६१ सर्गः
तयोस्तदा सादितयो रणाग्रेमुमोह सैन्यं हरियूथपानाम्।सुग्रीवनीलाङ्गदजाम्बवन्तोन चापि किंचित्प्रतिपेदिरे ते॥ १ततो विषण्णं समवेक्ष्य सैन्यंविभीषणो बुद्धिमतां वरिष्ठः।उवाच शाखामृगराजवीरानाश्वासयन्नप्रतिमैर्वचोभिः॥ २मा भैष्ट नास्त्यत्र विषादकालोयदार्यपुत्राववशौ विषण्णौ।स्वयम्भुवो वाक्यमथोद्वहन्तौयत्सादिताविन्द्रजिदस्त्रजालैः॥ ३तस्मै तु दत्तं परमास्त्रमेतत्स्वयम्भुवा ब्राह्मममोघवेगम्।तन्मानयन्तौ यदि राजपुत्रौनिपातितौ कोऽत्र विषादकालः॥ ४ब्राह्ममस्त्रं तदा धीमान्मानयित्वा तु मारुतिः।विभीषणवचः श्रुत्वा हनूमांस्तमथाब्रवीत्॥ ५एतस्मिन्निहते सैन्ये वानराणां तरस्विनाम्।यो यो धारयते प्राणांस्तं तमाश्वासयावहे॥ ६तावुभौ युगपद्वीरौ हनूमद्राक्षसोत्तमौ।उल्काहस्तौ तदा रात्रौ रणशीर्षे विचेरतुः॥ ७छिन्नलाङ्गूलहस्तोरुपादाङ्गुलि शिरो धरैः।स्रवद्भिः क्षतजं गात्रैः प्रस्रवद्भिः समन्ततः॥ ८पतितैः पर्वताकारैर्वानरैरभिसंकुलाम्।शस्त्रैश्च पतितैर्दीप्तैर्ददृशाते वसुंधराम्॥ ९सुग्रीवमङ्गदं नीलं शरभं गन्धमादनम्।जाम्बवन्तं सुषेणं च वेगदर्शनमाहुकम्॥ १०मैन्दं नलं ज्योतिमुखं द्विविदं पनसं तथा।विभीषणो हनूमांश्च ददृशाते हतान्रणे॥ ११सप्तषष्टिर्हताः कोट्यो वानराणां तरस्विनाम्।अह्नः पञ्चमशेषेण वल्लभेन स्वयम्भुवः॥ १२सागरौघनिभं भीमं दृष्ट्वा बाणार्दितं बलम्।मार्गते जाम्बवन्तं स्म हनूमान्सविभीषणः॥ १३स्वभावजरया युक्तं वृद्धं शरशतैश्चितम्।प्रजापतिसुतं वीरं शाम्यन्तमिव पावकम्॥ १४दृष्ट्वा तमुपसंगम्य पौलस्त्यो वाक्यमब्रवीत्।कच्चिदार्यशरैस्तीर्ष्णैर्न प्राणा ध्वंसितास्तव॥ १५विभीषणवचः श्रुत्वा जाम्बवानृक्षपुंगवः।कृच्छ्रादभ्युद्गिरन्वाक्यमिदं वचनमब्रवीत्॥ १६नैरृतेन्द्रमहावीर्यस्वरेण त्वाभिलक्षये।पीड्यमानः शितैर्बाणैर्न त्वां पश्यामि चक्षुषा॥ १७अञ्जना सुप्रजा येन मातरिश्वा च नैरृत।हनूमान्वानरश्रेष्ठः प्राणान्धारयते क्वचित्॥ १८श्रुत्वा जाम्बवतो वाक्यमुवाचेदं विभीषणः।आर्यपुत्रावतिक्रम्य कस्मात्पृच्छसि मारुतिम्॥ १९नैव राजनि सुग्रीवे नाङ्गदे नापि राघवे।आर्य संदर्शितः स्नेहो यथा वायुसुते परः॥ २०विभीषणवचः श्रुत्वा जाम्बवान्वाक्यमब्रवीत्।शृणु नैरृतशार्दूल यस्मात्पृच्छामि मारुतिम्॥ २१तस्मिञ्जीवति वीरे तु हतमप्यहतं बलम्।हनूमत्युज्झितप्राणे जीवन्तोऽपि वयं हताः॥ २२ध्रियते मारुतिस्तात मारुतप्रतिमो यदि।वैश्वानरसमो वीर्ये जीविताशा ततो भवेत्॥ २३ततो वृद्धमुपागम्य नियमेनाभ्यवादयत्।गृह्य जाम्बवतः पादौ हनूमान्मारुतात्मजः॥ २४श्रुत्वा हनुमतो वाक्यं तथापि व्यथितेन्द्रियः।पुनर्जातमिवात्मानं स मेने ऋक्षपुंगवः॥ २५ततोऽब्रवीन्महातेजा हनूमन्तं स जाम्बवान्।आगच्छ हरिशार्दूलवानरांस्त्रातुमर्हसि॥ २६नान्यो विक्रमपर्याप्तस्त्वमेषां परमः सखा।त्वत्पराक्रमकालोऽयं नान्यं पश्यामि कञ्चन॥ २७ऋक्षवानरवीराणामनीकानि प्रहर्षय।विशल्यौ कुरु चाप्येतौ सादितौ रामलक्ष्मणौ॥ २८गत्वा परममध्वानमुपर्युपरि सागरम्।हिमवन्तं नगश्रेष्ठं हनूमन्गन्तुमर्हसि॥ २९ततः काञ्चनमत्युग्रमृषभं पर्वतोत्तमम्।कैलासशिखरं चापि द्रक्ष्यस्यरिनिषूदन॥ ३०तयोः शिखरयोर्मध्ये प्रदीप्तमतुलप्रभम्।सर्वौषधियुतं वीर द्रक्ष्यस्यौषधिपर्वतम्॥ ३१तस्य वानरशार्दूलचतस्रो मूर्ध्नि संभवाः।द्रक्ष्यस्योषधयो दीप्ता दीपयन्त्यो दिशो दश॥ ३२मृतसंजीवनीं चैव विशल्यकरणीमपि।सौवर्णकरणीं चैव संधानीं च महौषधीम्॥ ३३ताः सर्वा हनुमन्गृह्य क्षिप्रमागन्तुमर्हसि।आश्वासय हरीन्प्राणैर्योज्य गन्धवहात्मजः॥ ३४श्रुत्वा जाम्बवतो वाक्यं हनूमान्हरिपुंगवः।आपूर्यत बलोद्धर्षैस्तोयवेगैरिवार्णवः॥ ३५स पर्वततटाग्रस्थः पीडयन्पर्वतोत्तरम्।हनूमान्दृश्यते वीरो द्वितीय इव पर्वतः॥ ३६हरिपादविनिर्भिन्नो निषसाद स पर्वतः।न शशाक तदात्मानं सोढुं भृशनिपीडितः॥ ३७तस्य पेतुर्नगा भूमौ हरिवेगाच्च जज्वलुः।शृङ्गाणि च व्यकीर्यन्त पीडितस्य हनूमता॥ ३८तस्मिन्संपीड्यमाने तु भग्नद्रुमशिलातले।न शेकुर्वानराः स्थातुं घूर्णमाने नगोत्तमे॥ ३९स घूर्णितमहाद्वारा प्रभग्नगृहगोपुरा।लङ्का त्रासाकुला रात्रौ प्रनृत्तेवाभवत्तदा॥ ४०पृथिवीधरसंकाशो निपीड्य धरणीधरम्।पृथिवीं क्षोभयामास सार्णवां मारुतात्मजः॥ ४१पद्भ्यां तु शैलमापीड्य वडवामुखवन्मुखम्।विवृत्योग्रं ननादोच्चैस्त्रासयन्निव राक्षसान्॥ ४२तस्य नानद्यमानस्य श्रुत्वा निनदमद्भुतम्।लङ्कास्था राक्षसाः सर्वे न शेकुः स्पन्दितुं भयात्॥ ४३नमस्कृत्वाथ रामाय मारुतिर्भीमविक्रमः।राघवार्थे परं कर्म समैहत परंतपः॥ ४४स पुच्छमुद्यम्य भुजंगकल्पंविनम्य पृष्ठं श्रवणे निकुञ्च्य।विवृत्य वक्त्रं वडवामुखाभमापुप्लुवे व्योम्नि स चण्डवेगः॥ ४५स वृक्षषण्डांस्तरसा जहारशैलाञ्शिलाः प्राकृतवानरांश्च।बाहूरुवेगोद्धतसंप्रणुन्नास्ते क्षीणवेगाः सलिले निपेतुः॥ ४६स तौ प्रसार्योरगभोगकल्पौभुजौ भुजंगारिनिकाशवीर्यः।जगाम मेरुं नगराजमग्र्यंदिशः प्रकर्षन्निव वायुसूनुः॥ ४७स सागरं घूर्णितवीचिमालंतदा भृशं भ्रामितसर्वसत्त्वम्।समीक्षमाणः सहसा जगामचक्रं यथा विष्णुकराग्रमुक्तम्॥ ४८स पर्वतान्वृक्षगणान्सरांसिनदीस्तटाकानि पुरोत्तमानि।स्फीताञ्जनांस्तानपि संप्रपश्यञ्जगाम वेगात्पितृतुल्यवेगः॥ ४९आदित्यपथमाश्रित्य जगाम स गतश्रमः।स ददर्श हरिश्रेष्ठो हिमवन्तं नगोत्तमम्॥ ५०नानाप्रस्रवणोपेतं बहुकंदरनिर्झरम्।श्वेताभ्रचयसंकाशैः शिखरैश्चारुदर्शनैः॥ ५१स तं समासाद्य महानगेन्द्रमतिप्रवृद्धोत्तमघोरशृङ्गम्।ददर्श पुण्यानि महाश्रमाणिसुरर्षिसंघोत्तमसेवितानि॥ ५२स ब्रह्मकोशं रजतालयं चशक्रालयं रुद्रशरप्रमोक्षम्।हयाननं ब्रह्मशिरश्च दीप्तंददर्श वैवस्वत किंकरांश्च॥ ५३वज्रालयं वैश्वरणालयं चसूर्यप्रभं सूर्यनिबन्धनं च।ब्रह्मासनं शंकरकार्मुकं चददर्श नाभिं च वसुंधरायाः॥ ५४कैलासमग्र्यं हिमवच्छिलां चतथर्षभं काञ्चनशैलमग्र्यम्।स दीप्तसर्वौषधिसंप्रदीप्तंददर्श सर्वौषधिपर्वतेन्द्रम्॥ ५५स तं समीक्ष्यानलरश्मिदीप्तंविसिष्मिये वासवदूतसूनुः।आप्लुत्य तं चौषधिपर्वतेन्द्रंतत्रौषधीनां विचयं चकार॥ ५६स योजनसहस्राणि समतीत्य महाकपिः।दिव्यौषधिधरं शैलं व्यचरन्मारुतात्मजः॥ ५७महौषध्यस्तु ताः सर्वास्तस्मिन्पर्वतसत्तमे।विज्ञायार्थिनमायान्तं ततो जग्मुरदर्शनम्॥ ५८स ता महात्मा हनुमानपश्यंश्चुकोप कोपाच्च भृशं ननाद।अमृष्यमाणोऽग्निनिकाशचक्षुर्महीधरेन्द्रं तमुवाच वाक्यम्॥ ५९किमेतदेवं सुविनिश्चितं तेयद्राघवे नासि कृतानुकम्पः।पश्याद्य मद्बाहुबलाभिभूतोविकीर्णमात्मानमथो नगेन्द्र॥ ६०स तस्य शृङ्गं सनगं सनागंसकाञ्चनं धातुसहस्रजुष्टम्।विकीर्णकूटं चलिताग्रसानुंप्रगृह्य वेगात्सहसोन्ममाथ॥ ६१स तं समुत्पाट्य खमुत्पपातवित्रास्य लोकान्ससुरान्सुरेन्द्रान्।संस्तूयमानः खचरैरनेकैर्जगाम वेगाद्गरुडोग्रवीर्यः॥ ६२स भास्कराध्वानमनुप्रपन्नस्तद्भास्कराभं शिखरं प्रगृह्य।बभौ तदा भास्करसंनिकाशोरवेः समीपे प्रतिभास्कराभः॥ ६३स तेन शैलेन भृशं रराजशैलोपमो गन्धवहात्मजस्तु।सहस्रधारेण सपावकेनचक्रेण खे विष्णुरिवोद्धृतेन॥ ६४तं वानराः प्रेक्ष्य तदा विनेदुःस तानपि प्रेक्ष्य मुदा ननाद।तेषां समुद्घुष्टरवं निशम्यलङ्कालया भीमतरं विनेदुः॥ ६५ततो महात्मा निपपात तस्मिञ्शैलोत्तमे वानरसैन्यमध्ये।हर्युत्तमेभ्यः शिरसाभिवाद्यविभीषणं तत्र च सस्वजे सः॥ ६६तावप्युभौ मानुषराजपुत्रौतं गन्धमाघ्राय महौषधीनाम्।बभूवतुस्तत्र तदा विशल्यावुत्तस्थुरन्ये च हरिप्रवीराः॥ ६७ततो हरिर्गन्धवहात्मजस्तुतमोषधीशैलमुदग्रवीर्यः।निनाय वेगाद्धिमवन्तमेवपुनश्च रामेण समाजगाम॥ ६८इति श्रीरामायणे युद्धकाण्डे एकषष्टितमः सर्गः ॥ ६१
वाल्मीकिरामायणम् Baroda Critical EditionCC0. No rights reserved