५२ सर्गः
तदुक्तमतिकायस्य बलिनो बाहुशालिनः।कुम्भकर्णस्य वचनं श्रुत्वोवाच महोदरः॥ १कुम्भकर्णकुले जातो धृष्टः प्राकृतदर्शनः।अवलिप्तो न शक्नोषि कृत्यं सर्वत्र वेदितुम्॥ २न हि राजा न जानीते कुम्भकर्ण नयानयौ।त्वं तु कैशोरकाद्धृष्टः केवलं वक्तुमिच्छसि॥ ३स्थानं वृद्धिं च हानिं च देशकालविभागवित्।आत्मनश्च परेषां च बुध्यते राक्षसर्षभ॥ ४यत्तु शक्यं बलवता कर्तुं प्राकृतबुद्धिना।अनुपासितवृद्धेन कः कुर्यात्तादृशं बुधः॥ ५यांस्तु धर्मार्थकामांस्त्वं ब्रवीषि पृथगाश्रयान्।अनुबोद्धुं स्वभावेन न हि लक्षणमस्ति ते॥ ६कर्म चैव हि सर्वेषां कारणानां प्रयोजनम्।श्रेयः पापीयसां चात्र फलं भवति कर्मणाम्॥ ७निःश्रेयस फलावेव धर्मार्थावितरावपि।अधर्मानर्थयोः प्राप्तिः फलं च प्रत्यवायिकम्॥ ८ऐहलौकिकपारत्र्यं कर्म पुम्भिर्निषेव्यते।कर्माण्यपि तु कल्प्यानि लभते काममास्थितः॥ ९तत्र कॢप्तमिदं राज्ञा हृदि कार्यं मतं च नः।शत्रौ हि साहसं यत्स्यात्किमिवात्रापनीयते॥ १०एकस्यैवाभियाने तु हेतुर्यः प्रकृतस्त्वया।तत्राप्यनुपपन्नं ते वक्ष्यामि यदसाधु च॥ ११येन पूर्वं जनस्थाने बहवोऽतिबला हताः।राक्षसा राघवं तं त्वं कथमेको जयिष्यसि॥ १२ये पुरा निर्जितास्तेन जनस्थाने महौजसः।राक्षसांस्तान्पुरे सर्वान्भीतानद्यापि पश्यसि॥ १३तं सिंहमिव संक्रुद्धं रामं दशरथात्मजम्।सर्पं सुप्तमिवाबुद्ध्या प्रबोधयितुमिच्छसि॥ १४ज्वलन्तं तेजसा नित्यं क्रोधेन च दुरासदम्।कस्तं मृत्युमिवासह्यमासादयितुमर्हति॥ १५संशयस्थमिदं सर्वं शत्रोः प्रतिसमासने।एकस्य गमनं तत्र न हि मे रोचते तव॥ १६हीनार्थस्तु समृद्धार्थं को रिपुं प्राकृतो यथा।निश्चितं जीवितत्यागे वशमानेतुमिच्छति॥ १७यस्य नास्ति मनुष्येषु सदृशो राक्षसोत्तम।कथमाशंससे योद्धुं तुल्येनेन्द्रविवस्वतोः॥ १८एवमुक्त्वा तु संरब्धं कुम्भकर्णं महोदरः।उवाच रक्षसां मध्ये रावणो लोकरावणम्॥ १९लब्ध्वा पुनस्तां वैदेहीं किमर्थं त्वं प्रजल्पसि।यदेच्छसि तदा सीता वशगा ते भविष्यति॥ २०दृष्टः कश्चिदुपायो मे सीतोपस्थानकारकः।रुचितश्चेत्स्वया बुद्ध्या राक्षसेश्वर तं शृणु॥ २१अहं द्विजिह्वः संह्रादी कुम्भकर्णो वितर्दनः।पञ्चरामवधायैते निर्यान्तीत्यवघोषय॥ २२ततो गत्वा वयं युद्धं दास्यामस्तस्य यत्नतः।जेष्यामो यदि ते शत्रून्नोपायैः कृत्यमस्ति नः॥ २३अथ जीवति नः शत्रुर्वयं च कृतसंयुगाः।ततः समभिपत्स्यामो मनसा यत्समीक्षितुम्॥ २४वयं युद्धादिहैष्यामो रुधिरेण समुक्षिताः।विदार्य स्वतनुं बाणै रामनामाङ्कितैः शितैः॥ २५भक्षितो राघवोऽस्माभिर्लक्ष्मणश्चेति वादिनः।तव पादौ ग्रहीष्यामस्त्वं नः काम प्रपूरय॥ २६ततोऽवघोषय पुरे गजस्कन्धेन पार्थिव।हतो रामः सह भ्रात्रा ससैन्य इति सर्वतः॥ २७प्रीतो नाम ततो भूत्वा भृत्यानां त्वमरिंदम।भोगांश्च परिवारांश्च कामांश्च वसुदापय॥ २८ततो माल्यानि वासांसि वीराणामनुलेपनम्।पेयं च बहु योधेभ्यः स्वयं च मुदितः पिब॥ २९ततोऽस्मिन्बहुलीभूते कौलीने सर्वतो गते।प्रविश्याश्वास्य चापि त्वं सीतां रहसि सान्त्वय।धनधान्यैश्च कामैश्च रत्नैश्चैनां प्रलोभय॥ ३०अनयोपधया राजन्भयशोकानुबन्धया।अकामा त्वद्वशं सीता नष्टनाथा गमिष्यति॥ ३१रञ्जनीयं हि भर्तारं विनष्टमवगम्य सा।नैराश्यात्स्त्रीलघुत्वाच्च त्वद्वशं प्रतिपत्स्यते॥ ३२सा पुरा सुखसंवृद्धा सुखार्हा दुःखकर्षिता।त्वय्यधीनः सुखं ज्ञात्वा सर्वथोपगमिष्यति॥ ३३एतत्सुनीतं मम दर्शनेनरामं हि दृष्ट्वैव भवेदनर्थः।इहैव ते सेत्स्यति मोत्सुको भूर्महानयुद्धेन सुखस्य लाभः॥ ३४अनष्टसैन्यो ह्यनवाप्तसंशयोरिपूनयुद्धेन जयञ्जनाधिप।यशश्च पुण्यं च महन्महीपतेश्रियं च कीर्तिं च चिरं समश्नुते॥ ३५इति श्रीरामायणे युद्धकाण्डे द्विपञ्चाशः सर्गः ॥ ५२
वाल्मीकिरामायणम् Baroda Critical EditionCC0. No rights reserved