॥ ॐ श्री गणपतये नमः ॥

७० सर्गः
राघवश्चापि विपुलं तं राक्षसवनौकसाम्।श्रुत्वा संग्रामनिर्घोषं जाम्बवन्तमुवाच ह॥ १सौम्य नूनं हनुमता कृतं कर्म सुदुष्करम्।श्रूयते हि यथा भीमः सुमहानायुधस्वनः॥ २तद्गच्छ कुरु साहाय्यं स्वबलेनाभिसंवृतः।क्षिप्रमृष्कपते तस्य कपिश्रेष्ठस्य युध्यतः॥ ३ऋक्षराजस्तथेत्युक्त्वा स्वेनानीकेन संवृतः।आगच्छत्पश्चिमद्वारं हनूमान्यत्र वानरः॥ ४अथायान्तं हनूमन्तं ददर्शर्क्षपतिः पथि।वानरैः कृतसंग्रामैः श्वसद्भिरभिसंवृतम्॥ ५दृष्ट्वा पथि हनूमांश्च तदृष्कबलमुद्यतम्।नीलमेघनिभं भीमं संनिवार्य न्यवर्तत॥ ६स तेन हरिसैन्येन संनिकर्षं महायशाः।शीघ्रमागम्य रामाय दुःखितो वाक्यमब्रवीत्॥ ७समरे युध्यमानानामस्माकं प्रेक्षतां च सः।जघान रुदतीं सीतामिन्द्रजिद्रावणात्मजः॥ ८उद्भ्रान्तचित्तस्तां दृष्ट्वा विषण्णोऽहमरिंदम।तदहं भवतो वृत्तं विज्ञापयितुमागतः॥ ९तस्य तद्वचनं श्रुत्वा राघवः शोकमूर्छितः।निपपात तदा भूमौ छिन्नमूल इव द्रुमः॥ १०तं भूमौ देवसंकाशं पतितं दृश्य राघवम्।अभिपेतुः समुत्पत्य सर्वतः कपिसत्तमाः॥ ११असिञ्चन्सलिलैश्चैनं पद्मोत्पलसुगन्धिभिः।प्रदहन्तमसह्यं च सहसाग्निमिवोत्थितम्॥ १२तं लक्ष्मणोऽथ बाहुभ्यां परिष्वज्य सुदुःखितः।उवाच राममस्वस्थं वाक्यं हेत्वर्थसंहितम्॥ १३शुभे वर्त्मनि तिष्ठन्तं त्वामार्यविजितेन्द्रियम्।अनर्थेभ्यो न शक्नोति त्रातुं धर्मो निरर्थकः॥ १४भूतानां स्थावराणां च जङ्गमानां च दर्शनम्।यथास्ति न तथा धर्मस्तेन नास्तीति मे मतिः॥ १५यथैव स्थावरं व्यक्तं जङ्गमं च तथाविधम्।नायमर्थस्तथा युक्तस्त्वद्विधो न विपद्यते॥ १६यद्यधर्मो भवेद्भूतो रावणो नरकं व्रजेत्।भवांश्च धर्मसंयुक्तो नैवं व्यसनमाप्नुयात्॥ १७तस्य च व्यसनाभावाद्व्यसनं च गते त्वयि।धर्मेणोपलभेद्धर्ममधर्मं चाप्यधर्मतः॥ १८यदि धर्मेण युज्येरन्नाधर्मरुचयो जनाः।धर्मेण चरतां धर्मस्तथा चैषां फलं भवेत्॥ १९यस्मादर्था विवर्धन्ते येष्वधर्मः प्रतिष्ठितः।क्लिश्यन्ते धर्मशीलाश्च तस्मादेतौ निरर्थकौ॥ २०वध्यन्ते पापकर्माणो यद्यधर्मेण राघव।वधकर्महतो धर्मः स हतः कं वधिष्यति॥ २१अथ वा विहितेनायं हन्यते हन्ति वा परम्।विधिरालिप्यते तेन न स पापेन कर्मणा॥ २२अदृष्टप्रतिकारेण अव्यक्तेनासता सता।कथं शक्यं परं प्राप्तुं धर्मेणारिविकर्शन॥ २३यदि सत्स्यात्सतां मुख्य नासत्स्यात्तव किंचन।त्वया यदीदृशं प्राप्तं तस्मात्सन्नोपपद्यते॥ २४अथ वा दुर्बलः क्लीबो बलं धर्मोऽनुवर्तते।दुर्बलो हृतमर्यादो न सेव्य इति मे मतिः॥ २५बलस्य यदि चेद्धर्मो गुणभूतः पराक्रमे।धर्ममुत्सृज्य वर्तस्व यथा धर्मे तथा बले॥ २६अथ चेत्सत्यवचनं धर्मः किल परंतप।अनृतस्त्वय्यकरुणः किं न बद्धस्त्वया पिता॥ २७यदि धर्मो भवेद्भूत अधर्मो वा परंतप।न स्म हत्वा मुनिं वज्री कुर्यादिज्यां शतक्रतुः॥ २८अधर्मसंश्रितो धर्मो विनाशयति राघव।सर्वमेतद्यथाकामं काकुत्स्थ कुरुते नरः॥ २९मम चेदं मतं तात धर्मोऽयमिति राघव।धर्ममूलं त्वया छिन्नं राज्यमुत्सृजता तदा॥ ३०अर्थेभ्यो हि विवृद्धेभ्यः संवृद्धेभ्यस्ततस्ततः।क्रियाः सर्वाः प्रवर्तन्ते पर्वतेभ्य इवापगाः॥ ३१अर्थेन हि वियुक्तस्य पुरुषस्याल्पतेजसः।व्युच्छिद्यन्ते क्रियाः सर्वा ग्रीष्मे कुसरितो यथा॥ ३२सोऽयमर्थं परित्यज्य सुखकामः सुखैधितः।पापमारभते कर्तुं तथा दोषः प्रवर्तते॥ ३३यस्यार्थास्तस्य मित्राणि यस्यार्थास्तस्य बान्धवः।यस्यार्थाः स पुमाँल्लोके यस्यार्थाः स च पण्डितः॥ ३४यस्यार्थाः स च विक्रान्तो यस्यार्थाः स च बुद्धिमान्।यस्यार्थाः स महाभागो यस्यार्थाः स महागुणः॥ ३५अर्थस्यैते परित्यागे दोषाः प्रव्याहृता मया।राज्यमुत्सृजता वीर येन बुद्धिस्त्वया कृता॥ ३६यस्यार्था धर्मकामार्थास्तस्य सर्वं प्रदक्षिणम्।अधनेनार्थकामेन नार्थः शक्यो विचिन्वता॥ ३७हर्षः कामश्च दर्पश्च धर्मः क्रोधः शमो दमः।अर्थादेतानि सर्वाणि प्रवर्तन्ते नराधिप॥ ३८येषां नश्यत्ययं लोकश्चरतां धर्मचारिणाम्।तेऽर्थास्त्वयि न दृश्यन्ते दुर्दिनेषु यथा ग्रहाः॥ ३९त्वयि प्रव्रजिते वीर गुरोश्च वचने स्थिते।रक्षसापहृता भार्या प्राणैः प्रियतरा तव॥ ४०तदद्य विपुलं वीर दुःखमिन्द्रजिता कृतम्।कर्मणा व्यपनेष्यामि तस्मादुत्तिष्ठ राघव॥ ४१अयमनघ तवोदितः प्रियार्थंजनकसुता निधनं निरीक्ष्य रुष्टः।सहयगजरथां सराक्षसेन्द्रांभृशमिषुभिर्विनिपातयामि लङ्काम्॥ ४२इति श्रीरामायणे युद्धकाण्डे सप्ततितमः सर्गः ॥ ७०
वाल्मीकिरामायणम् Baroda Critical EditionCC0. No rights reserved