॥ ॐ श्री गणपतये नमः ॥

५१ सर्गः
तस्य राक्षसराजस्य निशम्य परिदेवितम्।कुम्भकर्णो बभाषेऽथ वचनं प्रजहास च॥ १दृष्टो दोषो हि योऽस्माभिः पुरा मन्त्रविनिर्णये।हितेष्वनभियुक्तेन सोऽयमासादितस्त्वया॥ २शीघ्रं खल्वभ्युपेतं त्वां फलं पापस्य कर्मणः।निरयेष्वेव पतनं यथा दुष्कृतकर्मणः॥ ३प्रथमं वै महाराज कृत्यमेतदचिन्तितम्।केवलं वीर्यदर्पेण नानुबन्धो विचारितः॥ ४यः पश्चात्पूर्वकार्याणि कुर्यादैश्वर्यमास्थितः।पूर्वं चोत्तरकार्याणि न स वेद नयानयौ॥ ५देशकालविहीनानि कर्माणि विपरीतवत्।क्रियमाणानि दुष्यन्ति हवींष्यप्रयतेष्विव॥ ६त्रयाणां पञ्चधा योगं कर्मणां यः प्रपश्यति।सचिवैः समयं कृत्वा स सभ्ये वर्तते पथि॥ ७यथागमं च यो राजा समयं विचिकीर्षति।बुध्यते सचिवान्बुद्ध्या सुहृदश्चानुपश्यति॥ ८धर्ममर्थं च कामं च सर्वान्वा रक्षसां पते।भजते पुरुषः काले त्रीणि द्वन्द्वानि वा पुनः॥ ९त्रिषु चैतेषु यच्छ्रेष्ठं श्रुत्वा तन्नावबुध्यते।राजा वा राजमात्रो वा व्यर्थं तस्य बहुश्रुतम्॥ १०उपप्रदानं सान्त्वं वा भेदं काले च विक्रमम्।योगं च रक्षसां श्रेष्ठ तावुभौ च नयानयौ॥ ११काले धर्मार्थकामान्यः संमन्त्र्य सचिवैः सह।निषेवेतात्मवाँल्लोके न स व्यसनमाप्नुयात्॥ १२हितानुबन्धमालोक्य कार्याकार्यमिहात्मनः।राजा सहार्थतत्त्वज्ञैः सचिवैः सह जीवति॥ १३अनभिज्ञाय शास्त्रार्थान्पुरुषाः पशुबुद्धयः।प्रागल्भ्याद्वक्तुमिच्छन्ति मन्त्रेष्वभ्यन्तरीकृताः॥ १४अशास्त्रविदुषां तेषां न कार्यमहितं वचः।अर्थशास्त्रानभिज्ञानां विपुलां श्रियमिच्छताम्॥ १५अहितं च हिताकारं धार्ष्ट्याज्जल्पन्ति ये नराः।अवेक्ष्य मन्त्रबाह्यास्ते कर्तव्याः कृत्यदूषणाः॥ १६विनाशयन्तो भर्तारं सहिताः शत्रुभिर्बुधैः।विपरीतानि कृत्यानि कारयन्तीह मन्त्रिणः॥ १७तान्भर्ता मित्रसंकाशानमित्रान्मन्त्रनिर्णये।व्यवहारेण जानीयात्सचिवानुपसंहितान्॥ १८चपलस्येह कृत्यानि सहसानुप्रधावतः।छिद्रमन्ये प्रपद्यन्ते क्रौञ्चस्य खमिव द्विजाः॥ १९यो हि शत्रुमवज्ञाय नात्मानमभिरक्षति।अवाप्नोति हि सोऽनर्थान्स्थानाच्च व्यवरोप्यते॥ २०तत्तु श्रुत्वा दशग्रीवः कुम्भकर्णस्य भाषितम्।भ्रुकुटिं चैव संचक्रे क्रुद्धश्चैनमुवाच ह॥ २१मान्यो गुरुरिवाचार्यः किं मां त्वमनुशासति।किमेवं वाक्श्रमं कृत्वा काले युक्तं विधीयताम्॥ २२विभ्रमाच्चित्तमोहाद्वा बलवीर्याश्रयेण वा।नाभिपन्नमिदानीं यद्व्यर्थास्तस्य पुनः कृथाः॥ २३अस्मिन्काले तु यद्युक्तं तदिदानीं विधीयताम्।ममापनयजं दोषं विक्रमेण समीकुरु॥ २४यदि खल्वस्ति मे स्नेहो भ्रातृत्वं वावगच्छसि।यदि वा कार्यमेतत्ते हृदि कार्यतमं मतम्॥ २५स सुहृद्यो विपन्नार्थं दीनमभ्यवपद्यते।स बन्धुर्योऽपनीतेषु साहाय्यायोपकल्पते॥ २६तमथैवं ब्रुवाणं तु वचनं धीरदारुणम्।रुष्टोऽयमिति विज्ञाय शनैः श्लक्ष्णमुवाच ह॥ २७अतीव हि समालक्ष्य भ्रातरं क्षुभितेन्द्रियम्।कुम्भकर्णः शनैर्वाक्यं बभाषे परिसान्त्वयन्॥ २८अलं राक्षसराजेन्द्र संतापमुपपद्य ते।रोषं च संपरित्यज्य स्वस्थो भवितुमर्हसि॥ २९नैतन्मनसि कर्तव्व्यं मयि जीवति पार्थिव।तमहं नाशयिष्यामि यत्कृते परितप्यसे॥ ३०अवश्यं तु हितं वाच्यं सर्वावस्थं मया तव।बन्धुभावादभिहितं भ्रातृस्नेहाच्च पार्थिव॥ ३१सदृशं यत्तु कालेऽस्मिन्कर्तुं स्निग्धेन बन्धुना।शत्रूणां कदनं पश्य क्रियमाणं मया रणे॥ ३२अद्य पश्य महाबाहो मया समरमूर्धनि।हते रामे सह भ्रात्रा द्रवन्तीं हरिवाहिनीम्॥ ३३अद्य रामस्य तद्दृष्ट्वा मयानीतं रणाच्छिरः।सुखीभव महाबाहो सीता भवतु दुःखिता॥ ३४अद्य रामस्य पश्यन्तु निधनं सुमहत्प्रियम्।लङ्कायां राक्षसाः सर्वे ये ते निहतबान्धवाः॥ ३५अद्य शोकपरीतानां स्वबन्धुवधकारणात्।शत्रोर्युधि विनाशेन करोम्यस्रप्रमार्जनम्॥ ३६अद्य पर्वतसंकाशं ससूर्यमिव तोयदम्।विकीर्णं पश्य समरे सुग्रीवं प्लवगेश्वरम्॥ ३७न परः प्रेषणीयस्ते युद्धायातुल विक्रम।अहमुत्सादयिष्यामि शत्रूंस्तव महाबल॥ ३८यदि शक्रो यदि यमो यदि पावकमारुतौ।तानहं योधयिष्यामि कुबेर वरुणावपि॥ ३९गिरिमात्रशरीरस्य शितशूलधरस्य मे।नर्दतस्तीक्ष्णदंष्ट्रस्य बिभीयाच्च पुरंदरः॥ ४०अथ वा त्यक्तशस्त्रस्य मृद्गतस्तरसा रिपून्।न मे प्रतिमुखे कश्चिच्छक्तः स्थातुं जिजीविषुः॥ ४१नैव शक्त्या न गदया नासिना न शितैः शरैः।हस्ताभ्यामेव संरब्धो हनिष्याम्यपि वज्रिणम्॥ ४२यदि मे मुष्टिवेगं स राघवोऽद्य सहिष्यति।ततः पास्यन्ति बाणौघा रुधिरं राघवस्य ते॥ ४३चिन्तया बाध्यसे राजन्किमर्थं मयि तिष्ठति।सोऽहं शत्रुविनाशाय तव निर्यातुमुद्यतः॥ ४४मुञ्च रामाद्भयं राजन्हनिष्यामीह संयुगे।राघवं लक्ष्मणं चैव सुग्रीवं च महाबलम्।असाधारणमिच्छामि तव दातुं महद्यशः॥ ४५वधेन ते दाशरथेः सुखावहंसुखं समाहर्तुमहं व्रजामि।निहत्य रामं सहलक्ष्मणेनखादामि सर्वान्हरियूथमुख्यान्॥ ४६रमस्व कामं पिब चाग्र्यवारुणींकुरुष्व कृत्यानि विनीयतां ज्वरः।मयाद्य रामे गमिते यमक्षयंचिराय सीता वशगा भविष्यति॥ ४७इति श्रीरामायणे युद्धकाण्डे एकपञ्चाशः सर्गः ॥ ५१
वाल्मीकिरामायणम् Baroda Critical EditionCC0. No rights reserved