५९ सर्गः
स्वबलं व्यथितं दृष्ट्वा तुमुलं लोमहर्षणम्भ्रातॄंश्च निहतान्दृष्ट्वा शक्रतुल्यपराक्रमान्तं लक्ष्मणोत्सृष्टममोघवेगंसमापतन्तं ज्वलनप्रकाशम्।सुवर्णवज्रोत्तमचित्रपुङ्खंतदातिकायः समरे ददर्श॥ १पितृव्यौ चापि संदृश्य समरे संनिषूदितौमहोदरमहापार्श्वौ भ्रातरौ राक्षसर्षभौतं प्रेक्षमाणः सहसातिकायोजघान बाणैर्निशितैरनेकैः।स सायकस्तस्य सुपर्णवेगस्तदातिवेगेन जगाम पार्श्वम्॥ २चुकोप च महातेजा ब्रह्मदत्तवरो युधिअतिकायोऽद्रिसंकाशो देवदानवदर्पहातमागतं प्रेक्ष्य तदातिकायोबाणं प्रदीप्तान्तककालकल्पम्।जघान शक्त्यृष्टिगदाकुठारैःशूलैर्हलैश्चाप्यविपन्नचेष्टः॥ ३स भास्करसहस्रस्य संघातमिव भास्वरम्रथमास्थाय शक्रारिरभिदुद्राव वानरान्तान्यायुधान्यद्भुतविग्रहाणिमोघानि कृत्वा स शरोऽग्निदीप्तः।प्रसह्य तस्यैव किरीटजुष्टंतदातिकायस्य शिरो जहार॥ ४स विस्फार्य महच्चापं किरीटी मृष्टकुण्डलः।नाम विश्रावयामास ननाद च महास्वनम्।तच्छिरः सशिरस्त्राणं लक्ष्मणेषुप्रपीडितम्।पपात सहसा भूमौ शृङ्गं हिमवतो यथा॥ ५तेन सिंहप्रणादेन नामविश्रावणेन चज्याशब्देन च भीमेन त्रासयामास वानरान्प्रहर्षयुक्ता बहवस्तु वानराप्रबुद्धपद्मप्रतिमाननास्तदा।अपूजयँल्लक्ष्मणमिष्टभागिनंहते रिपौ भीमबले दुरासदे॥ ६ते तस्य रूपमालोक्य यथा विष्णोस्त्रिविक्रमे।भयार्ता वानराः सर्वे विद्रवन्ति दिशो दश॥ ७तेऽतिकायं समासाद्य वानरा मूढचेतसः।शरण्यं शरणं जग्मुर्लक्ष्मणाग्रजमाहवे॥ ८ततोऽतिकायं काकुत्स्थो रथस्थं पर्वतोपमम्।ददर्श धन्विनं दूराद्गर्जन्तं कालमेघवत्॥ ९स तं दृष्ट्वा महात्मानं राघवस्तु सुविस्मितः।वानरान्सान्त्वयित्वा तु विभीषणमुवाच ह॥ १०कोऽसौ पर्वतसंकाशो धनुष्मान्हरिलोचनः।युक्ते हयसहस्रेण विशाले स्यन्दने स्थितः॥ ११य एष निशितैः शूलैः सुतीक्ष्णैः प्रासतोमरैः।अर्चिष्मद्भिर्वृतो भाति भूतैरिव महेश्वरः॥ १२कालजिह्वाप्रकाशाभिर्य एषोऽभिविराजते।आवृतो रथशक्तीभिर्विद्युद्भिरिव तोयदः॥ १३धनूंसि चास्य सज्यानि हेमपृष्ठानि सर्वशः।शोभयन्ति रथश्रेष्ठं शक्रपातमिवाम्बरम्॥ १४क एष रक्षः शार्दूलो रणभूमिं विराजयन्।अभ्येति रथिनां श्रेष्ठो रथेनादित्यतेजसा॥ १५ध्वजशृङ्गप्रतिष्ठेन राहुणाभिविराजते।