॥ ॐ श्री गणपतये नमः ॥

५७ सर्गः
एवं विलपमानस्य रावणस्य दुरात्मनः।श्रुत्वा शोकाभितप्तस्य त्रिशिरा वाक्यमब्रवीत्॥ १एवमेव महावीर्यो हतो नस्तात मध्यमः।न तु सत्पुरुषा राजन्विलपन्ति यथा भवान्॥ २नूनं त्रिभुवणस्यापि पर्याप्तस्त्वमसि प्रभो।स कस्मात्प्राकृत इव शोकस्यात्मानमीदृशम्॥ ३ब्रह्मदत्तास्ति ते शक्तिः कवचः सायको धनुः।सहस्रखरसंयुक्तो रथो मेघसमस्वनः॥ ४त्वयासकृद्विशस्त्रेण विशस्ता देवदानवाः।स सर्वायुधसंपन्नो राघवं शास्तुमर्हसि॥ ५कामं तिष्ठ महाराजनिर्गमिष्याम्यहं रणम्।उद्धरिष्यामि ते शत्रून्गरुडः पन्नगानिह॥ ६शम्बरो देवराजेन नरको विष्णुना यथा।तथाद्य शयिता रामो मया युधि निपातितः॥ ७श्रुत्वा त्रिशिरसो वाक्यं रावणो राक्षसाधिपः।पुनर्जातमिवात्मानं मन्यते कालचोदितः॥ ८श्रुत्वा त्रिशिरसो वाक्यं देवान्तकनरान्तकौ।अतिकायश्च तेजस्वी बभूवुर्युद्धहर्षिताः॥ ९ततोऽहमहमित्येवं गर्जन्तो नैरृतर्षभाः।रावणस्य सुता वीराः शक्रतुल्यपराक्रमाः॥ १०अन्तरिक्षचराः सर्वे सर्वे माया विशारदाः।सर्वे त्रिदशदर्पघ्नाः सर्वे च रणदुर्मदाः॥ ११सर्वेऽस्त्रबलसंपन्नाः सर्वे विस्तीर्ण कीर्तयः।सर्वे समरमासाद्य न श्रूयन्ते स्म निर्जिताः॥ १२सर्वेऽस्त्रविदुषो वीराः सर्वे युद्धविशारदाः।सर्वे प्रवरजिज्ञानाः सर्वे लब्धवरास्तथा॥ १३स तैस्तथा भास्करतुल्यवर्चसैःसुतैर्वृतः शत्रुबलप्रमर्दनैः।रराज राजा मघवान्यथामरैर्वृतो महादानवदर्पनाशनैः॥ १४स पुत्रान्संपरिष्वज्य भूषयित्वा च भूषणैः।आशीर्भिश्च प्रशस्ताभिः प्रेषयामास संयुगे॥ १५महोदरमहापार्श्वौ भ्रातरौ चापि रावणः।रक्षणार्थं कुमाराणां प्रेषयामास संयुगे॥ १६तेऽभिवाद्य महात्मानं रावणं रिपुरावणम्।कृत्वा प्रदक्षिणं चैव महाकायाः प्रतस्थिरे॥ १७सर्वौषधीभिर्गन्धैश्च समालभ्य महाबलाः।निर्जग्मुर्नैरृतश्रेष्ठाः षडेते युद्धकाङ्क्षिणः॥ १८ततः सुदर्शनं नाम नीलजीमूतसंनिभम्।ऐरावतकुले जातमारुरोह महोदरः॥ १९सर्वायुधसमायुक्तं तूणीभिश्च स्वलंकृतम्।रराज गजमास्थाय सवितेवास्तमूर्धनि॥ २०हयोत्तमसमायुक्तं सर्वायुधसमाकुलम्।आरुरोह रथश्रेष्ठं त्रिशिरा रावणात्मजः॥ २१त्रिशिरा रथमास्थाय विरराज धनुर्धरः।सविद्युदुल्कः सज्वालः सेन्द्रचाप इवाम्बुदः॥ २२त्रिभिः किरीटैस्त्रिशिराः शुशुभे स रथोत्तमे।हिमवानिव शैलेन्द्रस्त्रिभिः काञ्चनपर्वतैः॥ २३अतिकायोऽपि तेजस्वी राक्षसेन्द्रसुतस्तदा।आरुरोह रथश्रेष्ठं श्रेष्ठः सर्वधनुष्मताम्॥ २४सुचक्राक्षं सुसंयुक्तं सानुकर्षं सकूबरम्।तूणीबाणासनैर्दीप्तं प्रासासि परिघाकुलम्॥ २५स काञ्चनविचित्रेण किरीटेन विराजता।भूषणैश्च बभौ मेरुः प्रभाभिरिव भास्वरः॥ २६स रराज रथे तस्मिन्राजसूनुर्महाबलः।वृतो नैरृतशार्दूलैर्वज्रपाणिरिवामरैः॥ २७हयमुच्चैःश्रवः प्रख्यं श्वेतं कनकभूषणम्।मनोजवं महाकायमारुरोह नरान्तकः॥ २८गृहीत्वा प्रासमुक्लाभं विरराज नरान्तकः।शक्तिमादाय तेजस्वी गुहः शत्रुष्विवाहवे॥ २९देवान्तकः समादाय परिघं वज्रभूषणम्।परिगृह्य गिरिं दोर्भ्यां वपुर्विष्णोर्विडम्बयन्॥ ३०महापार्श्वो महातेजा गदामादाय वीर्यवान्।विरराज गदापाणिः कुबेर इव संयुगे॥ ३१ते प्रतस्थुर्महात्मानो बलैरप्रतिमैर्वृताः।सुरा इवामरावत्यां बलैरप्रतिमैर्वृताः॥ ३२तान्गजैश्च तुरंगैश्च रथैश्चाम्बुदनिस्वनैः।अनुजग्मुर्महात्मानो राक्षसाः प्रवरायुधाः॥ ३३ते विरेजुर्महात्मानो कुमाराः सूर्यवर्चसः।किरीटिनः श्रिया जुष्टा ग्रहा दीप्ता इवाम्बरे॥ ३४प्रगृहीता बभौ तेषां छत्राणामावलिः सिता।शारदाभ्रप्रतीकाशां हंसावलिरिवाम्बरे॥ ३५मरणं वापि निश्चित्य शत्रूणां वा पराजयम्।इति कृत्वा मतिं वीरा निर्जग्मुः संयुगार्थिनः॥ ३६जगर्जुश्च प्रणेदुश्च चिक्षिपुश्चापि सायकान्।जहृषुश्च महात्मानो निर्यान्तो युद्धदुर्मदाः॥ ३७क्ष्वेडितास्फोटनिनदैः संचचालेव मेदिनी।रक्षसां सिंहनादैश्च पुस्फोटेव तदाम्बरम्॥ ३८तेऽभिनिष्क्रम्य मुदिता राक्षसेन्द्रा महाबलाः।ददृशुर्वानरानीकं समुद्यतशिलानगम्॥ ३९हरयोऽपि महात्मानो ददृशुर्नैरृतं बलम्।हस्त्यश्वरथसंबाधं किङ्किणीशतनादितम्॥ ४०नीलजीमूतसंकाशं समुद्यतमहायुधम्।दीप्तानलरविप्रख्यैर्नैरृतैः सर्वतो वृतम्॥ ४१तद्दृष्ट्वा बलमायान्तं लब्धलक्ष्याः प्लवंगमाः।समुद्यतमहाशैलाः संप्रणेदुर्मुहुर्मुहुः॥ ४२ततः समुद्घुष्टरवं निशम्यरक्षोगणा वानरयूथपानाम्।अमृष्यमाणाः परहर्षमुग्रंमहाबला भीमतरं विनेदुः॥ ४३ते राक्षसबलं घोरं प्रविश्य हरियूथपाः।विचेरुरुद्यतैः शैलैर्नगाः शिखरिणो यथा॥ ४४केचिदाकाशमाविश्य केचिदुर्व्यां प्लवंगमाः।रक्षःसैन्येषु संक्रुद्धाश्चेरुर्द्रुमशिलायुधाः॥ ४५ते पादपशिलाशैलैश्चक्रुर्वृष्टिमनुत्तमाम्।बाणौघैर्वार्यमाणाश्च हरयो भीमविक्रमाः॥ ४६सिंहनादान्विनेदुश्च रणे राक्षसवानराः।शिलाभिश्चूर्णयामासुर्यातुधानान्प्लवंगमाः॥ ४७निजघ्नुः संयुगे क्रुद्धाः कवचाभरणावृतान्।केचिद्रथगतान्वीरान्गजवाजिगतानपि॥ ४८निजघ्नुः सहसाप्लुत्य यातुधानान्प्लवंगमाः।शैलशृङ्गनिपातैश्च मुष्टिभिर्वान्तलोचनाः।चेलुः पेतुश्च नेदुश्च तत्र राक्षसपुंगवाः॥ ४९ततः शैलैश्च खड्गैश्च विसृष्टैर्हरिराक्षसैः।मुहूर्तेनावृता भूमिरभवच्छोणिताप्लुता॥ ५०विकीर्णपर्वताकारै रक्षोभिररिमर्दनैः।आक्षिप्ताः क्षिप्यमाणाश्च भग्नशूलाश्च वानरैः॥ ५१वानरान्वानरैरेव जग्नुस्ते रजनीचराः।राक्षसान्राक्षसैरेव जघ्नुस्ते वानरा अपि॥ ५२आक्षिप्य च शिलास्तेषां निजघ्नू राक्षसा हरीन्।तेषां चाच्छिद्य शस्त्राणि जघ्नू रक्षांसि वानराः॥ ५३निजघ्नुः शैलशूलास्त्रैर्विभिदुश्च परस्परम्।सिंहनादान्विनेदुश्च रणे वानरराक्षसाः॥ ५४छिन्नवर्मतनुत्राणा राक्षसा वानरैर्हताः।रुधिरं प्रस्रुतास्तत्र रससारमिव द्रुमाः॥ ५५रथेन च रथं चापि वारणेन च वारणम्।हयेन च हयं केचिन्निजघ्नुर्वानरा रणे॥ ५६क्षुरप्रैरर्धचन्द्रैश्च भल्लैश्च निशितैः शरैः।राक्षसा वानरेन्द्राणां चिच्छिदुः पादपाञ्शिलाः॥ ५७विकीर्णैः पर्वताग्रैश्च द्रुमैश्छिन्नैश्च संयुगे।हतैश्च कपिरक्षोभिर्दुर्गमा वसुधाभवत्॥ ५८तस्मिन्प्रवृत्ते तुमुले विमर्देप्रहृष्यमाणेषु वली मुखेषु।निपात्यमानेषु च राक्षसेषुमहर्षयो देवगणाश्च नेदुः॥ ५९ततो हयं मारुततुल्यवेगमारुह्य शक्तिं निशितां प्रगृह्य।नरान्तको वानरराजसैन्यंमहार्णवं मीन इवाविवेश॥ ६०स वानरान्सप्तशतानि वीरःप्रासेन दीप्तेन विनिर्बिभेद।एकः क्षणेनेन्द्ररिपुर्महात्माजघान सैन्यं हरिपुंगवानाम्॥ ६१ददृशुश्च महात्मानं हयपृष्ठे प्रतिष्ठितम्।चरन्तं हरिसैन्येषु विद्याधरमहर्षयः॥ ६२स तस्य ददृशे मार्गो मांसशोणितकर्दमः।पतितैः पर्वताकारैर्वानरैरभिसंवृतः॥ ६३यावद्विक्रमितुं बुद्धिं चक्रुः प्लवगपुंगवाः।तावदेतानतिक्रम्य निर्बिभेद नरान्तकः॥ ६४ज्वलन्तं प्रासमुद्यम्य संग्रामान्ते नरान्तकः।ददाह हरिसैन्यानि वनानीव विभावसुः॥ ६५यावदुत्पाटयामासुर्वृक्षाञ्शैलान्वनौकसः।तावत्प्रासहताः पेतुर्वज्रकृत्ता इवाचलाः॥ ६६दिक्षु सर्वासु बलवान्विचचार नरान्तकः।प्रमृद्नन्सर्वतो युद्धे प्रावृट्काले यथानिलः॥ ६७न शेकुर्धावितुं वीरा न स्थातुं स्पन्दितुं कुतः।उत्पतन्तं स्थितं यान्तं सर्वान्विव्याध वीर्यवान्॥ ६८एकेनान्तककल्पेन प्रासेनादित्यतेजसा।भिन्नानि हरिसैन्यानि निपेतुर्धरणीतले॥ ६९वज्रनिष्पेषसदृशं प्रासस्याभिनिपातनम्।न शेकुर्वानराः सोढुं ते विनेदुर्महास्वनम्॥ ७०पततां हरिवीराणां रूपाणि प्रचकाशिरे।