५४ सर्गः
स ननाद महानादं समुद्रमभिनादयन्।जनयन्निव निर्घातान्विधमन्निव पर्वतान्॥ १तमवध्यं मघवता यमेन वरुणेन च।प्रेक्ष्य भीमाक्षमायान्तं वानरा विप्रदुद्रुवुः॥ २तांस्तु विद्रवतो दृष्ट्वा वालिपुत्रोऽङ्गदोऽब्रवीत्।नलं नीलं गवाक्षं च कुमुदं च महाबलम्॥ ३आत्मानमत्र विस्मृत्य वीर्याण्यभिजनानि च।क्व गच्छत भयत्रस्ताः प्राकृता हरयो यथा॥ ४साधु सौम्या निवर्तध्वं किं प्राणान्परिरक्षथ।नालं युद्धाय वै रक्षो महतीयं विभीषिकाः॥ ५महतीमुत्थितामेनां राक्षसानां विभीषिकाम्।विक्रमाद्विधमिष्यामो निवर्तध्वं प्लवंगमाः॥ ६कृच्छ्रेण तु समाश्वास्य संगम्य च ततस्ततः।वृक्षाद्रिहस्ता हरयः संप्रतस्थू रणाजिरम्॥ ७ते निवृत्य तु संक्रुद्धाः कुम्भकर्णं वनौकसः।निजघ्नुः परमक्रुद्धाः समदा इव कुञ्जराः।प्रांशुभिर्गिरिशृङ्गैश्च शिलाभिश्च महाबलाः॥ ८पादपैः पुष्पिताग्रैश्च हन्यमानो न कम्पते।तस्य गात्रेषु पतिता भिद्यन्ते शतशः शिलाः।पादपाः पुष्पिताग्राश्च भग्नाः पेतुर्महीतले॥ ९सोऽपि सैन्यानि संक्रुद्धो वानराणां महौजसाम्।ममन्थ परमायत्तो वनान्यग्निरिवोत्थितः॥ १०लोहितार्द्रास्तु बहवः शेरते वानरर्षभाः।निरस्ताः पतिता भूमौ ताम्रपुष्पा इव द्रुमाः॥ ११लङ्घयन्तः प्रधावन्तो वानरा नावलोकयन्।केचित्समुद्रे पतिताः केचिद्गगनमाश्रिताः॥ १२वध्यमानास्तु ते वीरा राक्षसेन बलीयसा।सागरं येन ते तीर्णाः पथा तेनैव दुद्रुवुः॥ १३ते स्थलानि तथा निम्नं विषण्णवदना भयात्।ऋक्षा वृक्षान्समारूढाः केचित्पर्वतमाश्रिताः॥ १४ममज्जुरर्णवे केचिद्गुहाः केचित्समाश्रिताः।निषेदुः प्लवगाः केचित्केचिन्नैवावतस्थिरे॥ १५तान्समीक्ष्याङ्गदो भङ्गान्वानरानिदमब्रवीत्।अवतिष्ठत युध्यामो निवर्तध्वं प्लवंगमाः॥ १६भग्नानां वो न पश्यामि परिगम्य महीमिमाम्।स्थानं सर्वे निवर्तध्वं किं प्राणान्परिरक्षथ॥ १७निरायुधानां द्रवतामसंगगतिपौरुषाः।दारा ह्यपहसिष्यन्ति स वै घातस्तु जीविताम्॥ १८कुलेषु जाताः सर्वे स्म विस्तीर्णेषु महत्सु च।अनार्याः खलु यद्भीतास्त्यक्त्वा वीर्यं प्रधावत॥ १९विकत्थनानि वो यानि यदा वै जनसंसदि।तानि वः क्व च यतानि सोदग्राणि महान्ति च॥ २०भीरुप्रवादाः श्रूयन्ते यस्तु जीवति धिक्कृतः।मार्गः सत्पुरुषैर्जुष्टः सेव्यतां त्यज्यतां भयम्॥ २१शयामहे वा निहताः पृथिव्यामल्पजीविताः।दुष्प्रापं ब्रह्मलोकं वा प्राप्नुमो युधि सूदिताः।संप्राप्नुयामः कीर्तिं वा निहत्य शत्रुमाहवे॥ २२न कुम्भकर्णः काकुत्स्थं दृष्ट्वा जीवन्गमिष्यति।दीप्यमानमिवासाद्य पतंगो ज्वलनं यथा॥ २३पलायनेन चोद्दिष्टाः प्राणान्रक्षामहे वयम्।एकेन बहवो भग्ना यशो नाशं गमिष्यति॥ २४एवं ब्रुवाणं तं शूरमङ्गदं कनकाङ्गदम्।द्रवमाणास्ततो वाक्यमूचुः शूरविगर्हितम्॥ २५कृतं नः कदनं घोरं कुम्भकर्णेन रक्षसा।न स्थानकालो गच्छामो दयितं जीवितं हि नः॥ २६एतावदुक्त्वा वचनं सर्वे ते भेजिरे दिशः।भीमं भीमाक्षमायान्तं दृष्ट्वा वानरयूथपाः॥ २७द्रवमाणास्तु ते वीरा अङ्गदेन वलीमुखाः।सान्त्वैश्च बहुमानैश्च ततः सर्वे निवर्तिताः॥ २८ऋषभशरभमैन्दधूम्रनीलाःकुमुदसुषेणगवाक्षरम्भताराः।द्विविदपनसवायुपुत्रमुख्यास्त्वरिततराभिमुखं रणं प्रयाताः॥ २९इति श्रीरामायणे युद्धकाण्डे चतुःपञ्चाशः सर्गः ॥ ५४
वाल्मीकिरामायणम् Baroda Critical EditionCC0. No rights reserved