॥ ॐ श्री गणपतये नमः ॥

६४ सर्गः
निकुम्भो भ्रातरं दृष्ट्वा सुग्रीवेण निपातितम्।प्रदहन्निव कोपेन वानरेन्द्रमवैक्षत॥ १ततः स्रग्दामसंनद्धं दत्तपञ्चाङ्गुलं शुभम्।आददे परिघं वीरो नगेन्द्रशिखरोपमम्॥ २हेमपट्टपरिक्षिप्तं वज्रविद्रुमभूषितम्।यमदण्डोपमं भीमं रक्षसां भयनाशनम्॥ ३तमाविध्य महातेजाः शक्रध्वजसमं रणे।विननाद विवृत्तास्यो निकुम्भो भीमविक्रमः॥ ४उरोगतेन निष्केण भुजस्थैरङ्गदैरपि।कुण्डलाभ्यां च मृष्टाभ्यां मालया च विचित्रया॥ ५निकुम्भो भूषणैर्भाति तेन स्म परिघेण च।यथेन्द्रधनुषा मेघः सविद्युत्स्तनयित्नुमान्॥ ६परिघाग्रेण पुस्फोट वातग्रन्थिर्महात्मनः।प्रजज्वाल सघोषश्च विधूम इव पावकः॥ ७नगर्या विटपावत्या गन्धर्वभवनोत्तमैः।सह चैवामरावत्या सर्वैश्च भवनैः सह॥ ८सतारागणनक्षत्रं सचन्द्रं समहाग्रहम्।निकुम्भपरिघाघूर्णं भ्रमतीव नभस्तलम्॥ ९दुरासदश्च संजज्ञे परिघाभरणप्रभः।क्रोधेन्धनो निकुम्भाग्निर्युगान्ताग्निरिवोत्थितः॥ १०राक्षसा वानराश्चापि न शेकुः स्पन्दितुं भयात्।हनूमंस्तु विवृत्योरस्तस्थौ प्रमुखतो बली॥ ११परिघोपमबाहुस्तु परिघं भास्करप्रभम्।बली बलवतस्तस्य पातयामास वक्षसि॥ १२स्थिरे तस्योरसि व्यूढे परिघः शतधा कृतः।विशीर्यमाणः सहसा उल्का शतमिवाम्बरे॥ १३स तु तेन प्रहारेण चचाल च महाकपिः।परिघेण समाधूतो यथा भूमिचलेऽचलः॥ १४स तथाभिहतस्तेन हनूमान्प्लवगोत्तमः।मुष्टिं संवर्तयामास बलेनातिमहाबलः॥ १५तमुद्यम्य महातेजा निकुम्भोरसि वीर्यवान्।अभिचिक्षेप वेगेन वेगवान्वायुविक्रमः॥ १६ततः पुस्फोट चर्मास्य प्रसुस्राव च शोणितम्।मुष्टिना तेन संजज्ञे ज्वाला विद्युदिवोत्थिता॥ १७स तु तेन प्रहारेण निकुम्भो विचचाल ह।स्वस्थश्चापि निजग्राह हनूमन्तं महाबलम्॥ १८विचुक्रुशुस्तदा संख्ये भीमं लङ्कानिवासिनः।निकुम्भेनोद्धृतं दृष्ट्वा हनूमन्तं महाबलम्॥ १९स तथा ह्रियमाणोऽपि कुम्भकर्णात्मजेन हि।आजघानानिलसुतो वज्रवेगेन मुष्टिना॥ २०आत्मानं मोचयित्वाथ क्षितावभ्यवपद्यत।हनूमानुन्ममथाशु निकुम्भं मारुतात्मजः॥ २१निक्षिप्य परमायत्तो निकुम्भं निष्पिपेष च।उत्पत्य चास्य वेगेन पपातोरसि वीर्यवान्॥ २२परिगृह्य च बाहुभ्यां परिवृत्य शिरोधराम्।उत्पाटयामास शिरो भैरवं नदतो महत्॥ २३अथ विनदति सादिते निकुम्भेपवनसुतेन रणे बभूव युद्धम्।दशरथसुतराक्षसेन्द्रचम्वोर्भृशतरमागतरोषयोः सुभीमम्॥ २४इति श्रीरामायणे युद्धकाण्डे चतुष्षष्टितमः सर्गः ॥ ६४
वाल्मीकिरामायणम् Baroda Critical EditionCC0. No rights reserved