सूर्यरश्मिप्रभैर्बाणैर्दिशो दश विराजयन्॥ १६त्रिणतं मेघनिर्ह्रादं हेमपृष्ठमलंकृतम्।शतक्रतुधनुःप्रख्यं धनुश्चास्य विराजते॥ १७सध्वजः सपताकश्च सानुकर्षो महारथः।चतुःसादिसमायुक्तो मेघस्तनितनिस्वनः॥ १८विंशतिर्दश चाष्टौ च तूणीररथमास्थिताः।कार्मुकाणि च भीमानि ज्याश्च काञ्चनपिङ्गलाः॥ १९द्वौ च खड्गौ रथगतौ पार्श्वस्थौ पार्श्वशोभिनौ।चतुर्हस्तत्सरुचितौ व्यक्तहस्तदशायतौ॥ २०रक्तकण्ठगुणो धीरो महापर्वतसंनिभः।कालः कालमहावक्त्रो मेघस्थ इव भास्करः॥ २१काञ्चनाङ्गदनद्धाभ्यां भुजाभ्यामेष शोभते।शृङ्गाभ्यामिव तुङ्गाभ्यां हिमवान्पर्वतोत्तमः॥ २२कुण्डलाभ्यां तु यस्यैतद्भाति वक्त्रं शुभेक्षणम्।पुनर्वस्वन्तरगतं पूर्णबिम्बमिवैन्दवम्॥ २३आचक्ष्व मे महाबाहो त्वमेनं राक्षसोत्तमम्।यं दृष्ट्वा वानराः सर्वे भयार्ता विद्रुता दिशः॥ २४स पृष्ठो राजपुत्रेण रामेणामिततेजसा।आचचक्षे महातेजा राघवाय विभीषणः॥ २५दशग्रीवो महातेजा राजा वैश्रवणानुजः।भीमकर्मा महोत्साहो रावणो राक्षसाधिपः॥ २६तस्यासीद्वीर्यवान्पुत्रो रावणप्रतिमो रणे।वृद्धसेवी श्रुतधरः सर्वास्त्रविदुषां वरः॥ २७अश्वपृष्ठे रथे नागे खड्गे धनुषि कर्षणे।भेदे सान्त्वे च दाने च नये मन्त्रे च संमतः॥ २८यस्य बाहुं समाश्रित्य लङ्का भवति निर्भया।तनयं धान्यमालिन्या अतिकायमिमं विदुः॥ २९एतेनाराधितो ब्रह्मा तपसा भावितात्मना।अस्त्राणि चाप्यवाप्तानि रिपवश्च पराजिताः॥ ३०सुरासुरैरवध्यत्वं दत्तमस्मै स्वयम्भुवा।एतच्च कवचं दिव्यं रथश्चैषोऽर्कभास्करः॥ ३१एतेन शतशो देवा दानवाश्च पराजिताः।रक्षितानि च रक्षामि यक्षाश्चापि निषूदिताः॥ ३२वज्रं विष्टम्भितं येन बाणैरिन्द्रस्य धीमतः।पाशः सलिलराजस्य युद्धे प्रतिहतस्तथा॥ ३३एषोऽतिकायो बलवान्राक्षसानामथर्षभः।रावणस्य सुतो धीमान्देवदनव दर्पहा॥ ३४तदस्मिन्क्रियतां यत्नः क्षिप्रं पुरुषपुंगव।पुरा वानरसैन्यानि क्षयं नयति सायकैः॥ ३५ततोऽतिकायो बलवान्प्रविश्य हरिवाहिनीम्।विस्फारयामास धनुर्ननाद च पुनः पुनः॥ ३६तं भीमवपुषं दृष्ट्वा रथस्थं रथिनां वरम्।अभिपेतुर्महात्मानो ये प्रधानाः प्लवंगमाः॥ ३७कुमुदो द्विविदो मैन्दो नीलः शरभ एव च।पादपैर्गिरिशृङ्गैश्च युगपत्समभिद्रवन्॥ ३८तेषां वृक्षांश्च शैलांश्च शरैः काञ्चनभूषणैः।अतिकायो महातेजाश्चिच्छेदास्त्रविदां वरः॥ ३९तांश्चैव सरान्स हरीञ्शरैः सर्वायसैर्बली।विव्याधाभिमुखः संख्ये भीमकायो निशाचरः॥ ४०तेऽर्दिता बाणबर्षेण भिन्नगात्राः प्लवंगमाः।न शेकुरतिकायस्य प्रतिकर्तुं महारणे॥ ४१तत्सैन्यं हरिवीराणां त्रासयामास राक्षसः।मृगयूथमिव क्रुद्धो हरिर्यौवनमास्थितः॥ ४२स राषसेन्द्रो हरिसैन्यमध्येनायुध्यमानं निजघान कंचित्।उपेत्य रामं सधनुः कलापीसगर्वितं वाक्यमिदं बभाषे॥ ४३रथे स्थितोऽहं शरचापपाणिर्न प्राकृतं कंचन योधयामि।यस्यास्ति शक्तिर्व्यवसाय युक्ताददातुं मे क्षिप्रमिहाद्य युद्धम्॥ ४४तत्तस्य वाक्यं ब्रुवतो निशम्यचुकोप सौमित्रिरमित्रहन्ता।अमृष्यमाणश्च समुत्पपातजग्राह चापं च ततः स्मयित्वा॥ ४५क्रुद्धः सौमित्रिरुत्पत्य तूणादाक्षिप्य सायकम्।पुरस्तादतिकायस्य विचकर्ष महद्धनुः॥ ४६पूरयन्स महीं शैलानाकाशं सागरं दिशः।ज्याशब्दो लक्ष्मणस्योग्रस्त्रासयन्रजनीचरान्॥ ४७सौमित्रेश्चापनिर्घोषं श्रुत्वा प्रतिभयं तदा।विसिष्मिये महातेजा राक्षसेन्द्रात्मजो बली॥ ४८अथातिकायः कुपितो दृष्ट्वा लक्ष्मणमुत्थितम्।आदाय निशितं बाणमिदं वचनमब्रवीत्॥ ४९बालस्त्वमसि सौमित्रे विक्रमेष्वविचक्षणः।गच्छ किं कालसदृशं मां योधयितुमिच्छसि॥ ५०न हि मद्बाहुसृष्टानामस्त्राणां हिमवानपि।सोढुमुत्सहते वेगमन्तरिक्षमथो मही॥ ५१सुखप्रसुप्तं कालाग्निं प्रबोधयितुमिच्छसि।न्यस्य चापं निवर्तस्व मा प्राणाञ्जहि मद्गतः॥ ५२अथ वा त्वं प्रतिष्टब्धो न निवर्तितुमिच्छसि।तिष्ठ प्राणान्परित्यज्य गमिष्यसि यमक्षयम्॥ ५३पश्य मे निशितान्बाणानरिदर्पनिषूदनान्।ईश्वरायुधसंकाशांस्तप्तकाञ्चनभूषणान्॥ ५४एष ते सर्पसंकाशो बाणः पास्यति शोणितम्।मृगराज इव क्रुद्धो नागराजस्य शोणितम्॥ ५५श्रुत्वातिकायस्य वचः सरोषंसगर्वितं संयति राजपुत्रः।स संचुकोपातिबलो बृहच्छ्रीरुवाच वाक्यं च ततो महार्थम्॥ ५६न वाक्यमात्रेण भवान्प्रधानोन कत्थनात्सत्पुरुषा भवन्ति।मयि स्थिते धन्विनि बाणपाणौविदर्शयस्वात्मबलं दुरात्मन्॥ ५७कर्मणा सूचयात्मानं न विकत्थितुमर्हसि।पौरुषेण तु यो युक्तः स तु शूर इति स्मृतः॥ ५८सर्वायुधसमायुक्तो धन्वी त्वं रथमास्थितः।शरैर्वा यदि वाप्यस्त्रैर्दर्शयस्व पराक्रमम्॥ ५९ततः शिरस्ते निशितैः पातयिष्याम्यहं शरैः।मारुतः कालसंपक्वं वृन्तात्तालफलं यथा॥ ६०अद्य ते मामका बाणास्तप्तकाञ्चनभूषणाः।पास्यन्ति रुधिरं गात्राद्बाणशल्यान्तरोत्थितम्॥ ६१बालोऽयमिति विज्ञाय न मावज्ञातुमर्हसि।बालो वा यदि वा वृद्धो मृत्युं जानीहि संयुगे॥ ६२लक्ष्मणस्य वचः श्रुत्वा हेतुमत्परमार्थवत्।अतिकायः प्रचुक्रोध बाणं चोत्तममाददे॥ ६३ततो विद्याधरा भूता देवा दैत्या महर्षयः।गुह्यकाश्च महात्मानस्तद्युद्धं ददृशुस्तदा॥ ६४ततोऽतिकायः कुपितश्चापमारोप्य सायकम्।लक्ष्मणस्य प्रचिक्षेप संक्षिपन्निव चाम्बरम्॥ ६५तमापतन्तं निशितं शरमाशीविषोपमम्।अर्धचन्द्रेण चिच्छेद लक्ष्मणः परवीरहा॥ ६६तं निकृत्तं शरं दृष्ट्वा कृत्तभोगमिवोरगम्।अतिकायो भृशं क्रुद्धः पञ्चबाणान्समाददे॥ ६७ताञ्शरान्संप्रचिक्षेप लक्ष्मणाय निशाचरः।तानप्राप्ताञ्शरैस्तीक्ष्णैश्चिच्छेद भरतानुजः॥ ६८स तांश्छित्त्वा शरैस्तीक्ष्णैर्लक्ष्मणः परवीरहा।आददे निशितं बाणं ज्वलन्तमिव तेजसा॥ ६९तमादाय धनुः श्रेष्ठे योजयामास लक्ष्मणः।विचकर्ष च वेगेन विससर्ज च सायकम्॥ ७०पूर्णायतविसृष्टेन शरेणानत पर्वणा।ललाटे राक्षसश्रेष्ठमाजघान स वीर्यवान्॥ ७१स ललाटे शरो मग्नस्तस्य भीमस्य रक्षसः।ददृशे शोणितेनाक्तः पन्नगेन्द्र इवाहवे॥ ७२राक्षसः प्रचकम्पे च लक्ष्मणेषु प्रकम्पितः।रुद्रबाणहतं भीमं यथा त्रिपुरगोपुरम्॥ ७३चिन्तयामास चाश्वस्य विमृश्य च महाबलः।साधु बाणनिपातेन श्वाघनीयोऽसि मे रिपुः॥ ७४विचार्यैवं विनम्यास्यं विनम्य च भुजावुभौ।स रथोपस्थमास्थाय रथेन प्रचचार ह॥ ७५एकं त्रीन्पञ्च सप्तेति सायकान्राक्षसर्षभः।आददे संदधे चापि विचकर्षोत्ससर्ज च॥ ७६ते बाणाः कालसंकाशा राक्षसेन्द्रधनुश्च्युताः।हेमपुङ्खा रविप्रख्याश्चक्रुर्दीप्तमिवाम्बरम्॥ ७७ततस्तान्राक्षसोत्सृष्टाञ्शरौघान्रावणानुजः।असंभ्रान्तः प्रचिच्छेद निशितैर्बहुभिः शरैः॥ ७८ताञ्शरान्युधि संप्रेक्ष्य निकृत्तान्रावणात्मजः।चुकोप त्रिदशेन्द्रारिर्जग्राह निशितं शरम्॥ ७९स संधाय महातेजास्तं बाणं सहसोत्सृजत्।ततः सौमित्रिमायान्तमाजघान स्तनान्तरे॥ ८०अतिकायेन सौमित्रिस्ताडितो युधि वक्षसि।सुस्राव रुधिरं तीव्रं मदं मत्त इव द्विपः॥ ८१स चकार तदात्मानं विशल्यं सहसा विभुः।जग्राह च शरं तीष्णमस्त्रेणापि समादधे॥ ८२आग्नेयेन तदास्त्रेण योजयामास सायकम्।स जज्वाल तदा बाणो धनुश्चास्य महात्मनः॥ ८३अतिकायोऽतितेजस्वी सौरमस्त्रं समाददे।तेन बाणं भुजंगाभं हेमपुङ्खमयोजयत्॥ ८४ततस्तं ज्वलितं घोरं लक्ष्मणः शरमाहितम्।अतिकायाय चिक्षेप कालदण्डमिवान्तकः॥ ८५आग्नेयेनाभिसंयुक्तं दृष्ट्वा बाणं निशाचरः।उत्ससर्ज तदा बाणं दीप्तं सूर्यास्त्रयोजितम्॥ ८६तावुभावम्बरे बाणावन्योन्यमभिजघ्नतुः।तेजसा संप्रदीप्ताग्रौ क्रुद्धाविव भुजं गमौ॥ ८७तावन्योन्यं विनिर्दह्य पेततुर्धरणीतले।निरर्चिषौ भस्मकृतौ न भ्राजेते शरोत्तमौ॥ ८८ततोऽतिकायः संक्रुद्धस्त्वस्त्रमैषीकमुत्सृजत्।तत्प्रचिच्छेद सौमित्रिरस्त्रमैन्द्रेण वीर्यवान्॥ ८९ऐषीकं निहतं दृष्ट्वा कुमारो रावणात्मजः।याम्येनास्त्रेण संक्रुद्धो योजयामास सायकम्॥ ९०ततस्तदस्त्रं चिक्षेप लक्ष्मणाय निशाचरः।वायव्येन तदस्त्रं तु निजघान स लक्ष्मणः॥ ९१अथैनं शरधाराभिर्धाराभिरिव तोयदः।अभ्यवर्षत संक्रुद्धो लक्ष्मणो रावणात्मजम्॥ ९२तेऽतिकायं समासाद्य कवचे वज्रभूषिते।भग्नाग्रशल्याः सहसा पेतुर्बाणा महीतले॥ ९३तान्मोघानभिसंप्रेक्ष्य लक्ष्मणः परवीरहा।अभ्यवर्षत बाणानां सहस्रेण महायशाः॥ ९४स वर्ष्यमाणो बाणौघैरतिकायो महाबलः।अवध्यकवचः संख्ये राक्षसो नैव विव्यथे॥ ९५न शशाक रुजं कर्तुं युधि तस्य नरोत्तमः।अथैनमभ्युपागम्य वायुर्वाक्यमुवाच ह॥ ९६ब्रह्मदत्तवरो ह्येष अवध्य कवचावृतः।ब्राह्मेणास्त्रेण भिन्ध्येनमेष वध्यो हि नान्यथा॥ ९७ततः स वायोर्वचनं निशम्यसौमित्रिरिन्द्रप्रतिमानवीर्यः।समाददे बाणममोघवेगंतद्ब्राह्ममस्त्रं सहसा नियोज्य॥ ९८तस्मिन्वरास्त्रे तु नियुज्यमानेसौमित्रिणा बाणवरे शिताग्रे।दिशः सचन्द्रार्कमहाग्रहाश्चनभश्च तत्रास ररास चोर्वी॥ ९९तं ब्रह्मणोऽस्त्रेण नियुज्य चापेशरं सुपुङ्खं यमदूतकल्पम्।सौमित्रिरिन्द्रारिसुतस्य तस्यससर्ज बाणं युधि वज्रकल्पम्॥ ०इति श्रीरामायणे युद्धकाण्डे एकोनषष्टितमः सर्गः ॥ ५९
वाल्मीकिरामायणम् Baroda Critical EditionCC0. No rights reserved