६० सर्गः
ततो हतान्राक्षसपुंगवांस्तान्देवान्तकादित्रिशिरोऽतिकायान्।रक्षोगणास्तत्र हतावशिष्टास्ते रावणाय त्वरितं शशंसुः॥ १ततो हतांस्तान्सहसा निशम्यराजा मुमोहाश्रुपरिप्लुताक्षः।पुत्रक्षयं भ्रातृवधं च घोरंविचिन्त्य राजा विपुलं प्रदध्यौ॥ २ततस्तु राजानमुदीक्ष्य दीनंशोकार्णवे संपरिपुप्लुवानम्।अथर्षभो राक्षसराजसूनुरथेन्द्रजिद्वाक्यमिदं बभाषे॥ ३न तात मोहं प्रतिगन्तुमर्हसियत्रेन्द्रजिज्जीवति राक्षसेन्द्र।नेन्द्रारिबाणाभिहतो हि कश्चित्प्राणान्समर्थः समरेऽभिधर्तुम्॥ ४पश्याद्य रामं सहलक्ष्मणेनमद्बाणनिर्भिन्नविकीर्णदेहम्।गतायुषं भूमितले शयानंशरैः शितैराचितसर्वगात्रम्॥ ५इमां प्रतिज्ञां शृणु शक्रशत्रोःसुनिश्चितां पौरुषदैवयुक्ताम्।अद्यैव रामं सहलक्ष्मणेनसंतापयिष्यामि शरैरमोघैः॥ ६अद्येन्द्रवैवस्वतविष्णुमित्रसाध्याश्विवैश्वानरचन्द्रसूर्याः।द्रक्ष्यन्ति मे विक्रममप्रमेयंविष्णोरिवोग्रं बलियज्ञवाटे॥ ७स एवमुक्त्वा त्रिदशेन्द्रशत्रुरापृच्छ्य राजानमदीनसत्त्वः।समारुरोहानिलतुल्यवेगंरथं खरश्रेष्ठसमाधियुक्तम्॥ ८समास्थाय महातेजा रथं हरिरथोपमम्।जगाम सहसा तत्र यत्र युद्धमरिंदम॥ ९तं प्रस्थितं महात्मानमनुजग्मुर्महाबलाः।संहर्षमाणा बहवो धनुःप्रवरपाणयः॥ १०गजस्कन्धगताः केचित्केचित्परमवाजिभिः।प्रासमुद्गरनिस्त्रिंश परश्वधगदाधराः॥ ११स शङ्खनिनदैर्भीमैर्भेरीणां च महास्वनैः।जगाम त्रिदशेन्द्रारिः स्तूयमानो निशाचरैः॥ १२स शङ्खशशिवर्णेन छत्रेण रिपुसादनः।रराज परिपूर्णेन नभश्चन्द्रमसा यथा॥ १३अवीज्यत ततो वीरो हैमैर्हेमविभूषितैः।चारुचामरमुख्यैश्च मुख्यः सर्वधनुष्मताम्॥ १४ततस्त्विन्द्रजिता लङ्का सूर्यप्रतिमतेजसा।रराजाप्रतिवीर्येण द्यौरिवार्केण भास्वता॥ १५स तु दृष्ट्वा विनिर्यान्तं बलेन महता वृतम्।राक्षसाधिपतिः श्रीमान्रावणः पुत्रमब्रवीत्॥ १६त्वमप्रतिरथः पुत्र जितस्ते युधि वासवः।किं पुनर्मानुषं धृष्यं न वधिष्यसि राघवम्॥ १७तथोक्तो राक्षसेन्द्रेण प्रतिगृह्य महाशिषः।रथेनाश्वयुजा वीरः शीघ्रं गत्वा निकुम्भिलाम्॥ १८स संप्राप्य महातेजा युद्धभूमिमरिंदमः।स्थापयामास रक्षांसि रथं प्रति समन्ततः॥ १९ततस्तु हुतभोक्तारं हुतभुक्सदृशप्रभः।जुहुवे राक्षसश्रेष्ठो मन्त्रवद्विधिवत्तदा॥ २०स हविर्जालसंस्कारैर्माल्यगन्धपुरस्कृतैः।जुहुवे पावकं तत्र राक्षसेन्द्रः प्रतापवान्॥ २१शस्त्राणि शरपत्राणि समिधोऽथ विभीतकः।लोहितानि च वासांसि स्रुवं कार्ष्णायसं तथा॥ २२स तत्राग्निं समास्तीर्य शरपत्रैः सतोमरैः।छागस्य सर्वकृष्णस्य गलं जग्राह जीवतः॥ २३सकृदेव समिद्धस्य विधूमस्य महार्चिषः।बभूवुस्तानि लिङ्गानि विजयं यान्यदर्शयन्॥ २४प्रदक्षिणावर्तशिखस्तप्तकाञ्चनसंनिभः।हविस्तत्प्रतिजग्राह पावकः स्वयमुत्थितः॥ २५सोऽस्त्रमाहारयामास ब्राह्ममस्त्रविदां वरः।धनुश्चात्मरथं चैव सर्वं तत्राभ्यमन्त्रयत्॥ २६तस्मिन्नाहूयमानेऽस्त्रे हूयमाने च पावके।