७१ सर्गः
राममाश्वासयाने तु लक्ष्मणे भ्रातृवत्सले।निक्षिप्य गुल्मान्स्वस्थाने तत्रागच्छद्विभीषणः॥ १नानाप्रहरणैर्वीरैश्चतुर्भिः सचिवैर्वृतः।नीलाञ्जनचयाकारैर्मातंगैरिव यूथपः॥ २सोऽभिगम्य महात्मानं राघवं शोकलालसं।वानरांश्चैव ददृशे बाष्पपर्याकुलेक्षणान्॥ ३राघवं च महात्मानमिक्ष्वाकुकुलनन्दनम्।ददर्श मोहमापन्नं लक्ष्मणस्याङ्कमाश्रितम्॥ ४व्रीडितं शोकसंतप्तं दृष्ट्वा रामं विभीषणः।अन्तर्दुःखेन दीनात्मा किमेतदिति सोऽब्रवीत्॥ ५विभीषण मुखं दृष्ट्वा सुग्रीवं तांश्च वानरान्।उवाच लक्ष्मणो वाक्यमिदं बाष्पपरिप्लुतः॥ ६हतामिन्द्रजिता सीतामिह श्रुत्वैव राघवः।हनूमद्वचनात्सौम्य ततो मोहमुपागतः॥ ७कथयन्तं तु सौमित्रिं संनिवार्य विभीषणः।पुष्कलार्थमिदं वाक्यं विसंज्ञं राममब्रवीत्॥ ८मनुजेन्द्रार्तरूपेण यदुक्तस्त्वं हनूमता।तदयुक्तमहं मन्ये सागरस्येव शोषणम्॥ ९अभिप्रायं तु जानामि रावणस्य दुरात्मनः।सीतां प्रति महाबाहो न च घातं करिष्यति॥ १०याच्यमानः सुबहुशो मया हितचिकीर्षुणा।वैदेहीमुत्सृजस्वेति न च तत्कृतवान्वचः॥ ११नैव साम्ना न भेदेन न दानेन कुतो युधा।सा द्रष्टुमपि शक्येत नैव चान्येन केनचित्॥ १२वानरान्मोहयित्वा तु प्रतियातः स राक्षसः।चैत्यं निकुम्भिलां नाम यत्र होमं करिष्यति॥ १३हुतवानुपयातो हि देवैरपि सवासवैः।दुराधर्षो भवत्येष संग्रामे रावणात्मजः॥ १४तेन मोहयता नूनमेषा माया प्रयोजिता।विघ्नमन्विच्छता तात वानराणां पराक्रमे।ससैन्यास्तत्र गच्छामो यावत्तन्न समाप्यते॥ १५त्यजेमं नरशार्दूलमिथ्या संतापमागतम्।सीदते हि बलं सर्वं दृष्ट्वा त्वां शोककर्शितम्॥ १६इह त्वं स्वस्थ हृदयस्तिष्ठ सत्त्वसमुच्छ्रितः।लक्ष्मणं प्रेषयास्माभिः सह सैन्यानुकर्षिभिः॥ १७एष तं नरशार्दूलो रावणिं निशितैः शरैः।त्याजयिष्यति तत्कर्म ततो वध्यो भविष्यति॥ १८तस्यैते निशितास्तीक्ष्णाः पत्रिपत्राङ्गवाजिनः।पतत्रिण इवासौम्याः शराः पास्यन्ति शोणितम्॥ १९तत्संदिश महाबाहो लक्ष्मणं शुभलक्षणम्।राक्षसस्य विनाशाय वज्रं वज्रधरो यथा॥ २०मनुजवर न कालविप्रकर्षोरिपुनिधनं प्रति यत्क्षमोऽद्य कर्तुम्।त्वमतिसृज रिपोर्वधाय बाणीमसुरपुरोन्मथने यथा महेन्द्रः॥ २१समाप्तकर्मा हि स राक्षसेन्द्रोभवत्यदृश्यः समरे सुरासुरैः।युयुत्सता तेन समाप्तकर्मणाभवेत्सुराणामपि संशयो महान्॥ २२इति श्रीरामायणे युद्धकाण्डे एकसप्ततितमः सर्गः ॥ ७१
वाल्मीकिरामायणम् Baroda Critical EditionCC0. No rights reserved