॥ ॐ श्री गणपतये नमः ॥

७४ सर्गः
एवमुक्त्वा तु सौमित्रिं जातहर्षो विभीषणः।धनुष्पाणिनमादाय त्वरमाणो जगाम सः॥ १अविदूरं ततो गत्वा प्रविश्य च महद्वनम्।दर्शयामास तत्कर्म लक्ष्मणाय विभीषणः॥ २नीलजीमूतसंकाशं न्यग्रोधं भीमदर्शनम्।तेजस्वी रावणभ्राता लक्ष्मणाय न्यवेदयत्॥ ३इहोपहारं भूतानां बलवान्रावणातजः।उपहृत्य ततः पश्चात्संग्राममभिवर्तते॥ ४अदृश्यः सर्वभूतानां ततो भवति राक्षसः।निहन्ति समरे शत्रून्बध्नाति च शरोत्तमैः॥ ५तमप्रविष्टं न्यग्रोधं बलिनं रावणात्मजम्।विध्वंसय शरैस्तीक्ष्णैः सरथं साश्वसारथिम्॥ ६तथेत्युक्त्वा महातेजाः सौमित्रिर्मित्रनन्दनः।बभूवावस्थितस्तत्र चित्रं विस्फारयन्धनुः॥ ७स रथेनाग्निवर्णेन बलवान्रावणात्मजः।इन्द्रजित्कवची खड्गी सध्वजः प्रत्यदृश्यत॥ ८तमुवाच महातेजाः पौलस्त्यमपराजितम्।समाह्वये त्वां समरे सम्यग्युद्धं प्रयच्छ मे॥ ९एवमुक्तो महातेजा मनस्वी रावणात्मजः।अब्रवीत्परुषं वाक्यं तत्र दृष्ट्वा विभीषणम्॥ १०इह त्वं जातसंवृद्धः साक्षाद्भ्राता पितुर्मम।कथं द्रुह्यसि पुत्रस्य पितृव्यो मम राक्षस॥ ११न ज्ञातित्वं न सौहार्दं न जातिस्तव दुर्मते।प्रमाणं न च सोदर्यं न धर्मो धर्मदूषण॥ १२शोच्यस्त्वमसि दुर्बुद्धे निन्दनीयश्च साधुभिः।यस्त्वं स्वजनमुत्सृज्य परभृत्यत्वमागतः॥ १३नैतच्छिथिलया बुद्ध्या त्वं वेत्सि महदन्तरम्।क्व च स्वजनसंवासः क्व च नीचपराश्रयः॥ १४गुणवान्वा परजनः स्वजनो निर्गुणोऽपि वा।निर्गुणः स्वजनः श्रेयान्यः परः पर एव सः॥ १५निरनुक्रोशता चेयं यादृशी ते निशाचर।स्वजनेन त्वया शक्यं परुषं रावणानुज॥ १६इत्युक्तो भ्रातृपुत्रेण प्रत्युवाच विभीषणः।अजानन्निव मच्छीलं किं राक्षस विकत्थसे॥ १७राक्षसेन्द्रसुतासाधो पारुष्यं त्यज गौरवात्।कुले यद्यप्यहं जातो रक्षसां क्रूरकर्मणाम्।गुणोऽयं प्रथमो नॄणां तन्मे शीलमराक्षसं॥ १८न रमे दारुणेनाहं न चाधर्मेण वै रमे।भ्रात्रा विषमशीलेन कथं भ्राता निरस्यते॥ १९परस्वानां च हरणं परदाराभिमर्शनम्।सुहृदामतिशङ्कां च त्रयो दोषाः क्षयावहाः॥ २०महर्षीणां वधो घोरः सर्वदेवैश्च विग्रहः।अभिमानश्च कोपश्च वैरित्वं प्रतिकूलता॥ २१एते दोषा मम भ्रातुर्जीवितैश्वर्यनाशनाः।गुणान्प्रच्छादयामासुः पर्वतानिव तोयदाः॥ २२दोषैरेतैः परित्यक्तो मया भ्राता पिता तव।नेयमस्ति पुरी लङ्का न च त्वं न च ते पिता॥ २३अतिमानी च बालश्च दुर्विनीतश्च राक्षस।बद्धस्त्वं कालपाशेन ब्रूहि मां यद्यदिच्छसि॥ २४अद्य ते व्यसनं प्राप्तं किमिह त्वं तु वक्ष्यसि।प्रवेष्टुं न त्वया शक्यो न्यग्रोधो राक्षसाधम॥ २५धर्षयित्वा तु काकुत्स्थौ न शक्यं जीवितुं त्वया।युध्यस्व नरदेवेन लक्ष्मणेन रणे सह।हतस्त्वं देवता कार्यं करिष्यसि यमक्षये॥ २६निदर्शयस्वात्मबलं समुद्यतंकुरुष्व सर्वायुधसायकव्ययम्।न लक्ष्मणस्यैत्य हि बाणगोचरंत्वमद्य जीवन्सबलो गमिष्यसि॥ २७इति श्रीरामायणे युद्धकाण्डे चतुस्सप्ततितमः सर्गः ॥ ७४
वाल्मीकिरामायणम् Baroda Critical EditionCC0. No rights reserved