॥ ॐ श्री गणपतये नमः ॥

७३ सर्गः
अथ तस्यामवस्थायां लक्ष्मणं रावणानुजः।परेषामहितं वाक्यमर्थसाधकमब्रवीत्॥ १अस्यानीकस्य महतो भेदने यतलक्ष्मण।राक्षसेन्द्रसुतोऽप्यत्र भिन्ने दृश्यो भविष्यति॥ २स त्वमिन्द्राशनिप्रख्यैः शरैरवकिरन्परान्।अभिद्रवाशु यावद्वै नैतत्कर्म समाप्यते॥ ३जहि वीरदुरात्मानं मायापरमधार्मिकम्।रावणिं क्रूरकर्माणं सर्वलोकभयावहम्॥ ४विभीषणवचः श्रुत्वा लक्ष्मणः शुभलक्षणः।ववर्ष शरवर्षाणि राक्षसेन्द्रसुतं प्रति॥ ५ऋक्षाः शाखामृगाश्चैव द्रुमाद्रिवरयोधिनः।अभ्यधावन्त सहितास्तदनीकमवस्थितम्॥ ६राक्षसाश्च शितैर्बाणैरसिभिः शक्तितोमरैः।उद्यतैः समवर्तन्त कपिसैन्यजिघांसवः॥ ७स संप्रहारस्तुमुलः संजज्ञे कपिरक्षसाम्।शब्देन महता लङ्कां नादयन्वै समन्ततः॥ ८शस्त्रैर्बहुविधाकारैः शितैर्बाणैश्च पादपैः।उद्यतैर्गिरिशृङ्गैश्च घोरैराकाशमावृतम्॥ ९ते राक्षसा वानरेषु विकृताननबाहवः।निवेशयन्तः शस्त्राणि चक्रुस्ते सुमहद्भयम्॥ १०तथैव सकलैर्वृक्षैर्गिरिशृङ्गैश्च वानराः।अभिजघ्नुर्निजघ्नुश्च समरे राक्षसर्षभान्॥ ११ऋक्षवानरमुख्यैश्च महाकायैर्महाबलैः।रक्षसां वध्यमानानां महद्भयमजायत॥ १२स्वमनीकं विषण्णं तु श्रुत्वा शत्रुभिरर्दितम्।उदतिष्ठत दुर्धर्षस्तत्कर्मण्यननुष्ठिते॥ १३वृक्षान्धकारान्निष्क्रम्य जातक्रोधः स रावणिः।आरुरोह रथं सज्जं पूर्वयुक्तं स राक्षसः॥ १४स भीमकार्मुकशरः कृष्णाञ्जनचयोपमः।रक्तास्यनयनः क्रूरो बभौ मृत्युरिवान्तकः॥ १५दृष्ट्वैव तु रथस्थं तं पर्यवर्तत तद्बलम्।रक्षसां भीमवेगानां लक्ष्मणेन युयुत्सताम्॥ १६तस्मिन्काले तु हनुमानुद्यम्य सुदुरासदम्।धरणीधरसंकाशी महावृक्षमरिंदमः॥ १७स राक्षसानां तत्सैन्यं कालाग्निरिव निर्दहन्।चकार बहुभिर्वृक्षैर्निःसंज्ञं युधि वानरः॥ १८विध्वंसयन्तं तरसा दृष्ट्वैव पवनात्मजम्।राक्षसानां सहस्राणि हनूमन्तमवाकिरन्॥ १९शितशूलधराः शूलैरसिभिश्चासिपाणयः।शक्तिभिः शक्तिहस्ताश्च पट्टसैः पट्टसायुधाः॥ २०परिघैश्च गदाभिश्च कुन्तैश्च शुभदर्शनैः।शतशश्च शतघ्नीभिरायसैरपि मुद्गरैः॥ २१घोरैः परशुभिश्चैव भिण्डिपालैश्च राक्षसाः।मुष्टिभिर्वज्रवेगैश्च तलैरशनिसंनिभैः॥ २२अभिजघ्नुः समासाद्य समन्तात्पर्वतोपमम्।तेषामपि च संक्रुद्धश्चकार कदनं महत्॥ २३स ददर्श कपिश्रेष्ठमचलोपममिन्द्रजित्।सूदयानममित्रघ्नममित्रान्पवनात्मजम्॥ २४स सारथिमुवाचेदं याहि यत्रैष वानरः।क्षयमेव हि नः कुर्याद्राक्षसानामुपेक्षितः॥ २५इत्युक्तः सारथिस्तेन ययौ यत्र स मारुतिः।वहन्परमदुर्धर्षं स्थितमिन्द्रजितं रथे॥ २६सोऽभ्युपेत्य शरान्खड्गान्पट्टसासिपरश्वधान्।अभ्यवर्षत दुर्धर्षः कपिमूर्ध्नि स राक्षसः॥ २७तानि शस्त्राणि घोराणि प्रतिगृह्य स मारुतिः।रोषेण महताविषो वाक्यं चेदमुवाच ह॥ २८युध्यस्व यदि शूरोऽसि रावणात्मज दुर्मते।वायुपुत्रं समासाद्य न जीवन्प्रतियास्यसि॥ २९बाहुभ्यां संप्रयुध्यस्व यदि मे द्वन्द्वमाहवे।वेगं सहस्व दुर्बुद्धे ततस्त्वं रक्षसां वरः॥ ३०हनूमन्तं जिघांसन्तं समुद्यतशरासनम्।रावणात्मजमाचष्टे लक्ष्मणाय विभीषणः॥ ३१यस्तु वासवनिर्जेता रावणस्यात्मसंभवः।स एष रथमास्थाय हनूमन्तं जिघांसति॥ ३२तमप्रतिमसंस्थानैः शरैः शत्रुविदारणैः।जीवितान्तकरैर्घोरैः सौमित्रे रावणिं जहि॥ ३३इत्येवमुक्तस्तु तदा महात्माविभीषणेनारिविभीषणेन।ददर्श तं पर्वतसंनिकाशंरथस्थितं भीमबलं दुरासदम्॥ ३४इति श्रीरामायणे युद्धकाण्डे त्रिसप्ततितमः सर्गः ॥ ७३
वाल्मीकिरामायणम् Baroda Critical EditionCC0. No rights reserved