॥ ॐ श्री गणपतये नमः ॥

५० सर्गः
स तु राक्षसशार्दूलो निद्रामदसमाकुलः।राजमार्गं श्रिया जुष्टं ययौ विपुलविक्रमः॥ १राक्षसानां सहस्रैश्च वृतः परमदुर्जयः।गृहेभ्यः पुष्पवर्षेण कार्यमाणस्तदा ययौ॥ २स हेमजालविततं भानुभास्वरदर्शनम्।ददर्श विपुलं रम्यं राक्षसेन्द्रनिवेशनम्॥ ३स तत्तदा सूर्य इवाभ्रजालंप्रविश्य रक्षोऽधिपतेर्निवेशनम्।ददर्श दूरेऽग्रजमासनस्थंस्वयम्भुवं शक्र इवासनस्थम्॥ ४सोऽभिगम्य गृहं भ्रातुः कक्ष्यामभिविगाह्य च।ददर्शोद्विग्नमासीनं विमाने पुष्पके गुरुम्॥ ५अथ दृष्ट्वा दशग्रीवः कुम्भकर्णमुपस्थितम्।तूर्णमुत्थाय संहृष्टः संनिकर्षमुपानयत्॥ ६अथासीनस्य पर्यङ्के कुम्भकर्णो महाबलः।भ्रातुर्ववन्दे चरणां किं कृत्यमिति चाब्रवीत्।उत्पत्य चैनं मुदितो रावणः परिषस्वजे॥ ७स भ्रात्रा संपरिष्वक्तो यथावच्चाभिनन्दितः।कुम्भकर्णः शुभं दिव्यं प्रतिपेदे वरासनम्॥ ८स तदासनमाश्रित्य कुम्भकर्णो महाबलः।संरक्तनयनः कोपाद्रावणं वाक्यमब्रवीत्॥ ९किमर्थमहमादृत्य त्वया राजन्प्रबोधितः।शंस कस्माद्भयं तेऽस्ति कोऽद्य प्रेतो भविष्यति॥ १०भ्रातरं रावणः क्रुद्धं कुम्भकर्णमवस्थितम्।ईषत्तु परिवृत्ताभ्यां नेत्राभ्यां वाक्यमब्रवीत्॥ ११अद्य ते सुमहान्कालः शयानस्य महाबल।सुखितस्त्वं न जानीषे मम रामकृतं भयम्॥ १२एष दाशरथी रामः सुग्रीवसहितो बली।समुद्रं सबलस्तीर्त्वा मूलं नः परिकृन्तति॥ १३हन्त पश्यस्व लङ्काया वनान्युपवनानि च।सेतुना सुखमागम्य वानरैकार्णवं कृतम्॥ १४ये राक्षसा मुख्यतमा हतास्ते वानरैर्युधि।वानराणां क्षयं युद्धे न पश्यामि कदाचन॥ १५सर्वक्षपितकोशं च स त्वमभ्यवपद्य माम्।त्रायस्वेमां पुरीं लङ्कां बालवृद्धावशेषिताम्॥ १६भ्रातुरर्थे महाबाहो कुरु कर्म सुदुष्करम्।मयैवं नोक्तपूर्वो हि कश्चिद्भ्रातः परंतप।त्वय्यस्ति मम च स्नेहः परा संभावना च मे॥ १७देवासुरविमर्देषु बहुशो राक्षसर्षभ।त्वया देवाः प्रतिव्यूह्य निर्जिताश्चासुरा युधि।न हि ते सर्वभूतेषु दृश्यते सदृशो बली॥ १८कुरुष्व मे प्रियहितमेतदुत्तमंयथाप्रियं प्रियरणबान्धवप्रिय।स्वतेजसा विधम सपत्नवाहिनींशरद्घनं पवन इवोद्यतो महान्॥ १९इति श्रीरामायणे युद्धकाण्डे पञ्चाशः सर्गः ॥ ५०
वाल्मीकिरामायणम् Baroda Critical EditionCC0. No rights reserved