सार्कग्रहेन्दु नक्षत्रं वितत्रास नभस्तलम्॥ २७स पावकं पावकदीप्ततेजाहुत्वा महेन्द्रप्रतिमप्रभावः।सचापबाणासिरथाश्वसूतःखेऽन्तर्दध आत्मानमचिन्त्यरूपः॥ २८स सैन्यमुत्सृज्य समेत्य तूर्णंमहारणे वानरवाहिनीषु।अदृश्यमानः शरजालमुग्रंववर्ष नीलाम्बुधरो यथाम्बु॥ २९ते शक्रजिद्बाणविशीर्णदेहामायाहता विस्वरमुन्नदन्तः।रणे निपेतुर्हरयोऽद्रिकल्पायथेन्द्रवज्राभिहता नगेन्द्राः॥ ३०ते केवलं संददृशुः शिताग्रान्बाणान्रणे वानरवाहिनीषु।माया निगूढं च सुरेन्द्रशत्रुंन चात्र तं राक्षसमभ्यपश्यन्॥ ३१ततः स रक्षोऽधिपतिर्महात्मासर्वा दिशो बाणगणैः शिताग्रैः।प्रच्छादयामास रविप्रकाशैर्विषादयामास च वानरेन्द्रान्॥ ३२स शूलनिस्त्रिंश परश्वधानिव्याविध्य दीप्तानलसंनिभानि।सविस्फुलिङ्गोज्ज्वलपावकानिववर्ष तीव्रं प्लवगेन्द्रसैन्ये॥ ३३ततो ज्वलनसंकाशैः शितैर्वानरयूथपाः।ताडिताः शक्रजिद्बाणैः प्रफुल्ला इव किंशुकाः॥ ३४अन्योन्यमभिसर्पन्तो निनदन्तश्च विस्वरम्।राक्षसेन्द्रास्त्रनिर्भिन्ना निपेतुर्वानरर्षभाः॥ ३५उदीक्षमाणा गगनं केचिन्नेत्रेषु ताडिताः।शरैर्विविशुरन्योन्यं पेतुश्च जगतीतले॥ ३६हनूमन्तं च सुग्रीवमङ्गदं गन्धमादनम्।जाम्बवन्तं सुषेणं च वेगदर्शिनमेव च॥ ३७मैन्दं च द्विविदं नीलं गवाक्षं गजगोमुखौ।केसरिं हरिलोमानं विद्युद्दंष्ट्रं च वानरम्॥ ३८सूर्याननं ज्योतिमुखं तथा दधिमुखं हरिम्।पावकाक्षं नलं चैव कुमुदं चैव वानरम्॥ ३९प्रासैः शूलैः शितैर्बाणैरिन्द्रजिन्मन्त्रसंहितैः।विव्याध हरिशार्दूलान्सर्वांस्तान्राक्षसोत्तमः॥ ४०स वै गदाभिर्हरियूथमुख्यान्निर्भिद्य बाणैस्तपनीयपुङ्खैः।ववर्ष रामं शरवृष्टिजालैःसलक्ष्मणं भास्कररश्मिकल्पैः॥ ४१स बाणवर्षैरभिवर्ष्यमाणोधारानिपातानिव तान्विचिन्त्य।समीक्षमाणः परमाद्भुतश्रीरामस्तदा लक्ष्मणमित्युवाच॥ ४२असौ पुनर्लक्ष्मण राक्षसेन्द्रोब्रह्मास्त्रमाश्रित्य सुरेन्द्रशत्रुः।निपातयित्वा हरिसैन्यमुग्रमस्माञ्शरैरर्दयति प्रसक्तम्॥ ४३स्वयम्भुवा दत्तवरो महात्माखमास्थितोऽन्तर्हितभीमकायः।कथं नु शक्यो युधि नष्टदेहोनिहन्तुमद्येन्द्रजिदुद्यतास्त्रः॥ ४४मन्ये स्वयम्भूर्भगवानचिन्त्योयस्यैतदस्त्रं प्रभवश्च योऽस्य।बाणावपातांस्त्वमिहाद्य धीमन्मया सहाव्यग्रमनाः सहस्व॥ ४५प्रच्छादयत्येष हि राक्षसेन्द्रःसर्वा दिशः सायकवृष्टिजालैः।एतच्च सर्वं पतिताग्र्यवीरंन भ्राजते वानरराजसैन्यम्॥ ४६आवां तु दृष्ट्वा पतितौ विसंज्ञौनिवृत्तयुद्धौ हतरोषहर्षौ।ध्रुवं प्रवेक्ष्यत्यमरारिवासंअसौ समादाय रणाग्रलक्ष्मीम्॥ ४७ततस्तु ताविन्द्रजिदस्त्रजालैर्बभूवतुस्तत्र तदा विशस्तौ।स चापि तौ तत्र विषादयित्वाननाद हर्षाद्युधि राक्षसेन्द्रः॥ ४८स तत्तदा वानरराजसैन्यंरामं च संख्ये सहलक्ष्मणेन।विषादयित्वा सहसा विवेशपुरीं दशग्रीवभुजाभिगुप्ताम्॥ ४९इति श्रीरामायणे युद्धकाण्डे षष्टितमः सर्गः ॥ ६०
वाल्मीकिरामायणम् Baroda Critical EditionCC0. No rights reserved