वज्रभिन्नाग्रकूटानां शैलानां पततामिव॥ ७१ये तु पूर्वं महात्मानः कुम्भकर्णेन पातिताः।तेऽस्वस्था वानरश्रेष्ठाः सुग्रीवमुपतस्थिरे॥ ७२विप्रेक्षमाणः सुग्रीवो ददर्श हरिवाहिनीम्।नरान्तकभयत्रस्तां विद्रवन्तीमितस्ततः॥ ७३विद्रुतां वाहिनीं दृष्ट्वा स ददर्श नरान्तकम्।गृहीतप्रासमायान्तं हयपृष्ठे प्रतिष्ठितम्॥ ७४अथोवाच महातेजाः सुग्रीवो वानराधिपः।कुमारमङ्गदं वीरं शक्रतुल्यपराक्रमम्॥ ७५गच्छैनं राक्षसं वीर योऽसौ तुरगमास्थितः।क्षोभयन्तं हरिबलं क्षिप्रं प्राणैर्वियोजय॥ ७६स भर्तुर्वचनं श्रुत्वा निष्पपाताङ्गदस्तदा।अनीकान्मेघसंकाशान्मेघानीकादिवांशुमान्॥ ७७शैलसंघातसंकाशो हरीणामुत्तमोऽङ्गदः।रराजाङ्गदसंनद्धः सधातुरिव पर्वतः॥ ७८निरायुधो महातेजाः केवलं नखदंष्ट्रवान्।नरान्तकमभिक्रम्य वालिपुत्रोऽब्रवीद्वचः॥ ७९तिष्ठ किं प्राकृतैरेभिर्हरिभिस्त्वं करिष्यसि।अस्मिन्वज्रसमस्पर्शे प्रासं क्षिप ममोरसि॥ ८०अङ्गदस्य वचः श्रुत्वा प्रचुक्रोध नरान्तकः।संदश्य दशनैरोष्ठं निश्वस्य च भुजंगवत्॥ ८१स प्रासमाविध्य तदाङ्गदायसमुज्ज्वलन्तं सहसोत्ससर्ज।स वालिपुत्रोरसि वज्रकल्पेबभूव भग्नो न्यपतच्च भूमौ॥ ८२तं प्रासमालोक्य तदा विभग्नंसुपर्णकृत्तोरगभोगकल्पम्।तलं समुद्यम्य स वालिपुत्रस्तुरंगमस्याभिजघान मूर्ध्नि॥ ८३निमग्नपादः स्फुटिताक्षि तारोनिष्क्रान्तजिह्वोऽचलसंनिकाशः।स तस्य वाजी निपपात भूमौतलप्रहारेण विकीर्णमूर्धा॥ ८४नरान्तकः क्रोधवशं जगामहतं तुरगं पतितं निरीक्ष्य।स मुष्टिमुद्यम्य महाप्रभावोजघान शीर्षे युधि वालिपुत्रम्॥ ८५अथाङ्गदो मुष्टिविभिन्नमूर्धासुस्राव तीव्रं रुधिरं भृशोष्णम्।मुहुर्विजज्वाल मुमोह चापिसंज्ञां समासाद्य विसिष्मिये च॥ ८६अथाङ्गदो वज्रसमानवेगंसंवर्त्य मुष्टिं गिरिशृङ्गकल्पम्।निपातयामास तदा महात्मानरान्तकस्योरसि वालिपुत्रः॥ ८७स मुष्टिनिष्पिष्टविभिन्नवक्षाज्वालां वमञ्शोणितदिग्धगात्रः।नरान्तको भूमितले पपातयथाचलो वज्रनिपातभग्नः॥ ८८अथान्तरिक्षे त्रिदशोत्तमानांवनौकसां चैव महाप्रणादः।बभूव तस्मिन्निहतेऽग्र्यवीरेनरान्तके वालिसुतेन संख्ये॥ ८९अथाङ्गदो राममनः प्रहर्षणंसुदुष्करं तं कृतवान्हि विक्रमम्।विसिष्मिये सोऽप्यतिवीर्य विक्रमःपुनश्च युद्धे स बभूव हर्षितः॥ ९०इति श्रीरामायणे युद्धकाण्डे सप्तपञ्चाशः सर्गः ॥ ५७
वाल्मीकिरामायणम् Baroda Critical EditionCC0. No rights reserved