॥ ॐ श्री गणपतये नमः ॥

७७ सर्गः
युध्यमानौ तु तौ दृष्ट्वा प्रसक्तौ नरराक्षसौ।शूरः स रावणभ्राता तस्थौ संग्राममूर्धनि॥ १ततो विस्फारयामास महद्धनुरवस्थितः।उत्ससर्ज च तीक्ष्णाग्रान्राक्षसेषु महाशरान्॥ २ते शराः शिखिसंकाशा निपतन्तः समाहिताः।राक्षसान्दारयामासुर्वज्रा इव महागिरीन्॥ ३विभीषणस्यानुचरास्तेऽपि शूलासिपट्टसैः।चिच्छेदुः समरे वीरान्राक्षसान्राक्षसोत्तमाः॥ ४राक्षसैस्तैः परिवृतः स तदा तु विभीषणः।बभौ मध्ये प्रहृष्टानां कलभानामिव द्विपः॥ ५ततः संचोदयानो वै हरीन्रक्षोरणप्रियान्।उवाच वचनं काले कालज्ञो रक्षसां वरः॥ ६एकोऽयं राक्षसेन्द्रस्य परायणमिव स्थितः।एतच्छेषं बलं तस्य किं तिष्ठत हरीश्वराः॥ ७अस्मिन्विनिहते पापे राक्षसे रणमूर्धनि।रावणं वर्जयित्वा तु शेषमस्य बलं हतम्॥ ८प्रहस्तो निहतो वीरो निकुम्भश्च महाबलः।कुम्भकर्णश्च कुम्भश्च धूम्राक्षश्च निशाचरः॥ ९अकम्पनः सुपार्श्वश्च चक्रमाली च राक्षसः।कम्पनः सत्त्ववन्तश्च देवान्तकनरान्तकौ॥ १०एतान्निहत्यातिबलान्बहून्राक्षससत्तमान्।बाहुभ्यां सागरं तीर्त्वा लङ्घ्यतां गोष्पदं लघु॥ ११एतावदिह शेषं वो जेतव्यमिह वानराः।हताः सर्वे समागम्य राक्षसा बलदर्पिताः॥ १२अयुक्तं निधनं कर्तुं पुत्रस्य जनितुर्मम।घृणामपास्य रामार्थे निहन्यां भ्रातुरात्मजम्॥ १३हन्तुकामस्य मे बाष्पं चक्शुश्चैव निरुध्यते।तदेवैष महाबाहुर्लक्ष्मणः शमयिष्यति।वानरा घ्नन्तुं संभूय भृत्यानस्य समीपगान्॥ १४इति तेनातियशसा राक्षसेनाभिचोदिताः।वानरेन्द्रा जहृषिरे लाङ्गलानि च विव्यधुः॥ १५ततस्ते कपिशार्दूलाः क्ष्वेडन्तश्च मुहुर्मुहुः।मुमुचुर्विविधान्नादान्मेघान्दृष्ट्वेव बर्हिणः॥ १६जाम्बवानपि तैः सर्वैः स्वयूथैरभिसंवृतः।अश्मभिस्ताडयामास नखैर्दन्तैश्च राक्षसान्॥ १७निघ्नन्तमृक्षाधिपतिं राक्षसास्ते महाबलाः।परिवव्रुर्भयं त्यक्त्वा तमनेकविधायुधाः॥ १८शरैः परशुभिस्तीक्ष्णैः पट्टसैर्यष्टितोमरैः।जाम्बवन्तं मृधे जघ्नुर्निघ्नन्तं राक्षसीं चमूम्॥ १९स संप्रहारस्तुमुलः संजज्ञे कपिराक्षसाम्।देवासुराणां क्रुद्धानां यथा भीमो महास्वनः॥ २०हनूमानपि संक्रुद्धः सालमुत्पाट्य पर्वतात्।रक्षसां कदनं चक्रे समासाद्य सहस्रशः॥ २१स दत्त्वा तुमुलं युद्धं पितृव्यस्येन्द्रजिद्युधि।लक्ष्मणं परवीरघ्नं पुनरेवाभ्यधावत॥ २२तौ प्रयुद्धौ तदा वीरौ मृधे लक्ष्मणराक्षसौ।शरौघानभिवर्षन्तौ जघ्नतुस्तौ परस्परम्॥ २३अभीक्ष्णमन्तर्दधतुः शरजालैर्महाबलौ।चन्द्रादित्याविवोष्णान्ते यथा मेघैस्तरस्विनौ॥ २४न ह्यादानं न संधानं धनुषो वा परिग्रहः।न विप्रमोक्षो बाणानां न विकर्षो न विग्रहः॥ २५न मुष्टिप्रतिसंधानं न लक्ष्यप्रतिपादनम्।अदृश्यत तयोस्तत्र युध्यतोः पाणिलाघवात्॥ २६चापवेगप्रमुक्तैश्च बाणजालैः समन्ततः।अन्तरिक्षेऽभिसंछन्ने न रूपाणि चकाशिरे।तमसा पिहितं सर्वमासीद्भीमतरं महत्॥ २७न तदानीं ववौ वायुर्न जज्वाल च पावकः।स्वस्त्यस्तु लोकेभ्य इति जजल्पश्च महर्षयः।संपेतुश्चात्र संप्राप्ता गन्धर्वाः सह चारणैः॥ २८अथ राक्षससिंहस्य कृष्णान्कनकभूषणान्।शरैश्चतुर्भिः सौमित्रिर्विव्याध चतुरो हयान्॥ २९ततोऽपरेण भल्लेन सूतस्य विचरिष्यतः।लाघवाद्राघवः श्रीमाञ्शिरः कायादपाहरत्॥ ३०निहतं सारथिं दृष्ट्वा समरे रावणात्मजः।प्रजहौ समरोद्धर्षं विषण्णः स बभूव ह॥ ३१विषण्णवदनं दृष्ट्वा राक्षसं हरियूथपाः।ततः परमसंहृष्टो लक्ष्मणं चाभ्यपूजयन्॥ ३२ततः प्रमाथी शरभो रभसो गन्धमादनः।अमृष्यमाणाश्चत्वारश्चक्रुर्वेगं हरीश्वराः॥ ३३ते चास्य हयमुख्येषु तूर्णमुत्पत्य वानराः।चतुर्षु सुमहावीर्या निपेतुर्भीमविक्रमाः॥ ३४तेषामधिष्ठितानां तैर्वानरैः पर्वतोपमैः।मुखेभ्यो रुधिरं व्यक्तं हयानां समवर्तत॥ ३५ते निहत्य हयांस्तस्य प्रमथ्य च महारथम्।पुनरुत्पत्य वेगेन तस्थुर्लक्ष्मणपार्श्वतः॥ ३६स हताश्वादवप्लुत्य रथान्मथितसारथेः।शरवर्षेण सौमित्रिमभ्यधावत रावणिः॥ ३७ततो महेन्द्रप्रतिमः स लक्ष्मणःपदातिनं तं निशितैः शरोत्तमैः।सृजन्तमादौ निशिताञ्शरोत्तमान्भृशं तदा बाणगणैर्न्यवारयत्॥ ३८इति श्रीरामायणे युद्धकाण्डे सप्तसप्ततितमः सर्गः ॥ ७७
वाल्मीकिरामायणम् Baroda Critical EditionCC0. No rights reserved