्तु क्रियतामस्य शयने जागरे तथा॥ २५रावणस्य वचः श्रुत्वा स्वयम्भूरिदमब्रवीत्।शयिता ह्येष षण्मासानेकाहं जागरिष्यति॥ २६एकेनाह्ना त्वसौ वीरश्चरन्भूमिं बुभुक्षितः।व्यात्तास्यो भक्षयेल्लोकान्संक्रुद्ध इव पावकः॥ २७सोऽसौ व्यसनमापन्नः कुम्भकर्णमबोधयत्।त्वत्पराक्रमभीतश्च राजा संप्रति रावणः॥ २८स एष निर्गतो वीरः शिबिराद्भीमविक्रमः।वानरान्भृशसंक्रुद्धो भक्षयन्परिधावति॥ २९कुम्भकर्णं समीक्ष्यैव हरयो विप्रदुद्रुवुः।कथमेनं रणे क्रुद्धं वारयिष्यन्ति वानराः॥ ३०उच्यन्तां वानराः सर्वे यन्त्रमेतत्समुच्छ्रितम्।इति विज्ञाय हरयो भविष्यन्तीह निर्भयाः॥ ३१विभीषणवचः श्रुत्वा हेतुमत्सुमुखोद्गतम्।उवाच राघवो वाक्यं नीलं सेनापतिं तदा॥ ३२गच्छ सैन्यानि सर्वाणि व्यूह्य तिष्ठस्व पावके।द्वाराण्यादाय लङ्कायाश्चर्याश्चाप्यथ संक्रमान्॥ ३३शैलशृङ्गाणि वृक्षांश्च शिलाश्चाप्युपसंहरन्।तिष्ठन्तु वानराः सर्वे सायुधाः शैलपाणयः॥ ३४राघवेण समादिष्टो नीलो हरिचमूपतिः।शशास वानरानीकं यथावत्कपिकुञ्जरः॥ ३५ततो गवाक्षः शरभो हनुमानङ्गदो नलः।शैलशृङ्गाणि शैलाभा गृहीत्वा द्वारमभ्ययुः॥ ३६ततो हरीणां तदनीकमुग्रंरराज शैलोद्यतवृक्षहस्तम्।गिरेः समीपानुगतं यथैवमहन्महाम्भोधरजालमुग्रम्॥ ३७इति श्रीरामायणे युद्धकाण्डे एकोनपञ्चाशः सर्गः ॥ ४९
वाल्मीकिरामायणम् Baroda Critical EditionCC0. No rights reserved